दृश्यकाव्यप्रकरणम् एवं नाटकानामुद्भवः

दृश्यकाव्यप्रकरणम् एवं नाटकानामुद्भवः 

संस्कृतसाहित्यस्य दृश्यकाव्यात्मकमङ्गमपि प्रभूतसमृद्धिशालि । शाकुन्तलं नाम कालिदासीयं नाटकं संस्कृतसाहित्यस्य गौरवं विदेशेषु ख्यापयामास ! हाव्यापेक्षया नाटकानां प्रतिष्ठाऽधिका भवति , यतोऽयंज्ञानविधुरोऽपि लोकवर्गः दृश्यभागाभिनयेनात्मानं विनोदयितुं प्रभवति । दृश्यवस्तुदर्शनजन्मानन्दः अव्यश्रवणजमानन्दमतिशेत इति प्रत्यक्षमेव सचेतसाम् । नहि नाविकारूप स्तुतिश्रवणं तथा मदयति युवानं यथा तदीक्षणम् । अत एवालङ्कारिकाः ' काव्येषु नाटकं रम्यम् ' इत्युद्घोषयन्ति । 
दृश्यकाव्यप्रकरणम् एवं नाटकानामुद्भवः

काव्यगतरसानुभूते कृते यादृशस्य कवित्व भयस्य वातावरणस्यावश्यकता भवति , नहि तत्र सर्वे क्षमन्ते , अत एव सहृदया एवं काव्यमास्वादयितुं प्रभवन्ति । अभिनये पुनवेशभूषाजवनिकादयः स्वयमेव रसानुकूल वातावरणमुपपादयन्तः साधारणजनेभ्योऽपि रसानुभवावसर ददति । अत एव तु नाटकान्तं कवित्वं प्रथते । नाटकानामुद्देश्यमपि नितान्तमहत्त्वपूर्ण भवति । लोके यानि वृत्तानि घटन्ते तेषां चित्रणमेव नाटकं कथ्यते । तत्र विषयोऽप्यसीमतां भजते । 

लोक त्रितयगतानां घटनानां प्रदर्शनं रूपकमङ्गीकरोति । नाटकानामुद्देश्यमपि विशालमेव । तद्धि विनेयजनेभ्योऽपि सुखपिण्डदानद्वारा हिताभिधानमत्र सुख साध्यभावेनावस्थितम् । नाटकावेक्षणेन केचनाशक्तयः पाक्ति लभन्ते , केचनो त्साहम् , अपरे धैर्यम् , केचन विवेकम् । अत एव ' नाटय भिन्नरचेर्जनस्य बहुधाप्येकं समाराधनम् ' उक्तम् । किमप्येतादृशं वस्तु नास्ति यन्नाटकाभिनेयता न यायादत एव नाट्यशास्त्रकारा आहुः

 ' न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला । 
न स योगो न तत् कर्म नाटऽस्मिन् यन्न दृश्यन्ते । ' 

यद्यपि वेदाः सर्वविधज्ञानखनय आख्यायन्ते परन्ते त्रैवणिकमात्रलभ्याः , नाटक पुनः सार्वजनिकतया ततो विशिष्यते । 

दृश्यकाव्यस्य प्राचीनता 

    संस्कृतसाहित्ये दृश्यकाव्यानामुदयः प्राचीनकाल एवाजायत । वैदिकयुगे दृश्यकाव्यानामस्तित्व प्रमाणितम् । ऋग्वेदीयसूक्तैः प्रतीयते यत् तदा दृश्य काव्यमप्रथत । सोमविक्रयसमये क्रियमाणस्याभिनयस्य वर्णनं तत्काले दृश्य संहिताब्राह्मणग्रन्थयोः शैलूषशब्दोपलब्धिरपि वैदिकयुगे दृश्यकाव्यस्यारितवं प्रमापयति । महानते पृष्टेः पशुसमृद्धेश्योपली सत्यां वह्वः समन्ततः कुमारिकाणा नृत्यस्य वर्णनं दृश्यते , तदप्यत्रार्थ प्रमाण भावं भजते । ऋग्वेदगताः यमयमीसंवादाः सरमापणिसंवादाश्च तदानी नाटकस्यास्तित्वं गमयितुं क्षमाः । सामवेदे गानप्रधाने ऋक्ष संवादात्मिकार च सतीषु नाटकानामस्तित्वं तदातनमपलपितुमशक्यमेव । 

