"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

श्रीकृष्णमिश्रः नाटककार

श्रीकृष्णमिश्रः नाटककार
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

श्रीकृष्णमिश्रः नाटककार

श्रीकृष्णमिश्रः

प्रबोधचन्द्रोदय - 

प्रस्तावनायां कीत्तिवर्मण उल्लेखो दृश्यते , कीर्तिवर्मणः समयश्च १०४ ९ तमखीष्टान्दतः ११०० तमस्त्रीष्टाब्दपर्यन्तमिति पुरातत्वविदो बदन्ति । अनेनैव कीत्तिवर्मणा १०६५ ख्रीष्टाब्दसमीपे कर्णवर्मा जितः । अस्य कर्णवर्मविजयस्योल्लेखोऽपि प्रबोधचन्द्रोदय - प्रस्तावनायां विद्यते । अतः प्रबोध चन्द्रोदय - प्रणेतुः श्रीकृष्णमित्रस्य जीवनकाल एकादशशतकस्योत्तरार्धभागोऽव धारयितुं शक्यते । अयं बङ्गदेशोद्भव इति वस्तुवृत्तविदः । 
श्रीकृष्णमिश्रः नाटककार

श्रीकृष्णस्य रचना 

श्रीकृष्णमिथस्यैकमेव प्रबोधचन्द्रोदयाभिधानं रूपकं प्राप्यते । इदं रूपक प्रतोकेषु प्रथमत्वेन सरसरचनाशालित्वेन च प्रसिद्धम् । अमूर्ती भावा धर्मादयो ऽत्र मूर्तप्राणिरूपतया कल्पिताः । इदमेव चास्य प्रतीकरूपकत्वम् । अस्यैव सर सस्य सरलस्य च ग्रन्थरत्नस्यानुकरणे तेस्तैः कविपण्डितैः चैतन्यचन्द्रोदयविद्या परिणयामृतोदयादीनि प्रतीकरूपकाणि विरचितानीति संस्कृते प्रतीकरूपकप्रण यनपथि प्रदर्शकोऽयं मन्यते । अत्र प्रबोधचन्द्रोदये स्वशिष्यान्यतमस्य कस्यचन मन्दमतेः शिक्षायै श्रीकृष्णमिश्रोऽमूर्तान् धर्मादिभावान मूर्त्तमानवभावेन परि कल्प्य सरसया शैल्या अद्वैतमतप्राधान्यं प्रदर्शितवान् । 

प्रबोधचन्द्रोदयकथा 

कामक्रोधलोभादिसहितो महामोहो नाम नृपः काश्यां राज्यमकरोत् । तस्य मत्यादिसमन्वितेन विवेकेन सह महान विरोध आसीत् । महामोहो विवेक स्वदेशाद् बहिष्कृतवान् । तस्मिन्नेव काले आकाशवाण्यभूद्यत् कालेनास्य विवे कस्योपनिषदा सह संसर्गे प्रबोधस्य जन्मनि जाते तेन महामोहस्योन्मूलनं शक्य कियं भविष्यति । तदनुसारेणैवावसाने सत्पक्षजयोऽसत्पक्षपराजयश्च भवतीति नाटकस्य सुखान्ततायां पर्यवसानं जायते ।

कविताशैली 

अस्व नाटकस्य कविता नितान्तरसपेशला सरलपदा च 

' अपि यदि विशिखाः शरासनं वा 
कुसुममयं ससुरासुर तथाऽपि । 
मम जगदखिलं वरोरु नाज्ञा 
मिदमतिलय धृति मुहूर्तमेति ॥ ' 

' क्षेत्रग्रामवनाद्विपत्तनपुरद्वीपक्षमामण्डल 
प्रत्याशाधनसूत्रबद्धमनसां लब्धाधिक ध्यायताम् । 
तृष्णे देवि यदि प्रसीदसि तनोव्यङ्गानि तुङ्गानि चेत् 
तद्भोः प्राणभृतां कुतः शमकथा ब्रह्माण्डलक्षैरपि । ' 

सर्वाण्येव पद्यान्युपदेशप्रदान्येव , इदमेकं विशिष्य ध्येयम् 

' पान्थानामिव वत्मनि क्षितिरुहां नद्यामिव भ्रश्यतां 
मेघानामिव पुष्करे जलनिधौ सांयात्रिकाणामिव
संयोगः पितृमातृबन्धुतनयभ्रातृप्रियाणां सदा 
सिद्धो दूरवियोग एव विदुषां शोकोदयः कस्तदा ?

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.