शूद्रक नाटककार
संस्कृतसाहित्ये शूद्रकस्य महती प्रसिद्धिः । वेतालपञ्चविंशतिकायां दश कुमारचरिते बाणस्य कादम्बयाँ राजतरङ्गिप्पां कथासरित्सागरे चास्य नामानुश्रूयते ।
अस्य कालनिर्णये बहवो मतभेदाः
( १ ) स्कन्दपुराणमतेन विक्रमादित्यात् पूर्ववर्ती नृपोऽयम् ।
( २ ) अनेके विद्वांसो राज्ञा शिमुकेनान्ध्रभृत्यकुलोत्पन्नेन सहास्यामेदं कल्पयन्तोऽस्य समयं विक्रमप्रथमशतकं कल्पयन्ति ।
( ३ ) वामनः स्वग्रन्थे शूद्रकं स्मरति । वामनपूर्ववर्ती दण्डी स्वीये काव्या दर्श ' लिम्पतीव तमोऽङ्गानोति शूद्रकपद्यमुद्धरति । एतेन सप्तमशतकपूर्ववत्ति स्वमायाति ।
( ४ ) मृच्छकटिके मनुस्मृतेर्दण्डविधानमनुसृतं दृश्यते , मनुस्मृतिश्च द्वितीय शतकस्य कृतिरिति शूद्रकस्यातत्पूर्ववत्तित्वमास्थातव्यम् ।
( ५ ) मृच्छकटिकस्य नवमेऽके बृहस्पतिमङ्गलविरोधितया स्मयंते , वराह मिहिरश्च तयोमैत्रीमाह । एतेनास्य ग्रन्थस्य वराहमिहिरकालपूर्वभवत्वे सिद्धे वराहमिहिरस्य षप्तशतकोत्पन्नतायां प्रतीतायां शूद्रकस्य तत्पूर्वकालिकत्वं मन्तव्यम्।
चन्द्रबली पाण्डेयोऽमून्येवैतिहासिकतत्त्वान्याश्रित्य शूद्रक वसिष्ठीपुत्रं श्रीपुलमाविनाऽभिन्न प्रतीत्व १३०-१५५ स्रोष्टाब्दकालिकं प्रमापयति ।
मृच्छकटिकस्य कथाभागः
अत्र रूपके चारुदत्तवसन्तसेनयोः प्रणयकथायाः सरसं चित्रण कृतं , परं तेनैव सह तात्कालिकसमाजस्य चित्रमप्यङ्कितम् । एतत्प्रकरणगतकथा भागद्वय विभवता । प्रथमो भागश्चारुदत्तवसन्तसेनयोः प्रेमकथालङ्गितां निनोषति , द्वितोयश्च भाग आर्यकस्य राज्यप्राप्ति प्रगुणयति । प्रथमोऽयो भासकृतस्य दरिद्धचारुदत्तनामकस्य रूपकस्य शब्दसोऽर्थशश्चानुकरणं करोति । द्वितीयों शाश्व कविप्रतिभासृष्टः । द्वयोरंशयोर्योजने कवेश्चातुर्य स्फुटम् । दशाङ्क : निबद्ध ऽत्र रूपके कविना क्वचन गुणवति वदान्यतया दरिद्रं च विप्रे चारुदत्ते वैश्यकुलोत्पन्नाया वसन्तसेनाया वेश्याया निरुपधिः प्रेमा , शकारस्य तत्रानु रागोदयस्तस्यामनुरागमनवदधत्या द्वेषस्तन्मूला सवधप्रवृत्तिः , ततश्च न्यायालये चारुदत्तस्य प्राणदण्डः , भाग्यवशात्तदुज्जीवनम् , राज्यपरिवर्तनेनार्यकस्य राज्य प्राप्तिश्चारुदत्तवसन्त-सेनयोविवाहश्चेत्यादयोऽर्था निपुणं वर्णिताः ।
मृच्छकटिकस्य चरित्राणि
वसन्तसेना उज्जयिन्या वेश्या यात्र प्रधाननायिका । वेश्यापि सा प्रेम कत्तुं जानाति , मात्राऽऽगृहीताऽपि सा शकारे नानुरागं भजते । शकारे तद्वध प्रवृत्तेऽपि सा स्वगुणैरेव जीवति । तस्यां न केवलं प्रेमप्रकर्षः , पर स्त्रियाम पेक्षिता दयादाक्षिण्यादयोऽपि प्रचुरमात्रायामुपलभ्यन्ते ।
