भट्टनारायणः नाटककार
भट्टनारायणः स्वीयेन एकमात्रेण वेणीसंहारनाम्ना नाटकेन भट्टनारायणः संस्कृत साहित्येऽतितरां प्रख्यातः । किंवदन्ती प्रसिद्धा यद् गौडदेशशासकेन आदिशूरेण ब्राह्मणधर्ममुन्नेतुं कान्यकुब्जदेशादानीय निवासितेषु ब्राह्मणेष्वयमध्येक इति । आदिशूरः पालवंशोत्थानतः पूर्ववर्ती राजेति तस्य समयः सप्तमशताब्या उत्तरार्धमास्थातुं युक्तम् । दशमशतकोत्पन्नो धनिको वेणीसंहारमुद्धरति , आनन्दवर्धनोऽपि ध्वन्यालोके ' कर्ता द्यूतच्छलानामित्यादि पद्ममुद्धृतवान् , वामनोऽपि महतादरेण वेणीसंहारगतं पद्यम् - ' पतितं वेत्स्यसि क्षितौ ' इति समुद्धृत्य मीमांसा चक्रे । एतत्सर्वमालोच्यन्तो विद्वांसो भट्टनारायणस्य समय मष्टेशतेकमध्यभाग निर्णयन्ति ।
धर्मकीतिकृताया रूपावतारस्य नोवीनामिकायाष्टीकाया हस्तलिखितप्रते रेकस्या अवगम्यते यद् बाणप्रेरणया भट्टनारायणः कस्यचिद् बौद्धभिक्षोः शिष्यो जातः । तदनन्तर भट्टनारायणो धर्मकीर्तिश्च मिलित्वा रूपावतारमलिखताम् । एतेनापि भट्टनारायणस्य बाणभट्टसमकालिकत्वं प्रतीयते ।
अस्य कान्यकुब्जाभिजनत्वं प्रति तु न कस्यापि विमतिः ।
वेणीसंहारम्
नाटकमिद महाभारतीय कथावस्त्वाश्रित्य विरचितम् । दुःशासनापमान सन्तप्ता द्रौपदो घोरा प्रतिज्ञामकृत , यद् ' अहं दु : शासने निहत एव केश्यसंय मन करिष्यामि । अस्या एव घटनायाः पूतॊ महाभारतस्य या कथा सान वणिता ।
अत्र नाटके षट् अङ्काः सन्ति । प्रथमोऽङ्कः कृष्णचन्द्रस्य दौत्यात् प्रारभ्यते यत्र विफले भगवति कृष्णे कुपिते च युधिष्ठिरे समरदुन्दुभिरताव्यत । द्वितोये इंदुर्योधनभानुमत्योः संवादः । तृतीये प्रवेशकेन धृष्टद्युम्नकृतद्रोणवधावगमः कुपितस्याश्वत्थाम्नः सकलराजन्यकनिन्दा , कर्णाश्वत्थाम्नोक्किलहश्च प्रधान वस्तु । चतुर्थेङ के सुन्दरकद्वारा युद्धस्थिती दुःशासनभीषणवधपर्यन्तायां निवेदि . ताया दुर्योधनस्य खेदः । पञ्चमेके धृतराष्ट्रगान्धार्यो दुःखितत्वेन दुर्योधन वञ्चनया यावद्युधिष्ठरो वह्निप्रवेशमभिलष्यति तावदेव सत्ये विदिते सर्व पाण्डवैः सह सन्धि विधातुमागृह्णीतः , परं नासो मन्यते । षष्ठेले चार्वाकमुनि आनन्दन्ति , द्रौपदी च दुःशासनासृजा केशान् संयमयति ।
संस्कृतनाटयशास्त्रानुसारेण वेणीसंहारं शास्त्रीयदृष्टया दर्शभूतम्
यद्यप्यत्र नाटके नाटकीयवस्तूनां विन्यासस्तथा सुश्लिष्टतया घटितो यथा नाटकीयवस्तूदाहरणायैव निर्मितमिदं नाटकमिति सन्देहः सम्भवति , परन्तु नेयं वस्तुस्थितिः , सिद्धनाटककारप्रतिभोद्भूते रूपके नाटकीयवस्तूनि स्वतो यथास्थानं निविशन्ते यान्युदाहरति नाट्यरीतिकारः ।
वेणीसंहारस्य पात्रसमीक्षा
वेणीसंहारस्य पात्राणीतिहासप्रसिद्धचरितानि । तेषां केवलं रञ्जनमत्र कृतम् । भीमसेनस्य चरितं व्यापक प्रभावपूर्णश्च । दृढप्रतिज्ञो भीमो निजां प्रतिज्ञां पूरयति , द्रौपद्यपमानदीपस्तदीयहृदये यावत्प्रतिज्ञापूत्तिस्तावदतन्द्रभावेन प्रज्वलति । भीमः स्वबलावलिप्त इति तत्कृतविकत्यनाभिः प्रतीयते । दुर्योधनोऽत्रात्मविश्वासिभावेन चित्रितः । युद्धे प्रवृत्ते तस्य भानुमत्या सह शृङ्गारप्रथनमोषदुद्वेजकम् ।
जाते कुलक्षये केवलमात्मनो रक्षार्थमसी पाण्डवैः सह सन्धि नानुमन्यत इति तस्य वीरत्वप्रशस्तिः । अश्वत्थामाऽत्र पुत्रकृत्ये सावधानः । पितरि निहते कुपितोऽकेशवं जगद्विधा तुमिच्छति कर्णस्यात्मश्लाघयाऽसौ नितान्तं क्षुभ्यति । अप्राप्तविकासं तस्य शौर्य तस्मिन्नेव लीयते ।
वेणीसंहारस्य शैली
यद्यपि भट्टनारायणेनात्र वेणीसंहारे पात्राणां चित्रणं साघु कृतम् , पात्राणां व्यक्तित्वं च विशदीकृतम् , परन्तु कथायां कापि मन्दतेव प्रतिभासमाना नाटको पयुक्तं क्रियावेगं विषटयति । वीररसस्यौजसश्चात्र प्रवाहः । भवभूतिरिव भट्ट नारायणोऽपि संस्कृते प्राकृतेऽपि च दीर्घसमासं वाक्यजातं प्रायुक्त । भट्टनारा पणो निशावर्णनं साधु कृतवानिति निशानारायण आख्यायते । काव्यदृष्ट्या भट्टनारायणस्य कृतिरियं वीररसं समेधयितुं प्रयतते । भट्टनारायणो वैष्णवः कविरिति स नान्द्यामेव राधाकृष्णयोः केलि वर्णयति । स हि कृष्णचन्द्रस्य भगवद्भावं महत्त्वं चैभिः शब्दः प्रकाशयति -
आत्मारामा विहितमतयो निर्विकल्पे समाधी
सत्त्वोन्द्र काद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः ।
यं वीक्षन्ते कमपि तमसा ज्योतिषां वा परस्तात्
तं मोहान्धः कथमयममं वेत्तु देवं पुराणम् ।। '
वष्य वीरभावे कीदृशी शब्दावली प्रयुज्यते इत्यस्मिन्नयं सिद्धहस्तः । ' चञ्चभुजभ्रमितचण्डगदाभिघातनिष्पीडितोफ्युगलस्य सुयोधनस्य । स्त्यानावनधनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि भीमः ॥ ' नाटकदृष्टया नितान्तनिर्दोष काव्यदृष्ट्याऽपि परमरमणीयमिदं नाटकम् , अत एव चेकेनैवानेन अन्येन भट्टनारायणोऽमरो जातः