    रामायणकाले दृश्यकाव्यानामस्तित्वस्य स्फुटप्रमाणमिह उपलभ्यते । रामायणे ' शेलूप ' - ' नट ' - ' नत्तंक'प्र - भूतीनां दृश्यकाव्याङ्गानामुल्लेखो विद्यते । ' साँची ' स्थाने प्राप्तासु मूत्तिषु कथकानां समूहस्य मूर्तयोऽप्यलभ्यन्त यामु तच्छेष्टाभिरभिनयः प्रकाश्यते । महाभारताङ्गभूते हरिवंशे रामचरितामिन यस्योल्लेखो लभ्यते । एभिः प्रमाणैस्तदात्वे दृश्काव्यसद्भावः प्रमापितो  भवति । 

पाणिनिप्रणीतायामष्टाध्याग्याम् ' पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः । ( ४॥३।११० ) ' कर्मन्दकृशाश्यादिनिः ' ( ४।३।१११ इति सूत्रद्वयं ) दृश्यते । अतः चाभिनयस्य प्रवप्रचारतां गमयति । सिद्धमिदं यत्तत्र समये नटानां शिक्षार्थ सूत्राणि विरच्यन्ते स्म । नटानां शिक्षा काव्यस्य सद्भावं गमयति । 

भगवतः पतञ्जलेर्महाभाष्यमपि तदीये समयेऽभिनयस्य सद्भाव प्रकट यति । तत्र हि - ' ये तावदेते शोभनिका नामैते प्रत्यक्षं कसं घातयन्ति , प्रत्यक्षं च बलि बन्धयन्ति ' इत्युक्तम् । प्रत्यक्षकंसवधबलिबन्धी सम्भवतोऽभिनय एवेति सिद्धपति तदाभिनयप्रचारः । 

द्वितीयशतकनिमिते वात्स्यायनीये कामसूत्रे लिखितम् - ' पक्षस्य मासस्य वा प्रज्ञातेहनि सरस्वत्या भवने नियुक्तानां नित्यं समाजः । कुशील वाश्चागन्तवः प्रेक्षकमेषां दद्युः ' । नागरिकाणां मनोरञ्जनस्य साधन तयाभिनयः प्रमीयतेऽनया वात्स्यायनोक्त्या । 

तदेवमुपरितनल्लेखेः प्रमाणितं तद्वैदिककालादारभ्य विक्रमसमयं यावत् अभिनयस्यात्र देशे प्रचुरः प्रचारः आसीत् । विक्रमसमयात्परतस्तु जाते कालि दासादीनामुदये नाटकप्रचारोऽत्राविच्छिन्नप्रवाह एवाभूत् । 

नाटकानामुद्भवः 

भारतीयनाटकानामुद्भवः कथमभूदिति विषये विचार्यमाणे प्रथमं पाश्च त्यपण्डितानां मतानि द्रष्टव्यानि । तत्र रिजजे - महोदयः वीरपूजामूलक भार तोयनाटकानामुद्भवं प्राह । तन्मतेन मतानां वीरपुरुषाणो सत्काराय समवेता लोका यत्तदोयचरितमनुचक्रस्सन्मूलिकेव भारते नाटकप्रवृत्तिः । रामलीला कृष्णलीला चात्र निदर्शनभावं भजतः ।


 कीथमहोदयस्तु - प्राकृतिकपरिवर्तनानां मूर्त रूप साधारणजन समक्षमवतारयितुमेव नाटकानामुदयो जातः । कंसवधनामके  महाभाष्य  मदिष्टे नाटके कृष्णपक्षीया रक्तमुखाः कंसपक्षीया श्याममुखा भवन्ति । वसन्तस्य हेमन्तोपरि विजय एव दर्शयितुमभिलषितः । कृष्णविजयेन प्रकृतिप्रकोप प्रति प्रकाश आधीयत ' इत्याह ।

