भासः नाटककार

 भासः नाटककार

भासः

भासस्य काले निर्णये प्राचां कवीनां लेखकानाच लेखा अवलम्बनानि ।

१. कालिदासेन ' प्रथितयशसा भाससौमिल्लकविपुत्रादीनाम् ' इत्यादरा तिशयेन सह तदीया प्रचुरा प्रसिद्धिरुता । 

२. ' गौडवहो ' नामकप्राकृतप्रबन्ध वाक्पतिना ' भासम्मि जलनमित्ते ' इत्यभिधाय कथामेकां प्रतीङ्गितं कृतम् । सा च - भासो व्यासश्च प्राचीन मुनी ' विष्णुधर्म ' नामक ग्रन्थं स्वस्वनिर्मितं प्रकर्षपरीक्षार्थ पावके प्रचिक्षि पतुः । वह्निश्च विष्णुधर्मं भासकृतं नाधाक्षीत् । एषैव भासस्य ज्वलनमैत्री । 

३. उक्तमेवार्थ द्वादशशताब्दीसम्भूतो जयानको नाम कविः स्वीये ' पृथ्वी राजविजय'नामके काव्ये ' सकाव्यसंहारवियो खलानां दीप्तानि वहरपि मानसानि । भासस्य काव्यं खलु विष्णुधर्म सोऽप्याननात् पारदवन् - मुमोच ।। ' इति निवबन्ध । 
भासः नाटककार
४. अभिनवगुप्तः स्वकृतेऽभिनवभारतीग्रन्थे भासं स्मरन् पद्यगिदं तन्नाट काबुद्धतवान् । ' महाकविना भासेनापि स्वप्रबन्धे उक्तम् ' वैतापुगं तदिह हन्त न मैथिली सा रामस्य रागपदवी मृदु चास्य चेतः । लब्धा जनस्तु यदि रावणमस्य कार्य युक्तवान् । स्मृतः । प्रोत्कृत्य तन्न तिलशो न वितृप्तिगामी । ' 

५. बाणभट्टः स्वीये हर्षचरिते भासस्य विषये ' सूत्रधारकृतारम्भैः ' इत्या 

६. दण्डिनाऽपि भासः ‘ सुविभक्तमुखाद्यङ्गः ' इत्यादिनाध्वन्तिसुन्दरीकथायां 

७. प्रतिमानाटके बृहस्पतेरर्थशास्त्र स्मृतं न चाणक्यस्य । एतेन चाणक्याव प्राचीनता भासस्यापतिता । 

भासस्य -

 ' नवं शरावं सलिलैः सुपूर्ण सुसंस्कृतं दर्भकृतोत्तरीयम् । 
तत्तस्य माभून्नरकं स गच्छेयो भत्तु पिण्डस्य कृते न युध्येत् । ' 

पद्यमिदमुद्धरता चाणक्येनापि सा समर्थिता । 

८. राजशेखरः स्वकविविमर्श लिखितवान् 

' भासो रामिलसौमिलौ वररुचिः श्रीसाहसाङ्कः कवि 
मण्ठो भारविकालिदासतरलास्कन्धः सुबन्धुश्च यः । 
दण्डी बाणदिवाकरौ गणपतिः कान्तश्च रत्नाकरः 
सिद्धा यस्य सरस्वती भगवती के तस्य सर्वे वयम् ॥ ' '
 कारणं तु कवित्वस्य न सम्पन्नकुलीनता । 
धावकोऽपि हि यद् भासः कवीनामग्रिमोऽभवत् ।। 

९. आचार्यहेमचन्द्रेण दण्डिकृतकविहृदयव्याख्ययां स्वकृतायां लिखितं भासप्रसङ्गे ' सम्प्रति परां काष्ठामारूडेनापि भासेन भूतपूर्वा स्वीयदशा न विस्मृता । यतोऽनेन पूर्वचरितं घटखपरेणोदकवहनमेव प्रतिज्ञातम् । प्रतिज्ञा चेमामसह मानाः परे कवयः परिहसितुमनसो विक्रमार्कसभ्यमेनं भासं तज्जातिस्मारक घटखपरनाम्ना व्यवजहः । क्रमेण च स एव व्यपदेशो भासमहाकवेः सुप्रसिद्धः 

