चम्पूकाव्यम्

चम्पूकाव्यम् 

चम्पूसमदायः 

सामान्यतः काव्यस्य भेदद्वयं प्रथते - दृश्यं श्रव्यञ्चेति । धव्यकाव्यमपि द्विप्रकारम् -गद्यकाव्यं पद्य काव्यञ्चेति । स्वीययाऽर्थप्रधानतया गद्यकाव्यं गौरवशालि , यतो हि पद्य काव्यं कियतांशेन रागद्वारापि श्रोतृजनमनांख्याकर्ष यति , गद्यकाव्यं तु स्वीयेनार्थगौरवेणैव श्रोतृजनहृदयान्यावर्जयेत् । गद्यकाव्य गतमर्थगौरवं पद्य काव्यगतमर्थगौरवपुरस्कृतं रागमयत्वं चेत्युभयं मिलितं सदधिकं चमत्कारं जयनेदिति भावनैव चम्पूकाव्यस्योत्पत्तौ कारणत्वेन सम्भा व्यते चम्पूरामायणप्रणेता भोजराजोपीममेवार्थमाह 
' गद्यानुबन्धरसमिश्रितपद्यसूक्तिहंद्या 
हि वाद्यकलया कलितेव गोतिः । 
तस्माद्द्यातु कविमागंजुषां सुखाय 
चम्पूप्रबन्धरचनां रसना मदीया ॥ ' 
गद्य सम्बन्धेन पद्यानि तथैवानन्ददायकानि जायन्ते यथा वाद्ययन्त्रैरुपेतानि गायनानि । यथा केवलं गायनं न तथा चमत्कारकारि यथा वायापस्कृतं , तथेव केवलं गयं न तथा चमत्कारकारि तथा पद्य मिश्रमिति भावयित्वेव कवयः चम्पू काव्यान्यसृजन । 
चम्पूकाव्यम्

चम्पूलक्षणम् 

सर्वप्रथममाचार्यो दण्डी गद्य पद्यमयी वाणी चम्पूरित्यभिधीयते ' इति चम्पू लक्षणमुक्तवान् । तदनन्तरभाविनोऽप्याचार्यास्तदेवान्ववदन् । ' गद्यपद्यमयं काव्यं चम्पूः ' इति तल्लक्षणे वाणीस्थाने काव्यपदनिवेशोऽपि न कापि नवीनता 
' क्वचिदत्र भवेदार्या क्वचिद् वक्त्रापवक्त्रके । 
आदी पद्येनमस्कारः खलादेवृत्तकीर्तनम् ॥ 
इति लक्षणानुरोधेन कथाऽऽख्यायिकयोरपि गद्यपद्य मिश्रितत्वेन चम्पुलक्षण प्रसक्तिस्तु न शङ्कनीया , तयोगद्यस्यैव प्राधान्यात् , लक्षणानुरोधेनैव कतिपय पद्यानां तयोः प्रवेशाच्च । 
चम्पूकाव्येषु तु गद्य पद्य योर्मात्रा प्रायेण समा भवति किमप्येकमङ्गमति पृथुलं न जायतेत्यस्मिन्नशे कवयः सतास्तिष्ठन्ति । 

चम्पूकाव्यविकासः 

चम्पूकाव्यं गद्यकाव्यस्यैव परिमार्जितं रूपमिति कयनेन सत्यमपलप्यते । यद्यपि यजुर्वेदे गद्यपद्योमिश्रणमुपलभ्यते तथापि नासो चम्पूप्रकारः । पाली गद्यपद्यनिबद्धषु जातकग्रन्थेष्वपि न चम्पूस्वरूपं दृश्यते । अतः आर्यसूरिकृता जातकमाला हरिषेणस्य प्रयागप्रशस्तिश्च गद्य पद्य मिर्थ प्रापभूत शरीर प्रयागप्रशस्तौ गद्य पद्यमिश्रणमस्य प्राथमिकप्रयोगरूपं मन्तुं शक्यते । यद्यपि भट्टेन विरचिताः । त्रिष्वप्येषु शिलालेखरूपः प्रबन्धः ' एपिग्राफिका इण्डिया ' इति नामके प्रकाशने नवमभागे ३२ तमे पृष्ठे मुद्रितः । अस्य शिलालेखस्यैक धारयतस्तथापि चम्यूकाव्येन वास्तविक रूप दशमशताब्द्यामेव प्रकटितं यदा संस्कृतसाहित्येतिहासः नलचम्पूर्जनिमलभत । 

