पण्डितराजो जगन्नाथः एवं भामिनीविलासः

 पण्डितराजो जगन्नाथः  एवं भामिनीविलासः

पण्डितराजो जगन्नाथः पितुः पेरुभट्टस्य मातुर्लक्ष्म्याश्च पुत्रो तेलङ्गदेशावयवमुनगुण्डाभिधनामवासी वेजिनतीजातीयों जगन्नाथो गोदावरीमण्डलस्य भूषणमासीत् । तस्याभिजनं नाम ' उपद्रष्टा ' इत्यासीत् । स स्वाध्ययनविषये स्वयं लिखति

' श्रीमज्ज्ञानेन्द्रभिक्षोरधिगतसकल ब्रह्मविद्याप्रपञ्चः 
काणादीराक्षपादीरपि गहनगिरो यो महेन्द्रादवेदीत् । 
देवादेवाध्यगीष्ट स्मरहरनगरे शासनं जैमिनीयं 
शेषाप्राप्तशेषामलभणितिरभूत सर्वविद्याधरो यः ॥ ' इति । 


जगन्नाथः शाहजहाँनामकस्य मुस्लिमशासकस्य सभायामासीत् । शाहजहाँ १६२८ तः १६३८ ई ० पर्यन्तं राज्यमकरोत् । अतो जगन्नाथस्य समयविषये कोऽपि संशयो नोदयते । शाहजहाँनृपतेः पुत्रो दारासिकोहो जगन्नाथस्य पोषक आसीत् । 
पण्डितराजो जगन्नाथः  एवं भामिनीविलासः

जगन्नाथः कस्यांचन यवनयुक्त्यामासक्तो जातिच्युतो भूत्वा तामुपयेमे इति प्रवादो जगन्नाथस्य नाम्ना प्रचारिताभिः कविताभिरपि पुष्टि नीयते । तस्या मृतायां जगन्नाथो राजाश्रयं परित्यज्य मथुरामायातो यत्र तस्य १६७४ ई ० वर्षे मृत्युरभवत् । मृत्योः पूर्व स प्रायश्चित्तं कर्तुमपि सन्नद्ध आसीत् पर तत्काल प्रसिद्धी पण्डितो भट्टोजिदीक्षिताप्पय्यदीक्षितौ नानुमेनाते । तत्र कारणं तयो जंगन्नाथेन सहशास्त्रीयमतभेद एवोच्यते । 

पण्डितराजस्य ग्रन्थाः 
१. गङ्गालहरी - द्विपञ्चाशत्पद्यबद्धा गङ्गास्तुतिः 
२. सुधालहरी -  द्वात्रिंशत्पद्यात्मिका सूर्यस्तुतिः
३. अमृतलहरी  -  एकादशश्लोककाया यमुनाप्रशस्तिः 
४. करुणालहरी -  चतुष्पष्टिश्लोकमिता विष्णुस्तुतिः 
५. लक्ष्मीलहरी  -  एकचत्वारिंशत्पद्यात्मिका लक्ष्मीस्तुतिः
६. यमुनावर्णनचम्पूः  -  नामव्याख्यातविषया 
७. आसफविलासः -  आसफखामहोदयस्प प्रशस्तिः 
८. प्राणाभरणम्  -  कामरूपाधीशस्य प्राणनारायणस्य प्रशस्तिः 
९ जगदाभरणम्  -  उदयपुराधीशराणाकर्णसिंहसूनोजंगत्सिंहस्य प्रशस्तिः  
१०. चित्रमीमांसाखण्डनम्  -  अप्पय्यदीक्षितकृतचित्रमीमांसानामकग्रन्था लोचना 
११. मनोरमाकुचमर्दनम्  -  सिद्धान्तकौमुदीटीकाया मनोरमायाः खण्डनम् 
१२. रसगङ्गाधरः - अपूर्णोऽतिप्रौढोऽलङ्कारशास्त्रग्रन्थः 
१३. भामिनीविलासः  -  कवितासङ्ग्रहः 

