नाटककाराः अश्वघोषः
6/14/2022 08:31:27 am
नाटककाराः
संस्कृतभाषायां नाटकानां संख्या न तथा लघ्वी नाप्यतिभूयसो , तथापि शताधिका नाटककारा गणयितुं शक्यन्ते । तेषु नाटककारेषु प्रसिद्धतीना कतिपयनाटककाराणां यथोपलब्ध वृत्तमत्र निर्दिश्यते । संस्कृतनाटककारेषु का प्रथम इति प्रश्ने यदि भासः कालिदासो वा प्रथमो नाटककार उच्यते तदा सत्यं नापलप्यते । तत्परतश्च परे नाटककारा अभवन् ।
नाटककार अश्वघोषः
अश्वघोष एवं प्रथमो नाटककार इति कथनं लूडर्सनमहाशयस्य मतं स्वाधारीकरोति । तेन हि तुरफाननगरेऽश्वघोषकृतं नाटकत्रयं प्रकाशं नीतम् । तत्राद्यम् - ' शारिपुत्रप्रकरणम् ' षड्भिरकरुपेतम् । अत्र शारिपुत्रस्य मौद्गल्याय नस्य बुद्धोपदेशग्रहण वणितम् । अत्र भरतवाक्यप्रयोगविरहेऽपि नान्दीप्रस्तावना सूत्रधारादिव्यवस्था नाट्यशास्त्रानुकूला । विभिन्नप्राकृतभाषाप्रयोगोऽप्यस्य शास्त्रानुसारी ।
अश्वघोषस्यान्यन्नाटकद्वयं त्रुटितं विद्यते । तत्रैकं प्रबोधचन्द्रोदय वत् रूपकमेव यत्र बुद्धितिकीर्तिप्रभृतीनां कल्पितपात्राणां चित्रणं कृतम् । इतरच्च मृच्छकटिकसमानम् । एषां नाटकानां भाषा संस्कृतप्राया । एतेनापि प्राचीनतमनाटकरूपतयेषां स्वीकरणं प्राप्तकल्पम् ।
यद्यपि कतिपये विद्वांसो भासं नामादिनाटककारमाहुः , परमिदं मां न रोचते , तत्र हेतून भासकृतिनिर्देशावसरे निवेदयिष्यामि ।