अमरुकः एवं अमरुकशतक
6/14/2022 08:20:51 am
अमरुकः एवं अमरुकशतक
अमरुकः यथैव अमरुककविताः प्रथिताः सन्ति , तथैव तदीयमितिवृत्तं तिरोहितं विद्यते । केवलमसौ नवमशतकतः पूर्वमवर्ततेति कथयितुं शक्यते , यतो ८५० कवयो दृश्यन्ते । यथाऽमरुकस्य कवेर्मुक्तकाः शृङ्गारस्पन्दिनः प्रबन्धायमानाः प्रसिद्धा एव । ' इत्युक्तवान् ।
वामनेनापि ८०० ई ० समुद्भूतेनास्य पद्यत्रयमुदाहृतम् , अतोऽस्य समयः अष्टमं शतकं मन्यते , ततः पूर्वमपि किञ्चित् कथयितुं शक्यते ।
अनेन शृङ्गाररसानुकूलाः प्रणयव्यहाराः कामिजनमनोभावाश्चैव केवलं वणिताः परं तत्रैव तावत्याकर्षकतोत्पादिता यदयं सुधीसमाजे गौरवमभजत । एतदीये अमरुतके शतमेकं श्लोकानाम् , संस्करणभेदेन न्यूनाधिकभावोऽपि कियान प्राप्यते ।
अस्य ग्रन्थस्योद्धरणं प्रतिष्ठितेराचार्यः कृतमतोऽस्य प्रियता प्रमातुं शक्यते । १२१५ ई ० समुद्भूतेनार्जुनवर्मणाऽत्र व्याख्या लिखिता , रविचन्द्रेणास्य शतकस्याध्यात्मिकी व्याख्या कृता , चतुर्थशतकोत्पन्नेन वेमभूपालेन अस्य शतकस्य व्याख्या नायिकाभेदपरतया रचिता ।
रतिक्रीडा अङ्गना च मनुष्यजीवनस्यापेक्योपादानविशेषौ तावधिकृत्य कृतोऽयं ग्रन्थः । अत्र का त्रुटिर्यामपनेतुं ब्रह्मज्ञानमत्र समावेशयितुं प्रयस्यन्ति मुधिय इति न जाने ।
अस्य कवेव्यंजनाशक्तिरतिप्रौढा
' असवृत्तो नायं न च खलु गुणैरेव रहितः
प्रियो मुक्ताहारस्तव चरणमूले निपतितः ।
गृहाणेमे मुग्धे व्रजतु निजकण्ठप्रणयिता
मुपायो नास्त्यन्यस्तव हृदयसन्तापशमने।।
अत्र पद्ये वृत्तगुणाहारादिपदेषु श्लेषमहिम्ना यमर्थ कविळञ्जयति स परम रम्यो मूलभित्तिश्चास्य रसपेशलस्य काव्यस्य ।
अन्येऽप्यस्य रम्याः - ' प्रस्थानं वलयैः कृतम् ' इत्यादयः श्लोकाः प्रसिद्धाः । अस्य सर्वोऽपि ग्रन्थः परवत्तिभिः कविभिरात्मसात्कृतो भाषाकविभिः विहारि दासपद्माकरादिभिरनूदितकल्पश्च कृतः ।