त्रिविक्रमभट्टः 

त्रिविक्रमभट्टः ' नलचम्पूः ' इति संज्ञया प्रसिद्ध चम्पूग्रन्थं प्रणीय गये पचे च समानभावेन काव्यगुणानुपस्थापयितुमयतत । त्रिविक्रमभट्टः स्वोये ग्रन्थे -
' शश्वद् बाणद्वितीयेन नमदाकारधारिणा । 
धनुषेव गुणाढ्य न निश्शेषो रञ्जितो जनः ॥ ' 
इति वाणभट्ट स्मरति 
त्रिविक्रमभट्टस्य नलचम्पूगतं पद्यम -
' पर्वतभेदि पवित्र जेत्रं नरकस्य बहुमतङ्गहनम् । 
हरिमिव हरिमिव हरिमिव सुरसरिदम्भः पतन्नमत । '
 इति भोजराजेन सरस्वतीकण्ठाभरणे समुद्धृतम् । अयं त्रिविक्रमभट्टर राष्ट्रकूटवंश्यकृष्णद्वितीयपुत्रस्य इन्द्रराजस्य नवसारीशिलालेखं लेखितवान् , तत्र - 
' श्रीत्रिविक्रमभट्टेन नेमादित्यस्य सूनुना । 
कृता शस्ता प्रशस्तेयमिन्द्रराजाङ्घ्रिसेविना ।। ' 
इति पर्व विद्यते । 
एतेन सर्वेण त्रिविक्रमभट्टख्य बाणभोजमध्यत्तित्वमिन्द्रराजाख्यनृपतिसम कालिकत्वं च प्रतिपन्नं भवति ।

 पूर्वोल्लिखितस्य नवसारीशिलालेखस्य समयः ९ १५ खोष्टीयो वर्तते , अत त्रिविक्रमभट्टः स्त्रीष्टीयदशमशतकस्य पूर्वाद्ध बभूवेति निश्चयेन वक्तुं शक्यते । स चायं दशमशतकपूर्वभागोद्भवत्रिविक्रमः कविवरराजशेखरस्य समसामयिक स्वादिति सम्भाव्यते । 

त्रिविक्रमभट्टस्य कृतयः

नलचम्पूः मदालसाचम्पू : नवसारीशिलालेखश्चेति त्रयः प्रबन्धाषिविक्रम 

' जति विबुधबन्धुविन्ध्यविस्तारवक्षः 
स्थलविमलविलोलत्कोस्तुभः कंसकेतुः ।
मुखसरसिजरङ्गे यस्य नृत्यन्ति लक्ष्म्याः 
स्मरभरपरिताम्यत्तारकास्ते कटाक्षाः ॥ ' 
इति । प्रशस्तेरस्याः कविताशैली नल चम्पूगतां काव्यशैली तुलयतीति सिद्धयत्य नयोः प्रबन्धयोरेककत्तू कत्वम् । नलचम्पूः दमयन्तीचम्पुरिति नामान्तरेणापि प्रसिद्धयति । अत्र सप्तो च्वासा विद्यन्ते । अस्य अन्यस्य सर्वत्राप्युच्छ्वासान्ते हरचरणसरोजपददर्शनाद हरचरणसरोजाङ्कत्वं कथ्यते । 
माघस्य ध्यङ्घत्वमिव किरातार्जुनीयस्य लक्षम्यत्वमिव वा अस्यापि ग्रन्थस्य 

अत्र अन्थे कविः सर्वमपि श्लेषप्रकार सरलतापुरस्कृतं तथा प्रयुक्तवान् येन पाठकानां हृदयानि माद्यन्ति । सुबन्धोः कवितायां श्लेषमयता - साधनायं यः अयत्नभरः कृतो दृश्यते , तादृशः प्रयाससाध्यः श्लेषोऽत्र दुरापः । अत्रत्यः सर्वो ऽपि श्लेषः सुगमः सन्नपि हृद्यतमः 
' सदूषणापि निर्दोषा सखरापि सुकोमला । 
नमस्तस्मै कृता येन रम्या रामायणो कथा । ' 
आर्यावर्त्तवर्णने विपल्लवशब्दस्य कीदृशः स्पष्टोऽर्थः श्लेषण गुम्फितः 
' भवन्ति फाल्गुने मासि वृक्षशाखा विपल्लवाः । 
जायन्ते न तु लोकस्य कदापि च विपल्लवाः ।। ' 
न केवलं श्लेषचमत्कार एव , अपि तु परिसङ्ख्याया विरोधाभासस्योत्प्रेक्षाया उपमाया वा साधूपन्यासे कविरयं सिद्धहस्तः । दृश्यताम् -
' उदयगिरिगतायां प्राक्प्रभापाण्डुताया 
मनुसरति निशीथे शृङ्गमस्ताचलस्य । 
जयति किमपि तेजः साम्प्रतं व्योममध्ये  
सलिलमिव विभिन्नं जाह्नवं यामुनश्च ।। ' 