१० , भरतप्रवत्तितनाटकीयनियमानां समादरो भासेन स्वकृती न कृतः , यथा स्थापनायां न कविनामनिर्देशः अवतरणस्य स्थापनानाम्ना निर्देशो न प्रस्तावनानाम्ना । नान्दीपाठात् परता सूत्रधारप्रवेशः । विनापि भरतवाक्यं प्रन्थसमाप्तिः , मृत्युनिद्रायुद्धानां रङ्गमञ्चेऽवतारणा च । एतेन तस्य भरतप्राची नताऽध्याता । 

११. भासेन पाणिनिप्रवर्तितनियमानामनुरोधो नाचरितस्तेन तस्य पाणिन्य वेक्षया प्राचीनत्वम् । 

१२. रसपरिपाकमहिम्ना भाषाप्रवाहसाम्येन भासस्य व्यासवाल्मीकिसमय पतित्वमातिष्ठन्ते कतिपये । एभिदिशभिरपि कारण सस्य प्राचीनता सिद्धा भवति । सा च प्राचीनता कालिदासादपि प्राचीनमिमं साधयन्ती १०० ई ० पूर्वमितं कालं भासस्य 
( क ) ' प्रोफेसर वनंट ' महाशयो ' मत्त विलास ' नामकग्रन्थेन सहेषा भास स्तत्वेन प्रथमानानां रूपकाणां सम्बन्धविशेषं दृष्ट्वा स्त्रीष्टसप्तमशतकं भासस्य कालमाह । 
( ख ) ' स्टेनकोनो ' ' विण्टरनिज ' महाशयौ तु प्राकृतभाषापर्यालोचनया बोधयति । लोचनां कृतवान् संस्कृतसाहित्येतिहासः कालिदासाश्वपोषयोः प्राकृतयो- कालौ तदनन्तरालवर्ती कोऽपि कालो भास प्राकृतस्येति निश्चित्प खीष्टद्वितीयचतुर्थशतकयोरन्तराले कदाचिद् भासो बभूवेति तर्कयतः । 
( ग ) महामहोपाध्यायो रामावतारशर्मा शूद्रकस्य मृच्छकटिकस्य कुत्सितं संक्षेपमानं चारुदत्तमिति दुर्बलमाधारं समाश्रित्य बोष्टद्वादशशतक भवत्वं भासस्योक्तवान् । 

सर्वमिदं विभावयन जनः कामपि सन्देहदोलामिवाधिरोहति । तो विचारणीयम् - प्राकृतभाषाविचारेण केवलेन कालो निर्णतुमशक्य एव भासस्य रूपकाणां केरलेऽश्वघोषरूपकस्य च वाही केषु उपलम्भात् । 
खीष्टद्वितीयशतकोत्कोणषु रुद्रदामशिलालेखेषु दृश्यमाना कृत्रिमा काव्य शेली भासरूपकेषु न दृश्यते , प्राचीनाः पाणिनिनाऽविचारिताः प्रयोगाश्च दृश्यन्ते । पञ्चरात्रस्य कथा सम्प्रत्युपलभ्यमाने महाभारते नास्ति । 

अतिप्राचीन आलङ्कारिको भामहो भासकृतस्य प्रतिज्ञायौगन्धरायणस्या प्रागुपन्यस्तास्ता भासस्य काल : खोष्टपूर्व चतुर्थशतकमिति बोधयितु मलम् । परमियं भासकालस्य पूर्वसीमा । अपरा सीमा स्त्रीष्टद्वितोयं शतकम् , यतोऽऽनेन कौटिल्यार्थशास्त्रमस्मृता बाईस्पत्यं तत्स्मृत , पाणिनिविरुद्धः प्रयोगः कृतः , कालिदासस्वा स्मृतवान् । 

