राजशेखरः नाटककार

 राजशेखरः नाटककार

राजशेखरः

राजशेखरः स्वनाटकप्रस्तावनासु स्वजीवनसम्बन्धे यदुक्तवांस्तदाधारण यायावरवंशेऽस्य जन्माऽऽसीत् , यो वंशोकालजलदसुरानन्दतरलकविराजादीनां जन्मग्रहणेन गौरवान्वितः कथ्यते । अयं राजशेखरो महाराष्ट्रदेशीयः अकाल जलदस्य पौत्रः दकस्य शोलवल्याश्च पुत्र आसीत् । अयं क्षत्रियचौहानवंशो वाम् अवन्तिसुन्दरी नाम ललनामुपयेमे । इयमवन्तिसुन्दरी महाविदुषी बभूव । राजशेखरः पाकपरिभाषाविषये तन्मतमप्युपन्यस्तवान् । 

राजशेखरः नाटककार

यथा - ' आग्रहपरि ग्रहादपि पदस्थेपर्यवसायः , तस्मात्पदानां परिवृत्तिवे मुख्यं पाक इति वामनः । ' इत्यमशक्तिनं पुनः पाकः ' इत्यवन्तिसुन्दरी । हेमचन्द्रदेशीयनाममालायाम अवन्तिसुन्दरीकृतं ' देशोषशब्दकोषम् ' स्मूतवान् , तथाऽवन्तिसुन्दर्या कृतं कति पयशब्दाना नवस्यार्थस्य चर्चामपि कृतवान् । अवन्तिसुन्दर्याः प्राकृतकविता प्रियतायाः प्रमाणमिद यत्तदनुरोधेनेव राजशेखरः कर्पूरमञ्जरीसट्टकं प्राकृत भाषामयं निर्मितवान् । 

महाराष्ट्र देशोद्भवोऽयं कान्यकुब्जराजस्योपाध्यायपदमलमकृत । एतदाश्रय दातुर्नाम महेन्द्रपाल इत्यासीद्यः प्रतिहारवंश्यनृपेषु गौरवशाली समाख्यातः । एतदादेशेनैव बालरामायणं प्रथममभिनीयते स्म । कियतः कालस्य कृतेऽयमन्यं कश्चन नृपमप्याधयत् । यदादेशेन विद्धशालभञ्जिकाया अभिनयो जातः । महेन्द्रपालानन्तरमयं पुनस्तत्तनयस्य महीपालस्य सभ्यभावेन स्थिति यदादेशेन बालभारतस्याभिनयः प्रथमं पदमवत्त । एषां राज्ञां कालस्य पर्यालोचनया राजशेखरस्य कालः खीष्टनवमशतकस्या वसानभागो दशमशतकस्य पूर्वभागश्च सिद्धयति । य महेन्द्रपालमयं स्मरति तेन कारितौ शिलालेखी १०३ , ९ ०७ स्त्रीष्टाब्दयोरुत्कीर्णो , नवमशतकोत्पन्न स्मयंते , मानन्दवर्धनमयमुद्धरति , मुञ्ज ( ९ ७५ - ९९ ३ ) कृपाश्रयेण धनञ्जयेन चायं सर्वमपीदम्मदुक्तमनुमोदयति । 

राजशेखरस्य ग्रन्थाः 

बालरामायणगतं विद्धि नः षट् प्रबन्धान् ' इति वचनमाधारीकृत्य राज शेखरेण षट् ग्रन्था रचिता इति वक्तुं शक्यते -

१ . काव्यमीमांसा , 

२. बाल रामायणम् , 

३. बालभारतम् , 

४. कर्पूरमञ्जरी , 

५. विद्धशालजिका , 

६. हरविलास । 

एषु प्रथमे पञ्च प्राप्ताः प्रकाशिताश्च । षष्ठस्य हरविलासस्योद्धरणं हेमचन्द्रण काव्यानुशासनविवेके दत्तम् तावतैव तस्य सत्वमनुमीयते । 

१ - काव्यमीमांसा कविकर्तव्यतत्स्वरूपादिप्रतिपादनाय रचितः साहित्य विद्याविषयको हृद्यो ग्रन्थः । अत्र कविताविषयक बहु ज्ञातव्यं निर्दिष्टम् । 

२ -- बालरामायणे रामायणस्य कथा नाटकीयरूपमापादिता । तत्प्रणयने कविः सर्वमपि स्वं पाण्डित्यं प्रदर्शितवान् । भवभूतेः कवित्वमनुध्याय प्रवृत्तोऽप्ययं वर्णनबाहुल्येन तमतिशेतुमयतिष्ट । अपत्या कथा तदनामभिरप्याख्यातेति तानि निदिश्यन्ते -१ , प्रतिज्ञापौलस्त्यः , २ . रामरावणीयः , ३. विलक्षलक केश्वरः , ४. भार्गवभङ्गः , उन्मत्तदशाननः , ६. निर्दोषदशरथः , ७. असमपराक्रमः ८. वीरविलासः , ९ . रावणविद्रावणः , १० , सानन्दरघुनन्दनः । 