डाक्टर - पिशेलमहोदयस्तु - पुत्तलिकानृत्यमूलं नाटकानामुदयमाह । नाटकेषु प्रचलिताः सूत्रधारव्यवस्थापकादिशब्दा एतन्मतमुपोद्वलयन्ति । सूत्रधारः सूत्रमादाय पुत्तलिकां नत्तयति , व्यवस्थापकश्च तामादाय यथास्थानं रक्षति । इमो शब्दो पुत्तलिकानृत्ये व्यवह्रियते स्म , सम्प्रति नाटकेषु व्य ह्रियेते इति पुत्तलिकानृत्यमूला नाटकप्रवृत्तिः सम्भाव्यते । 

कतिपये पाश्चात्यविद्वांसो भारतीयनाटकानामुदयं पोलनृत्याधारमाहुः । शीतप्रधाने पाश्चात्त्यदेशे मईमासोऽतिहृयो भवति । तस्मिन् मासे ध्वजाकारं वंशमेकमारोप्य तदधः स्त्रीपुंससमाजो नृत्यति स्म । एतदाधारेव नाटकाना मृत्पत्तिः । अमुमाधारमगणयन्तो विद्वांसा विचारमिममक्षोदक्षमं मन्यन्ते । 

अपरे भारतीया विद्वांसो नाटकानामुदयं वेदस्थितसूक्तमूलकमाहुः । ऋग्वे देऽनेकानि कथनोपकथनप्रधानानि यमयमोसूक्त - सरमापणिसंवादसूक्तोवंशी पुरूरवःसंवादसूक्तप्रभृतीनि सूक्तानि सन्ति , यान्याधारीकृत्य नाटकानि जातानि दृष्टान्तरूपेणोवंशीपुरूरवःसंवादमूलं कालिदासीयं विक्रमोर्वशीयं नाम त्रोटक मपस्थापयितुं शक्यते । 

जर्मनविद्वान् डाक्टरोदरमहोदयोऽपि विचारमिममनुमोदयति । स हि संवादसूक्तेष्वेषु गानमामनति । तदिदं गायनं नृत्येनाभिनीयते स्म , तदिष्य तेऽस्य संवादसूक्तनिवहस्य धार्मिकनाटकरूपता । एतन्मूलैव च भारतीयनाटक प्रवृत्तिः इत्याह । 

डाक्टर - हटलमहोदयोऽपि श्रोदरमहोदयस्य विचारमनुमोदयति । अपरे पुनविद्वांसो विण्डिश - ओल्डेनवर्ग - पिशेल मुख्या अभिप्रयन्ति यत् संवादसूक्तानि पुरा गद्यपद्यात्मकान्यासन् । पद्यभागोऽतिरोचकतया सम्प्रत्यवशिष्यते । गद्य नागस्तु के वलवर्णनपरतया लुप्तप्रायतां गतः । नाटके यदधुना गद्यपायोनिधणं भूयते तदप्येतादृशसंवादसूक्तमूलकमेव । एते विद्वांसः ऐतरेयब्राह्मणगतं शुनः पोपाख्यानं शतपथब्राह्मणगतमुवंशीपुरूरव - उपाख्यानं चात्र साक्षिभावेनोप स्थापयन्ति । 

नाटकानामुत्पत्तेविषये भारतीयं भरतानुसारिमतमधो निर्दिश्यते

 ' महेन्द्रप्रमुखैर्देवैरुक्तः किक पितामहः । 
कीडनीयकमिच्छामो दृश्य श्रव्यं च यद्भवेत् ॥

