जयदेवः नाटककार

जयदेवः नाटककार

 जयदेवः
प्रसन्नराघवस्य प्रस्तावनात एतावदस्य विषये ज्ञायते , यदस्य जयदेवस्य पिता महादेवो माता च सुमित्राऽऽसीत् । कौण्डिन्यगोत्रश्चायम । वस्तुतस्तु शाण्डिल्यगोत्रोऽयम् , ' सरिसवेदिगौन - संज्ञकमैथिलवंशोद्भवश्च । अनेन न्याय चिन्तामणिग्रन्थस्य टीका लिखिता यत्र - ' येन चिन्तामणी टीका दश टीका - विभञ्जिनी ' इति ' अधीत्य जयदेवेन हरिमिधान पितृव्यतः ' इति चोल्लेखो विद्यते । 
जयदेवः नाटककार
अयमपि दार्शनिकत्वाभिमानी साहित्यरसिकश्चेति 

' तेषां कोमलकाव्यकौशलकलालीलावती भारती , 
तेषां कर्कशतकंवक्रवचनोद्गारेऽपि किं हीयते । ' 

इत्यायुल्लेखतः प्रतीयते । तदित्यमस्य मिथिलाभवत्वं दार्शनिककवित्वं च प्रतिपन्नम् । गीतगोबिन्दकर्तुजयदेवादयमन्य इति सर्वसम्मतम् । स हि भोजेदेवरामा देव्योः पुत्रः एकादशशतकोत्पन्नलक्ष्मणसेननृपतिसमकालिकः बङ्गावयव - ' केन्द्र बिल्व ' नामकस्थानवासी च प्रसिद्धः । प्रसन्नराघवगतः ' कदलीकदली ' इत श्लोकः साहित्यदर्पणकृतोद्धृतः इति साहित्यदर्पणकर्तुविश्वनाथात् प्राचीनत्वमस्य सिद्धयति , अतश्चास्य त्रयोदश शतकं समयः सिद्धो भवति । 

कविता - शैली 

एतद्विचित एक एव नाटकग्रन्थो लभ्यते ' प्रसन्नराघव ' नामा । अस्मिन् ग्रन्थे रामायणस्य कथोपनिबद्धा । प्रसन्नराघवं दृष्ट्वाऽनायासमेव बोढुं शक्यते , यदस्मिन् ग्रन्थे नाटकत्वापेक्षया काव्यत्वस्य मात्राधिका विद्यते । अस्मिन्नाटके द्वितीयेऽके विस्तृतरूपेण यो वाटिकावृत्तान्त उपन्यस्तः , स एव तुलसीदासादि नाऽनुसृतः । षष्ठेऽडू रामस्य विरहा साधु चित्रितः कविना । एवमेव प्रभात चन्द्रोदययोरपि वर्णने स्वीयं काव्यकौशलं प्रदर्शितम् । सत्यप्यन्यान्यवर्णनगत । माधुर्य , सत्यामपि तत्तत्कल्पनाघनायां कवितायां नाटकीयदृष्ट्याऽस्य ग्रन्थस्य न तावती प्रतिष्ठा , यतोऽत्र गत्यात्मकता नितान्तदुर्लभा । 

नाटकीयदृष्ट्याऽनुत्तमत्वेऽपि काव्यदृष्ट्यास्य नाटक नितान्तरमणीयं कथयितुं शक्यते । सरलतासहचरी च रमणीयताऽस्य काव्ये विशिष्टो गुणः । दशरथो जनकं स्तोति 

' अवनिमनिपालः सङ्कशः पालयन्ता 
मवनिपतियशस्तु त्वां विना नेतरस्य । 
जनक , कनकगौरी यत्प्रसूतां तनूजां 
जगति दुहितुमन्तं भूभवन्तं वितेने ॥
कीदृशी सरलता सरसता युक्तता चात्रोक्तो प्रकाशते । 
रामो हनूमन्मुखेन सीता सन्दिशति
 ' कस्याख्याय व्यतिकरमिमं मुक्तदुःखो भवेयं 
को जानीते निभृतमुभयोरावयो स्नेहसारम् । 
जानात्येक शशधरमुखि प्रेमतत्त्वं मनो में 
त्वामेवैतच्चिरमनुगतं तत्प्रिये किं करोमि ।। ' 

कवितायाः पक्वतायां तादृश्याः प्रौढेरभावेऽपि वर्णनायां प्राप्तप्रकर्षाऽस्य रचनेति सर्वसम्मतम् । नाटकीयताया अभावस्तु मुरारिवदेवास्य वर्णनरामणीय केणाच्छाद्यते ।