एवञ्च खीष्टपूर्वचतुर्थशतकस्य खोष्टद्वितीयशतकस्य च मध्ये कदाचित् भासो जात इति स्थूलरूपेण वक्तुं शक्यम् । मृच्छकटिकचारुदत्तसाम्यमूलकस्तकंस्तु चारुदत्ते तत्तदशुद्धिदर्शनान्मृच्छ कूलमेव । कटिकस्यैव पूर्वभवचारुदत्तानुकृतिरूपत्वं प्रमापयतीति सर्व पूर्वोक्तिनिर्णयानु यस्य समये निर्णेये इयती विगोतिस्तस्य चरितं कथं निश्चीयतामिति तद्विषये मौनमेव शरणम् । 

भासस्य रूपकाणि 

महाकविभासस्य त्रयोदश निम्नलिखितानि रूपकाणि प्रसिद्धानि 
  • १. प्रतिज्ञायौगन्धरायणम् 
  • २. अविमारकम् 
  • ३. स्वप्नवासवदत्तम् 
  • ४. प्रतिमानाटकम् 
  • ५. अभिषेकनाटकम् 
  • ७. पञ्चरात्रम्
  • ६. मध्यमव्यायोगः 
  • ८. दूतवाक्यम् 
  • ९ . दूतघटोत्कचम् 
  • १०. कर्णभारः 
  • ११. ऊरुमङ्गम् 
  • १२. बालचरितम् 
  • १३. दरिद्रचारुदत्तम् 
 गोण्डलनिवासी राजवैद्यजीवरामकालिदासमहोदयः १ ९ ४१ खोष्टाब्दे ' यज्ञ फल ' नामकं रूपकमेकं प्रकाशितवान् , तदपि भासकृतित्वेनास्यायते । एवं सति भासस्य चतुर्दश रूपकाणि जातानि । 

एषु प्रतिज्ञायौगन्धरायणस्वप्नवासवदत्ताऽविमारकाणि श्रीणि बृहत्कथाऽधा राणि । प्रतिमानाटकमभिषेकश्चेति । रामायणमूले । मध्यम व्यायोगपञ्चरात्र दूतघटोत्कचकर्णभारोरुभङ्गयज्ञफलदूतवाक्यानि सप्त महाभारताश्रयाणि , बाल चरितं भागवताश्रयम् , दरिद्रचारुदत्तं च कल्पितकथमिति विवेकः । 

१. मध्यमव्यायोगे - 

हिडिम्बानामकराक्षस्या सह भोमस्य प्रणयः , घटोत्कच नामकपुत्रद्वारा चिरविरहितयोस्तयोः सङ्गश्च वर्णितः । 

२. दूतघटोत्कचे - 


हिडिम्बाभीमयोरात्मजस्य घटोत्कचस्प महाभारतीय चरितम् । 

३. कर्णभारे -


 कर्णस्योदात्तं चरितम् , तेन होन्द्राय कवचकुण्डले दत्ते । 


४. करूभङ्गे -


भीमेन प्रियापरिभवप्रतप्तेन दुर्योधनस्प जो भग्ने । संस्कृत साहित्ये शोकान्तनाटकस्येदमेकं निदर्शनम् । 

५. दूतवाक्ये - 


दूतभूतस्य श्रीकृष्णस्य सदाशयतया सहैव दुर्योधनस्या भिमानित्वं वणितम् । 

६. पञ्चरात्रे - 


कल्पिता कथा । द्रोणेन कौरवाणां यज्ञे आचार्यकत्वं कृतम् , दक्षिणायां स पाण्डवानां राज्यं याचितवान् । पञ्चदिनाभ्यन्तरेऽन्वेषणे क्रियमाणे लभ्यं तदिति दुर्योधनस्याश्वासने द्रोणेन तथा कृतम् । 

७. बालचरिते - 


कृष्णस्य बाललीला भागवताचारेण कृता । 

८. अविमारके - 


या कथा सा सम्भवतो गुणाढ्यकृतबृहत्कथातो गृहीता । राजकुमारस्याविमारकस्य कुन्तिभोजकुमार्या कुरङ ग्या सह प्रणयोऽत्र बणितः ।