न वेदव्यवहारोऽयं संश्राव्य शूद्रजातिषु ।
तस्मात्सुजापर वेदं पचर्म सावणिकम ।।
एवमस्त्विति तानुक्त्वा देवराज विमृग्य च । 
सस्मार चतुरो वेदार योगमारवाय तत्ववित् ।। 
धम्यंमस्यं यास्य च सोपदेशं ससंग्रहम् । 
भविष्यतश्च लोकस्य सर्गकर्मानुदर्शकम् ।
 सर्वशास्त्रार्थसम्पन्न 
नाटयसंशमिम वेद सेतिहासं करोम्यहम् ।।
 एवं सङ्कल्प्य भगवान् सर्ववदाननुस्मरन् ।
 नाटयवेदं ततश्चक चतुर्वेदाङ्गसम्भवम् ।। 
जग्राह पाठयमृग्वेदात्सामभ्यो गीतमेव च । 
यजुर्वेदादभिनयान रसानाथर्वणादपि ।। 
वेदोपवेदैः सम्बो नाटयवेदो महात्मना । 
एवं भगवता सृष्टो ब्रह्मणा ललितात्मकम् ।। 
आशापितो विदित्वाहं नाटयवेदं पितामहात् । 
पुत्रानध्यापयं योग्यान प्रयोगं चास्य तत्त्वतः ।।
 एवं प्रयोगे  प्रारज्ये देत्यदानवनाशने ।
अभवन् क्षुभिताः सर्वे देत्या ये तत्र सङ्गताः ।। 
देवनानामृषीणां च राज्ञामथ कुटुम्बिनाम् । 
कृतानुकरणं लोके नाटयमित्यभिधीयते ॥ ' 
( भरतस्य नाटयशास्त्रात् ) 

शारदातनयो निजे " भावप्रकाशना'भियेये ग्रन्थे स्वं विचारमत्र प्रसाइम निम्नलिखितरूपमाविष्कृतवान् -

' कल्पस्यान्ते कदाचित्तु दग्धा लोकान् महेश्वरः । 
स्वे महिम्नि स्थितः स्वरं नृत्यन्नानन्दनि रम् ॥ 
मनसेवासृजद्विष्णु ब्रह्माणं महेश्वरः ।
नियोगादेवदेवस्य ब्रह्मा लोकानथासृजत् ॥ 
सृष्ट्या स देवदेवस्य पुरावृत्तमथास्मरत् । 
दिव्यं चरित्रमेशं मे कथमध्यक्षतामियात् ॥ 
इति चिन्तापरे तस्मिन्नन्यगानन्दिकेश्वरः । 
स नाटयवेदमध्या सप्रयोग चतुर्मुखम् ॥ 
उवाच वाक्यं भगवान् नन्दी तच्चिन्तितार्थवित् । 
नाट्यवेदोपदिष्टानि रूपकाणि च यानि तु ॥
विधाय तेषामेकं तु रूप लक्षणान्वितम् । 
भरतेषु प्रयोज्यं तत्त्वया सम्यग् विजानता ।।
 तस्मिन् प्रयुक्ते भरतैर्भावाभिनयकोविदः । 
प्राक्तनानि च कर्माणि प्रत्यक्षाणि भवन्ति ते ॥ 
एवं ब्रुवन्नन्तरधाद् नन्दी स भगवान् प्रभुः । 
श्रुत्वेतद्वचनं प्रीतो ब्रह्मा देवेः समन्वितः ॥
 ततलिपुरदाहाख्यं सम्यमभ्यधात् । 
अध्याप्य भरतानेतत् प्रयुध्वमिति चाब्रवीत् ॥ 
ततत्रिपुरदाहाख्ये कदाचित् ब्रह्मसंसदि । 
प्रयुज्यमाने भरतैर्भावाभिनयकोविदः ॥ 
तदेतत् प्रेक्षमाणस्य मुखेभ्यो ब्रह्मणः क्रमात । 
वृत्तिभिः सह चत्वारः शृङ्गाराद्या विनिर्गताः ।। .