' मदालसाचम्पू ' नामकस्तु ग्रन्यो दुरापतया परिचायितुं न पार्यते । 

सोमप्रभसूरिः 

दिगम्बरजैनः सोमप्रभसूरी राष्ट्रकूटनरेशस्य कृष्णस्य राजत्वकाले सामन्त शारिकेसरिचालुक्यतृतीयस्य सभायां ९५९ तमेशवीयवर्षे ' यशस्तिलकच नामक ग्रन्थं लिखितवान् , यो ग्रन्थो जनमतसिद्धान्तानामवगतये साचूपयुज्यते । 

 यशस्तिलके अष्ट उच्छ्वासाः सन्ति । अत्र अवन्तिराजो यशोधरः , तत्पल्यः पता , राज्ञो मृत्युः , नानायोनिषु भ्रमणम् , अन्ततस्तस्य जैनधर्मप्रवेश वादयोा निपूणं वणिताः । 

गुणभद्रकृतमुत्तरपुराणमाथित्य चम्पूग्रन्थोऽयं प्रणीतः । इमामेव यशोधर नृपतिकथामाश्रित्य पुष्पदन्तेन ' जसहरचरिउ ' नामकमपभ्रंशकाव्यं वादिराज सूरिणा च यशोधरचरितं नाम संस्कृतकाव्यं व्यरचि । 
यद्यत्य चम्पूग्रन्थस्य शैली अलङ्कारपूर्णा प्राञ्जला च भाषा , तथापि नलचरितचम्पूसमानं माधुर्याद्यत्र नोपलभ्यते । बाणमनुसरन्नयं कविः स्वीयेन ग्रन्थे जन्मान्तरवृत्तमुपन्यस्तवान् । 

हरिचन्द्रः 

धर्मशर्माभ्युदयनामकमहाकाव्यप्रणेता हरिचन्द्रो नाम दिगम्बरजेनः ' जीवन्धरचम्पू ' नामक ग्रन्थं प्रणीतवान् । अत्र उत्तरपुराणगता जीवन्धरस्य जीवनकथा एकादशभिलम्भकैः लिखिता । अस्य हरिचन्द्रस्य परिचयादिकं धर्म शर्माभ्युदयनामककाव्यस्य प्रसङ्गे निरूपितम् । 

भोजराजः 

भोजराजेन धाराधीशेन कृता रामायणचम्पू : किष्किन्धाकाण्डावसाना एव , तस्या युद्धकाण्डं लक्ष्मणभट्टेन कृतम् । अयं भोजराज एकादशशतकोद्भवः प्रसिद्धः साहित्यसेवी । 

चम्पूरामायणस्य साहित्यिक गौरवमतिमहत्त्वपूर्णम् । भोजस्य शब्दगुम्फः स्वभावसरलः अर्थरा शिश्च चमत्कारातिशयशाली । अस्य वाल्मीकिकाव्यप्रशं सायां लिखितं पद्यं नितान्तहृयम् 
' वाल्मीकिगीतरघुपुङ्गवकीतिलेशै 
स्तृप्ति करोमि कथमप्यधुना बुधानाम् । 
गङ्गाजले वि भगीरथ यललब्धैः 
कि तर्पणं न विदधाति नरः पितृणाम् ॥ '
सीताया अशोकवाटिकायां तिष्ठन्त्या दशां वर्णयति कविः-
 ' उपघ्नवृक्षस्य परोक्षमावादाथित्य भूमि सुचिरं लुठन्त्याः । 
नक्तवरस्त्रीमुखकशितायाः सीतालतायास्त्रिजटा जटाऽभूत् ॥ ' 
तदिदमतिचमत्कारि चम्पूकाव्यम् ।