मुरारिः नाटककार

मुरारिः नाटककार

 मुरारिः

' मुरारिपदचिन्ता चेत्तदा माघे रतिङ्कुरु । 
मुरारिपदचिन्ता चेत्तदा माघे रतिङ , कुरु ।। ' 
' मुरारिपदचिन्तायां भवभूतेस्तु का कथा । 
भवभूतिमनादृत्य मुरारिमुररीकुरु ॥ 

इत्यादिना प्रशंसितपाण्डित्यस्य मुरारेः कः काल इति विचारे प्रस्तुते ( क ) भवभूतेः पद्यद्वयस्योद्धरणात्तत्तोऽर्वाचीनो मुरारिः ( ख ) काश्मोरनुप स्थावन्तिवर्मणः ( ८५५-८८४ ) काले वर्तमानः तत्कृपोपजोवो च हरविजय का रत्नाकरः ' अङकोत्थनाटक इवोत्तमनायकस्य नाशं कविव्यंधित यस्य मुरारिरित्यम् इत्यादिनां मुरारि स्मृतवानिति ततोऽयं प्राचीनः । ११३५ खोष्टाब्द वर्तमानो श्रीकण्ठवरितरचयिता मङ्खः मुरारि राजशेखरात् प्राचीनं मन्यते । इदं सर्व विचार्य खोष्टनवमशतकपूर्वाद मुरारिरजायतेति प्रतीयते ।

मुरारिः नाटककार

मुरारिपाण्डित्यम् 

संस्कृतकविषु मुरारेमहती प्रतिष्ठा विद्यते । भाषाप्रौढिव्यांकरणपाटवं चास्य विपश्चितो रञ्जयति । स हि बालवाल्मीकिर्महाकविश्वास्यायते । तस्म प्रशंसा न केवलमितरेः कृताऽपि तु स स्वयमप्याह-

' देवीं वाचमुपासते हि बह्वः सारं तु सारस्वतं 
जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः । 
अधिक्षित एव वानरभटैः किन्त्वस्य गम्भीरता 
मापातालनिमग्नपीवरतनुर्जानाति मन्याचलः ।। 
अस्य रचनायामतिशयोक्तेः प्राचुर्य दृश्यते । असल्यामपि उपमाचमत्कृती सत्यामपि क्लिष्टतायां बन्धदात्न सङ्गीतकृतमाधुर्येण चास्य कवित्वं रमणीय शैलीसम्पन्नं मन्यते । 

मुरारे: अनर्घराघवम् 

मुरारेरेकमेव नाटकं यत् कथया भवभूतेमहावीरचरितमनुकरोति । यदि भवभूतेः कविता सरला मनोहरा च कथ्यते तदाऽस्य कविता प्रौढा साऽलङ्कारा झङ्कारशालिनी च कथ्यताम् । 
मुरारेः कवितायाः कठिनता तद्रसानुभवपरिपन्थिनीति सत्यं भवितुमर्हति , परन्तु तस्यां श्रूयमाणायां सत्यामेव कोऽपि हर्षमिश्रोऽवधानसम्मुखीभावः प्रादुर्भवति । दृश्यताम् 

‘ क्रियाणां रक्षायै दशरथमुपस्थाय विमुखे 
मुनौ विश्वामित्र भगवति गते सम्प्रति गृहान् । 
तपोलेशक्लेशानुपशमितविघ्नप्रतिभये , 
प्रवृत्ते वा यष्टुं रघुकुलकथैवास्तमयते ॥ ' 

कीदृशी प्रसन्नता , कीदृशं च वाक्यपाटवम् ! रामे वनवासप्रस्थानकाले गङ्गां तरति सति कविनोक्तम् -

तीत्वा भूतेशमौलिस्रजममरधुनीमात्मनाऽसौ तृतीय 
स्तस्मै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय । 
व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदन्चदक्ष 
कृच्छादवीयमानः क्षणमचलमथो दक्षिणेन प्रतस्थे । 

अस्य कवेर्गाढवन्धता पाश्चात्येभ्यो न रोचते , बिल्सनमहोदयोऽस्य कवितायाः सम्बन्धेऽभिहितवान् ' साम्प्रतिका हिन्दवो विचारप्रकर्षमनुभूतिमार्दवं कल्पनाकामनीयकञ्च विभावयितुं मनागिव क्षमाः , अत एव हिन्दुविद्वांसोन्याय्यं गौरवं मुरारये प्रदत्तवन्तः । ये पुनरिदमीयमनपराघवमधीयते ते मुरारेः प्रशंसामुचितामेव मन्यते । अनधराघवस्य प्रस्तावनातोऽस्य जननीजनकयो मनी ' वर्धमानतन्तुगती ' इति ज्ञायते ।