पण्डितराजस्य भामिनीविलासः -

सरसकवितानिर्माणयशस्वी जगन्नाथः स्वीयानि पद्यरत्नानि ' भामिनी विलास ' नाम्ना संगृहीतवान् , तदुक्तं तेन

' दुर्वृत्ता जारजन्मानो हरिष्यन्तीति शङ्कया । 
मदीयपद्यरत्नानां मञ्जूषैषा मया कृता ।। ' 

अत्र संगृहीताः श्लोका गन्थान्तरेऽप्युदाहरणतया तेनोद्धृताः । वस्तुतो रसपेशलकविताधारायाः पण्डितराज एव समाप्तिर्जाता इति ययुच्यते तदा सत्यं नापलप्यते । स्वयं दक्ष आलोचकः प्रकाण्डपण्डितो दार्शनिकचूडामणि श्चार्य स्वं काव्यं तथा परिमाजितं निर्मितवान् यथा तत्र रेखापि त्रुटेनान्विष्यापि द्रष्टुं शक्यते । स्वयं प्रशंसिताऽपि तेन तकविता 

' मधु द्राक्षा साक्षादमृतमय वामाघरसुधा 
कदाचित् केषाञ्चिन् न खलु विदधोरन्नपि मुदम् । 
ध्रुवं ते जीवन्तोश्यहह मृतका मन्दमतयो 
न येषामानन्दं जनयति जगन्नाथभणितिः ।। ' 

खण्डाः , 
१ - प्रस्तावनाविलासः , 
२ - शृङ्गार बिलासा , 
३ - करुणाविलासः , 
४ - शान्तविलासश्च । 

प्रस्तावनाविलासेन्योक्तयः प्रधानतयोक्ताः , शृङ्गारविलासे शृङ्गाररसकविताः , करुणविलासे पत्नीवियोग व्यथितस्य मर्मस्पृशः उक्तयः शान्तविलासे भक्तिप्रधानाः कविताः सन्ति । क्रमश एकैकमुदाहरणं प्रदश्यते -

' आपेदिरेऽम्बरपथं परितः पतङ्गा 
भृङ्गा रसालमुकुलानि समाश्रयन्ते । 
सङ्कोचमञ्चति सरस्वति दीनदीने मोनो
 नु हन्त कतमा गतिमभ्युपैतु । ' 

' तीरे तरुण्या वदनं सहासं नीरे 
सरोज च मिलविकासम् । 
आलोक्य धावत्युभयत्र मुग्धा 
मरन्दलुब्धालिकिशोरमाला ॥ ' 

धृत्वा पदस्खलनभीतिवशात्करं मे 
यास्तवत्यसि शिलाशकलं विवाहे । 
सा मां विहाय कथमद्य विलासिनि 
द्यामारोहसीति हृदयं शतधा प्रयाति ॥ ' 

पण्डितराजस्य कविताया अद्भुत चमत्कारित्वं विद्यते यदन्वयः सातिशयः स्फुटो भवति , कुत्रावि अन्वयस्यावश्यकता न भवति , रसपरिपाकश्च स्फीतो भवति । 
यदि पण्डित राजस्य यमुनावर्णनचम्पूः प्राप्तः स्यात्तदा गद्यवर्मन्यपि नवः प्रकाश आहितः स्यादिति मम दृढो विश्वासः ।

 इतर मुक्तककाराः 

भर्तृहरिः - सप्तमं शतकम्  -  भर्तृहरिशतकत्रयम् 
भल्लट  -  अष्टमं शतकम् - भल्लटशतकम् 
मधुसूदनः -- सप्तदशशतकम्  - मधुसूदनशतकम् 
हरिहरोपाध्यायः -  सप्तदशशतकम्  - हरिहरसुभाषितम्