उपरि निर्दिष्टोद्धरणाभ्यामिदमवगम्यते यत् भारतीया विचारका नाट्यं वेदाविर्भूतरूपं मन्यन्ते । अस्याः कलाया जन्म दुःखाकुले त्रेतायुगे जातम् , गुसभये सत्ययुगे कलेयं कलयापि नासीत् । भारतीया नाट्यकला प्रारम्भत व स्वाभाविको , पुरुषाणां भूमिका पुरुषास्तथा स्त्रीणां भूमिका स्त्रियो धारयन्ति स्म ।

 भारतीयनाटकसाहित्योपरि ग्रीकनाटकानां प्रभावस्यालोचना 


केचन पाश्चात्त्या विद्वांसोऽभिप्रयन्ति यत् - भारतीयं नाटकसाहित्यं ग्रीक नाटकैः प्रभावितम् । सिकन्दरनामको राजा नाटकप्रिय आसीत् , तस्य विनोद साप नाटकानि प्रचुरमभिनीयन्ते स्म । भारते निवसतां ग्रीकदेश्यानामन्यभूपा नमपि सभास्वभिनयस्य प्रचुरः प्रचार आसीत् । अस्य प्रभावः संस्कृतनाटक नाहित्यस्योपरि पतितः । भारतीया प्रतिभा लोकनाटकानां प्रभावमात्मसा कृतवतो । 

परमेतत्कथनं नितान्तभ्रममूलकम् । यदि भारतीयनाटकसाहित्यं वेदाधारक यते तदा ग्रीकप्रभावकल्पना किम्मूला ? यदि विकासस्तन्मूलोऽभ्युपगमम्यते वातत्र स्वतन्त्रेऽपि सम्भवति परकीयप्रभावकल्पनं किमर्थम् ? ग्रोकनाटकैः समं भारतीयनाटकानां तुलनात्मकमध्ययनमपि भेदमेव प्रमापयति । तदस्यां भारतीयनाटकोपरि ग्रीकनाटकप्रभावस्य कल्पने किचितवनमात्रम्, नववंगतोऽपि सारवत् । केचन पण्डितम्मन्याः संस्कृतनाटकेषु ' जवनिका ' शब्द दृष्ट्वा तत्र ' यवनिका ' शब्दं शुद्ध मन्यमाना भारतीयनाटकसाहित्य युनान् - देशोयनाटकसाहित्याधमणं मन्यन्ते । परमिदमतितुच्छम् , यवनशब्दसम्बन्धस्य दूरपराहतत्वात् । 

जवनिका हि द्रुतगामिवस्त्रखण्डपटिताया उपकार्याया नामान्तरम् । उपकार्या भारतीयसाहित्ये यूनानदेशसम्पर्कतः प्रागपि वयत स्म । किश यदि यवनसम्बन्धमूलोऽस्य शब्दस्य प्रयोगोऽभविष्यत् तदा चवगंतृतीया दित्वं कथमघटिष्यत । वस्तुतो राजशेखरेण ' जवनिका ' शब्दः प्रयुक्तः । तदीय प्राकृतं संस्कृते परिणमयन्त इमे ‘ यवनिका ' शब्द कल्पयन्तो यवनसम्बन्धमुभा वितवन्तः । तदिदमज्ञानमूलक कथनमक्षोदक्षममेवेति विरम्यते । 

संस्कृतरङ्गमञ्चः 


भारतीयरङ्गमञ्चस्य व्यवस्थापूर्णत्वमपि यूनानप्रभाववर्णनविपरीतम् । भारतीयरङ्गमञ्चस्य व्यवस्थापूर्णतयैवास्य प्रसारो यावा - सुमात्रा - प्रभृतिदेशेष्वपि पर्याप्तरूपेणोपलभ्यते । रङ्गमञ्चस्य पर्यायी प्रेक्षागृहरङ्गशालाशब्दो प्रथेते । नाटकानि प्रथमतो मुक्ताकाशेऽभिनीयन्ते स्म । यदवधि तथाकरणे विघ्नाः प्रारभ्यन्त ततो गृहस्य प्रयोजनमदृश्यत ।

