कविवरो मयूरः

कविवरो मयूरः

 बाणो मयूरस्य समकालिकः सम्बन्धी चेति कथा प्रसिद्धा । अतोऽयं बाण समकालिकः सम्भवति । उच्यते - 

अहो प्रभावो वाग्देव्या यन्मातङ्गदिवाकरः । 
श्रीहर्षस्याभवत्सभ्यः समो बागमयूरयोः ॥ ' 

अतोऽस्य षष्ठशतकं कालः इति पूर्वोक्तं समर्थितं भवति । केनापि कार णेन महारोगाक्रान्तोऽयं स्तुत्या सूर्य प्रसाद्य तत्कृपया नैरुज्यमयासीदिति कथा प्रसिद्धा । 
कविवरो मयूरः

मयूरस्य सूर्यशतकम्

 मयूरशतकं सूर्यशतकमिति वा प्रसिद्धमिदं स्तोत्रं नितान्तप्रौढरचनं प्रसि दम् । आनन्दवर्धनोऽपि ध्वन्यालोके मयूरस्य सूर्यशतकमुद्धरति , इदमेवास्य प्रोढः प्रसिद्धेश्च प्रबलं प्रमाणम् । अस्य रचना शब्दार्थगुम्फे कस्यापि कवेः कवितामधरयति माघः श्रीहर्षोऽपि वा सर्वात्मना सूर्यशतकगतां प्रौढ़ि प्रपन्नो न बति सन्दिग्धमेव । पद्यद्वयमुदाहियते 

' दत्तानन्दाः प्रजानां समुचितसमयाकृष्टसृष्टः पयोभिः 
पूर्वाह्न विप्रकोर्णा दिशि दिशि विरमत्यहि संहारभाजः ।
दीप्तांशीर्दीचंदुःखप्रभवभवभयोदन्यदुत्तारनावो 
गावो वः पावनानां परमपरिमिता प्रीतिमुत्पादयन्तु । '
 ' सं येऽत्युज्ज्वलयन्ति लूनतमसो ये वा नखोद्भासिनो 
ये पुरुणन्ति सरोरुहश्रियमपि क्षिप्ताब्जभासश्च ये ।
 ये मूर्धस्ववभासिनः शितिभूतां ये चामराणां शिरां 
स्याकामन्त्युभयेऽपि ते दिनपतेः पादाः धिये सन्नु वः ।। 

सूर्यशतकस्यैकादश टोकाः , यासु वल्लभदेवस्य सूर्यानुवादिनी प्राचीनतमा ।