 ९ . प्रतिज्ञायौगन्धरायणे - 

मन्त्रिणो यौगन्धरायणस्य नीतिरुदयनवासव दत्तयोः प्रणयकथा चात्रोपनिबद्धा । 
मन्त्री यौगन्धरायणः पद्मावत्या मगधराज भगिन्या सहोदयनस्य विवाहं कारयित्वा राजशक्ति वर्दयतुमैच्छत् । ध्रिय माणायां च वासवदत्तायां न सम्भवतीदमिति कदाचिद् दयने मृगयार्थ गते मन्त्रिसम्मत्या वासवदत्ता दग्धेति प्रचार्यते । राज्ञा चिरं विषद्यापि न तप्रेमणि मालिन्यमानीयते पश्चात् पद्मावत्यां परिणीतायां स्वप्नक्रमेणैव वासवदत्ता लभ्यते । 

१०. दरिद्रचारुदत्ते - 

वसन्तसेनाचारुदत्तयोः प्रणयकथा वणिता । अस्य चत्वार एवाङ्का उपलभ्यन्ते । वणिता ।

 ११. अभिषेके - 

रामायणोक्ता बालिवधादारभ्य रामराज्याभिषेकान्ता कथा 

१२. प्रतिमानाटके - 

रामायणप्रोक्तं रामस्य पूर्वचरितमुपनिबद्धम् । 

१३ , यज्ञफले - 

कथाभागोऽत्यल्प एवं युधिष्ठिरयशसम्बन्धी । सर्वेषामेषां रूपकाणामेकककत्वम् 

उपरिदिनिष्टनामानि रूपकाणि समानकर्तृकाणि यत् एषु आश्चर्यजनक साम्यं प्रतिभासते । 
यथा - 
.
  • १. सर्वाष्पपौमानि नाट कानि - नान्यन्ते ततः प्रविशति सूत्रधारः ' एभिरेव शब्दः प्रारभ्यन्ते । 
  • २. एषु रूपकेषु क्वापि रचयितुर्नाम परिचयादिकं नोपलभ्यते । 
  • ३. प्रायः सर्वत्र प्रस्तावनायाः स्थाने स्थापनाशब्दप्रयोगः कृतः । कर्णभारमात्रे प्रस्तावनाशब्दप्रयोगः । 
  • ४. एषु सर्वत्र भरतवाक्यं समानम् । 
  • ५. एषां रूपकाणां भाषाऽऽश्चर्यजनक साम्यं वहति । 
  • ६. सर्वेष्वप्येषु रूपकेषु पताकास्थानस्य मुद्रालङ्कारस्य च समानः प्रयोगः । 
  • ७. अप्रधानपात्राणां नामसाम्यम् , व्याकरणलक्षणहीनप्रयोगप्राचुर्यम् , समानं वाक्यम् , सर्वत्र बाहुल्येन लभ्यते ।
  • ८. भरतकृतनाट्यशास्त्रीयनियमानां सर्वत्र समभावेनानादरः । 
  • ९ . नाट्यनिर्देशस्य अभावः समानः । 
  • १०. एषां सर्वेषां रूपकाणां नामानि केवलमन्त एवं ग्रन्थस्य लभ्यन्ते नान्यत्र स्वापि । 

 भासस्य द्विरवतारः 

यद्यपि बहवो विद्वांसो गणपतिशास्त्रिणा प्रकाशितानि सर्वाप्यपि रूपकाणि प्राचीनभासकृतानीत्युक्तवन्तः प्रमाणानि चोपस्थापितवन्तः , परन्तु जातेन बहुविधानुसन्धानेनेषां कर्ता प्राचीनो भासो न सिद्धयति , यतो भासकृतत्वेनोदा हतानि पद्यानि लभ्यमानग्रन्थेषु नासाद्यन्ते , अतः सर्वाण्यपीमानि रूपकाणि केरलदेशीयेन केनचित् कविना कृतानीति सुवचम् । म ० म ० रामावतारशर्माऽपि लभ्यमानरूपकाणामंशविशेषा एव भासकृता इति मन्यते । अत एव चैषां केरल एवोपलब्धिरिति समुपन्यस्यति तदुपोद्वलकं प्रमाणम् । केरलीया नटा अद्यापि भासनाटकान्यभिनीय लोकान् रञ्जयन्ति । 