 भारतोक्त्यनुसारेण प्रेक्ष्यगृहस्य त्रयो भेदाः -

१ . विकृष्टम् , 
२. चतुरस्त्रम् , 
३. त्र्यस्रञ्च । 

विकृष्टम् १०८ हस्तपरिमितं सर्वतो विशाल देवमात्रार्थम् । प्रायो गोलाकारम् । 

चतुरस्र ६४ हस्तपरिमितायाम ३२ हस्तमितपरिणाहन्थ । चतुरस्त्रत्वञ्चास्य स्वनामसिद्धम् । आदर्शभूतमिदं प्रेक्षागृहं राज्ञां कृते प्रसिद्धम् । 

त्र्यस्रञ्च ३२ हस्त मितसकलभुजं लघुनाटकोपयोज्यं त्रिकोणम् । 

एषु प्रेक्षागृहेषु चतुरस्र नाम प्रेक्षागृहं सर्वोत्तमम् । एतद्वर्णनावसरे भरतस्य वैज्ञानिक वैदुष्यं प्रकाशते आदर्शप्रेक्षा-गृहनिर्माणकाले दर्शका यथा सर्वमप्यभिनेयं द्रष्टुं गेयं च श्रोतुं प्रभवे युस्तत्र प्रभूतं ध्यानं रक्ष्यते स्म । तथा च नाट्यशास्त्रम् -

' यश्चाप्यास्यगतो भावो नानादृष्टिसमन्वितः । 
स वेश्मनः प्रकृष्टत्वाद् व्रजेदव्यक्ता पराम् ।। 
यस्मात्याव्य च गेयं च तत्र श्रव्यतरं भवेत् । 
प्रेक्षागृहाणां सर्वेषां तस्मान्मध्यममिष्यते ॥ ' 
( १२२३-२४ )
    
      रङ्गमञ्चस्य सर्वप्रथमो भागो रङ्गशीर्षपदेनाभिधीयते । रङ्गशीर्षस्य विस्तारो ८४४ हस्तमितो विधीयते स्म । तत्राभिनयविघ्नोपशान्तये देवानां पूजनं क्रियते स्म । तदनन्तरं तत्तुल्यपरिमाणं नेपथ्यगृहं निरमीयत । 

नाट्यमण्डपस्य द्विभूमता दर्पणवत् समतलता च भारतीयनाट्य शास्त्र 

' कूर्मपृष्ठं न कर्त्तव्यं मत्स्यपृष्ठं तथैव च । 
शुद्धादर्शतलाकार रङ्गशीर्ष प्रशस्यते । 
कार्यः शैलगुहाकारो द्विभूमिर्नाट्य मण्डपः । 
मन्दवातायनोपेतो निर्वातो धीरशब्दवान् । ' 

दर्शकानामुपवेशनस्य व्यवस्थाऽपि हृद्या विधीयते स्म । सम्प्रति यथा निम्नोन्नता आसनपरम्परा ' गैलरी ' - शब्दव्यवहार्या निर्मीयते तादृश्येवासन परम्परा प्रागाप निर्मीयते स्म । तथा चोक्तम् -

' स्तम्भाना बाह्यतश्चापि सोपानाकृतिपीठकम् । 
इष्टकादभिः कार्य प्रेक्षकाणां निवेशनम् ।। 
हस्तप्रमाणरुत्सेधैर्भूमिभागसमुत्थितः 
रङ्गपीठावलोक्यं तु कुर्यादासनज विधिम् ॥ " 

तदित्थं प्राचीनो रङ्गमञ्चः सुव्यवस्थितरूपो भारतीयनाट्यकलायाः स्वोप जतां प्रकाशयति । भारतोयो रङ्गमञ्चः स्वीयेन वैज्ञानिकबुद्धप्रभवत्वेन सुव्यवस्थाशालित्वेन च विश्वस्य सर्वमपि रङ्गमञ्चमधःकुरुते स्वाधमर्णतां वा प्रापयतीति कथनं न मृषा ।