३. बालभारतस्य द्वावेवाङ्गो लभ्येते , मन्ये तत्रापि महाभारतस्य कथोप निबदा स्यात् ।

४. कर्पूरमञ्जरीसट्टके कर्पूरमजर्या सह राज्ञः चण्डपालस्य प्रेमकथाङ्किता । सैयं कयोदयनकथासम्बद्ध-रत्नावल्यादिसुप्रसिद्धनाटकादीनि स्मारयति । 

५. विद्धशालभजिकाऽपि प्रेमकथावर्णनपरैव चतुरङ्का नाटिका । 

राजशेखरस्य कवित्वम् 

यद्यपि स्वविषये राजशेखरेण 

' बभूव वल्मीकभवः पुरा कविस्ततः प्रपेदे भुवि भर्तृमण्ठताम् । 
स्थितः पुनर्यो भवभूतिरेखया स राजते सम्प्रति राजशेखरः ।। ' 

इत्युक्तं , येन तस्य कवित्वगौरवं व्यक्तीभवति , तथाप्यसो यावत् शब्दचयने बोरतावर्णने च सिद्धो न तावत् मधुरभावचित्रणे । अयं यदि नाटकस्थाने महाकाव्यं निरमास्यत्तदा साफल्यमधिकमध्यगमिष्यदिति कथनं सत्यपि कटत्वे मुत्यसमीपगतम् । 

राजशेखरः संस्कृतप्राकृतपैशाच्यपभ्रंशाभिधासु चतसृष्वपि भाषासु निपुणो विद्वानत एव तस्मिन् कविराज इति संज्ञाऽन्वर्था । तन्मतानुसारेणेकाधिक भाषायां सफलकविरेव कविराज इति कथ्यते । राजशेखरस्य पाब्दगुम्फनव्यग्रता तस्य शब्दकवित्वं प्रकाशयति । वर्णननेपुण्यं पुनस्तस्य तत्राप्यव्याहतमेव , यथा करमन्नाम् । 

' परं ज्योत्स्ना उष्णा गरलसदृशश्चन्दनरसः 
क्षतक्षारो हारो रजनिपवना देहपतनाः । 
मृणाली बाणालो ज्वलयति च जलस्तनुलतां 
वरिष्ठा यद् दृष्टा कमलवदना सा सुनयना ।। ( प्राकृतपद्यानुवादोऽयम् ) 

सीतारूपवर्णने कविचमत्कारो दृश्यताम्- 

' इन्दुलिप्त इवाजेन जडिता दृष्टिमृगीणामिव 
प्रम्लानारुणिमेव विद्रुमलता श्यामेव देहातिः 
पारुष्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं 
सीतायाः पुरतश्च हन्त शिखिना बहाः सगही इव । 

डॉ ० कीथमतानुसारेण यद्यनुप्रासः कवितायाः प्रमाणं मन्यते तदा राज शेखरस्य महाकवित्वं सिद्ध भवति । संस्कृतप्राकृतच्छन्दसां नानाविधानां सम्यक्प्रयोगे कवेरस्य महान् संरम्भो दृश्यते । अयं कविर्लोकभाषाशब्दान संस्कृते प्रयुङ्क्ते । अन्त्यानुप्रासस्यापि कविनाऽनेन प्रयोगः प्राचुर्येण कृतः । 

शार्दूलविक्रीडितच्छन्दसः प्रयोगे प्रसिद्धिरस्य , तथा चोक्तं सुवृत्ततिलके- 

' शार्दूलक्रीडितैरेव प्रख्यातो राजशेखरः । 
शिखरीव परं वक्र : सोल्लेखेरुच्चशेखरः ॥ ' 

राजशेखरेण स्वस्य नाटककलायामक्षमत्वं स्वयं ज्ञायते स्म , अत एवासी स्वनाटकेषु भणितिगुणानेवोक्तवान्न पुनर्नाट्यगुणान् । तथा च बालरामायणम् - 

' ब्रूते यः कोऽपि दोषं महदिति 
सुमतिलिरामायणेऽस्मिन् 

प्रष्टव्योऽसौ पटीयानिह 
भूणितिगुणो विद्यते वा न वेति 
 ' 

राजशेखरकृतेषु रूपकेषु गतिशीलताया अभावेऽपि पात्राणां सजीवता न होयते । रसपरिपाकः हृदयभावाविष्कारपाटवं , प्रकृतिमनुष्ययोः स्वरसवाही परिचयश्चात्र नास्तीति अस्य कवित्वशक्तावक्षतायामपि रूपकाणि समधिक काव्यलक्षणयोगीनीव प्रतीयन्ते ।