अस्यां स्थितौ युक्तमिदं यद् भासद्वयं मन्यताम् , तत्रैकः प्राचीनो भासो यो महाकविकालिदासादिना स्मृतः । अपरश्च केरलीयो नवो द्वादशशताब्दी भासः १२५ समुद्भवो भासो यस्य रूपकाणि चतुर्दश म ० म ० गण पतिशास्त्रिभिः प्रकाश्यं नीतानि । 

भासस्य नाटकनिर्माणनंपुष्यम् 


बहूनां रूपकाणां लेखको भासो जीवनस्य विविधानि क्षेत्राणि दृशोः पात्रतां नीतवानिति वक्त सुशकम् , अत एव चास्य रूपकेषु विविधता समायाता । एतदीयकृतिषु कतिचन नाटकानि पूर्णविकसितानि नाटकानि , यथा - स्वप्न वासवदत्तम् , प्रतिज्ञायौगन्धरायणम् , प्रतिमानाटकन्छ । मध्यमव्याव्योगदूतघटो कचदूतवाक्पकर्णभारोरुभङ्गानि एकाङ्करूपकाणि कथयितुं शक्यन्ते । भासस्य रूपकेषु अभिनययोग्यतैवासाधारणभावेन स्थिता सती तानि प्रख्यापयति । अभिनेयताहेतवश्च - एषां रूपकाणामादितोऽन्तं यावदभिनये सौकर्यम् , सुबोधा सरला संक्षेपवती च वाक्यावलिः , वर्णनविरहः , अविस्तृतानि पात्राणां कथनो पकथनानि , इत्यादिकाः सर्वेषु रूपकेषु दृश्यन्ते । भासः संवादतत्वाभिज्ञ इति तदीयाः कृतयः संवादसौष्ठवं विभ्रति सर्वत्र सुलभम् । 

भासो निजेषु रूपकेषु स्वाधारभूताः कथास्तथैवोपन्यस्यापि केवलेन सरलत्वकथनोपकथनचातुर्यादि योजनेन तानि रमणीयतां प्रापयतीति भासस्य नाटकनिर्माणनपुण्यं सुखमवगन्तुं शक्यम् । 

भासकृतिभिरन्यकविकृतिसाम्यम् 

भासस्य कृतयोऽन्येषां कृतिभिः सह साम्यं बिभ्रति । यथा - शाकुन्तले चतुर्थेऽके वृक्षलतादीन प्रति शकुन्तलाया यः कोमलो मनोभावः - ' पातुं न प्रथमं व्यवस्पति जलं युष्मास्वपोतेषु या ' इत्यादिना वणितस्तत्तुल्य एव भास स्याभिषेके ' यस्यां न प्रियमण्डनापि महिषी देवस्य मन्दोदरी ' इत्यादौ मनोभावो वयते । यथा शाकुन्तले आश्रमवासिना पीडनं परिहर्तुमादिश्यते तथैव स्वप्न वासवदत्ते -'न परुषमाश्रमवासिषु प्रयोज्यम् ' इत्यादिश्यमानं दृश्यते । यथैव शाकुन्तले - ' तव सुचरितमङ गुरीय नूनं प्रतनु ममेव विभाव्यते फलेन ' इति दुष्यन्तेनाङ गुरीयक प्रत्युच्यते , तथैव स्वप्नवासदत्ते - ' श्रुतिसुखनिददे कथं नु देव्याः स्तनयुगले जघनस्थले च सुप्ता ' इति वीणादोर्भाग्यमाकुम्यते । 

एवमेव शूद्रकस्य मृच्छकटिकेन सह चारुदत्तस्य सशिगतं सादृश्य मासाद्यत । 

तदत्र केन कस्याघमण्यं गृहीतमिति विचारे क्रियमाणे कालिदासशूद्रको एवोत्तमों भास एव तयोः अधमर्ण इति मम विश्वासस्तत्रायं भासो द्वितीयो भास इति च । प्रथमो भासः कालिदासादोनां पथि प्रदर्शकः सम्भवति , परं तदोवाः कृतयोः नोपलभ्यन्ते , यश्चार्य केरलोषो रूपकसमूहः स तु नवस्य मासस्य एव हि मन्यमाने सर्वमप्युपपन्नं भवतोति