गोवर्धनाचार्यः एवं आर्या सप्तशती
6/14/2022 08:21:36 am
गोवर्धनाचार्यः एवं आर्या सप्तशती
गोवर्धनाचार्यः अयं गोवर्धनाचार्यो मैथिलः पण्डितो वङ्गीयस्य राज्ञो लक्ष्मणसेनस्य सभायां विद्यमान आसीत् । तथा चोक्तम् -
' गोवर्धतश्च शरणो जयदेव उमापतिः ।
कविराजश्च रत्नानि समिती लक्ष्मणस्य तु । '
श्रीजयदेवकविनाऽपि स्ययंतेऽयम्
' शृङ्गारोत्तरसत्प्रमेयरचनेराचार्यगोवर्धनस्पर्धी कोऽपि न विश्रुतः ... "
तदयं द्वादशशताब्द्या आदौ विद्यमान आसीदिति निश्चीयते , यतो लक्म गस्य समयः तत्प्रवत्तितेन सम्प्रति प्रचरितेन संवत्सरेणैव निश्चितः ।
अनेन कविवरहालविरचितां प्राकृतमयीं गाथासप्तशतीमाश्रित्य आमियो मुक्तकरूपः शृङ्गारसर्वस्वभूतो ग्रन्थः आशिप्तशतीनाम्ना कृतो यो विद्वत्समाजे सुप्रसिद्धः ।
अस्य कवेरुक्त्यैव ज्ञायते यदस्य शिष्य उदयनो भ्राता च बलभद्रनामा आसीत् , याभ्यामस्य ग्रन्यो लिखितः परिष्कृतश्च
' उदयनबलभद्राभ्यां सप्तशती शिष्यसोदराभ्यां मे ।
द्योरिव रविचन्द्राभ्यां प्रकाशिता निर्मलीकृत्य ॥ '
मङ्गलाचरणत एवायं स्वयं शृङ्गारमयकवित्वं व्यञ्जयितुं प्रारभते
' मा वम संवृणु विषमिदमिति सातई पितामहेनोक्तः ।
प्रातर्जयति सलज्जा कज्जलमलिनाधरः शम्भुः ।।
सन्ध्यासलिलाञ्जलिमपि कङ्कणफणिपीयमानमविजानन् ।
गौरीमुखार्पितमना विजयाहसितः शिवो जयति ॥
वस्तुतोऽस्यार्यासु शृङ्गारस्य मार्मिकी व्यञ्जना विद्यते , तद्विषये स्वयमुक्त गोवर्धनेन - ' मदनाद्वयोपनिषदो विशदा गोवर्धनस्याः ।
न केवलं शृङ्गारस्य कामकलाकलाप एवानेन प्रस्तुतोऽपि तु प्रणयस्य सौम्य सात्त्विकरूपमपि व्यजितम्-
' अन्यमुखे दुर्वादो यः प्रियमुखे स एव परिहासः ।
इतरेन्धनजन्मा यो धूमः सोऽगुरुसमुद्भवो धूपः ।। '
इदं तु सत्यं यत् गाथासप्तशतीमनुकुर्वती अपि आर्यांसप्तशती गाथासप्तशती वत् जीवनस्यान्यानि रहस्यानि नोद्धटयति , तथापि शृङ्गारवर्णनमात्रे कुतोऽपि ग्रन्थादस्यापकृष्टता वक्तुं न शक्यते । क्वचित् क्वचिदनेन लोकवृत्तस्यापि साधु समावेशः कृतो । यथा
' भोगाक्षमस्य रक्षा दृङ्मात्रेणेव कुर्वतोऽनभिमुखस्य ।
वृद्धस्य प्रमदापि श्रीरपि भृत्यस्य भोगाय ॥