धूता पतिपरायणा सा हि स्वपतिप्रीतये कष्टसड्नोद्यता । सा हि स्वपति कलङ्कप्रक्षालनायु स्वीयान्यमूल्यान्याभरणान्यपि वसन्तसेनायास्तुच्छानामा भरणानों परिवर्ते दातुमुद्यता ।
शकारो नितान्तगर्वी चारुदत्तस्थाकारणशत्रुश्च । स हि वसन्तसेनायाः कण्ठ मर्दयति तद्दोषं च चारुदत्तस्य शिरसि न्यस्यति , तथापि चारुदत्तस्तस्मै क्षमां ददाति ।
अन्येषामपि पात्राणां साधु चित्रणमत्र कृतमिति रूपकमिदं सजीवमिव सम्पन्नम् ।
अत्रत्यानि पात्राणि न कल्पितस्वरूपाण्यपि तु सर्वत्र सुलभानीति विशेषः ।
तात्कालिकी समाजवशा
शूद्रकस्यैकैवेयं मृच्छकटिकं नाम कृतिस्तात्कालिकसमाजदशायाः प्रस्फुटितं चित्रं प्रकटीकरोति । तस्मिन्समये उज्जयिनी भारतस्य समृद्धा नगरी , फलत स्तत्र चौर्यातयोः प्ररूठः प्रचारोऽवर्तत । वेश्यालयानां प्राचुर्य विलासितायाः प्रमाणम् । मनुस्मृतियायालयेष्वाद्रिययाणाऽऽसीत् । ब्राह्मणा अपि व्यापारा जितविभवाः श्रेष्ठिनः कथ्यन्ते स्म । राज्ञां प्रभुत्वमधिकं परं ते मन्त्रिणा सहयोगमपेक्ष्यैव कार्य चालयन्ति स्म । चैत्यानि विहाराश्च भूयसा निरमोयन्त यत्र रोगिणां शुश्रूषाऽपि व्यधीयत । क्रोतदासप्रथाऽवतंत । राजशक्तेल तायाः प्रधानं प्रमाणं कियतैव कालेन राज्यपरिवर्तनं दृश्यते । बौद्धधर्मो यद्यपि सम्पन्नदशस्तथापि तत्र दोषाः समाविष्टा आसन् ।
काव्य - शैली शूद्रकस्य
काव्यशैली सरलतमा , दीर्घः समासो , गाढो बन्धश्च नानेनादृतः । नवानां भावानामुद्भावने जागरूकमतेरस्य काव्ये शृङ्गारस्य पुष्टं रूपं दृश्यम् । वर्षाया वर्णनं नितान्तहृद्यम् । शूद्रकेण राजन्यायभवनस्य यद् वर्णनं कृतं तदति हृद्यम् । दृश्यताम्
' चिन्तासक्तनिमग्नमन्त्रिसलिल दूतोमिशङ्काकुलं
पर्यन्तस्थितचारनक्रमकर नागाश्वहिस्राश्रयम् ।
नानावाशककङ्कपक्षिरुचिरं कायस्थसस्पिदं
नीतिक्षुण्णतटं च राजकरणं हिंस्रः समुद्रायते ।। '
हासप्रयोगेऽपि कवेरस्य साफल्यम् । यज्ञोपवीतस्योपयोगे विवार्यमाणे ' यज्ञोपवीतं हि नाम ब्राह्मणस्य महदुपकरणद्रव्यं विशेषतोऽस्मद्वि घस्य , कुतः -
‘ एतेन मापयति भित्तिषु कर्ममार्गा
नेतेन मोचयति भूषणसम्प्रयोगान् ।
उद्घाटको भवति यन्त्रदृढे
कपाटे कोटभुजगैः परिवेष्टनञ्च ॥
सर्वांशतो विचारेण नाटकमिदमतिसफलम् । आधुनिकयुगेऽप्यस्य चमत्का रित्वमा एणमत एव पाश्चात्त्या आलोचका नाटकमिदं प्रशंसन्ति ।