हर्षनृपतिः नाटककार
' समयो जोवनवृत्तं च '
महाराजहर्षवर्धनः प्रभाकरवर्द्धनाद् यशोमत्यामजनि । अस्य भ्राता राज्य वर्धनः कनिष्ठा भगिनि च राज्यश्रीः आस्ताम् । पञ्चनदप्रदेशे बहूपद्रवतो हूणान् पराजेतुं प्रषिते भ्रातरि तमनुगच्छन्नयं मध्येमागं पितुरस्वास्थ्यं श्रुत्वा राजधानी परावृत्तः सन् पितुर्मरणे जाते तदीर्ध्वदेहिकं कृत्वा यावद् भातुरागमनं राज्यं शशास , आगते च तस्मिस्तद्राज्य भरतो रामायेव तस्मै प्रतिपादयामास । दुर्दैववशाद्राज्यवर्धनः शशाङ्कनामकेन वङ्गीयनृपतिना छलेन निहतः । तदनन्तरं हर्षवर्धनो राजा बभूव । अस्य राजधानी स्थाण्वीश्वरनामक स्थानमासीत् । अस्य राज्यकालः ६०६-६४७ खोष्टाब्दमासीदिति प्रतीतम् ।
अस्यैव राजत्वकाले प्रसिद्धचोनयात्री ह्वेनसांगो ' नाम भारतमाजगाम , योऽनेन सत्कृतः । तस्यैव संसर्गेण हर्षो बौद्धधर्मस्यादरकरः संवृत्तः । सर्वमपीदं वृत्तं बाणकृतहर्षचरित - वनसांगयात्रा विवरणाभ्यां ज्ञायते ।
हर्षवर्द्धनस्य रूपकत्रयं प्रथते -
१ , रत्नावली ,
२. प्रियदर्शिका ,
३ , नागा नन्दञ्च । आदिमे द्वे नाटिके , चरमञ्च नाटकलक्षणयोगि ।
केचन ग्रन्थानामेषां कर्तारं धावकं नाम कवि मन्यन्ते । तेषामयमाशयः धावको नाम कविरथंक्रीतः सन् हर्षनाम्ना रूपकात्रय निरमात् , वस्तुतो हों नासीत् कविः । तेषामस्यां धारणायां मम्मटभट्टस्य ' श्रीहदिविकादीनामिव धनम् ' एतादृशः काव्यप्रकाशगतो लेख एवं मूलम् । क्वचित्पुस्तके धावकस्य स्थाने बाणस्योल्लेखः , तत्पाठानुसारिभिर्बाणस्यैव तद् पकत्रितयकत्तुं त्वं मन्यते । परं सर्वमपीदं भ्रान्तिमूलकम् , बाणभट्टेन ‘ राज्ञां सम्भाषणेषु परित्यक्तमपि मधु वर्षन्तम् , काव्यकबास्वपीतामृतमुवनन्तम् , अस्य कवित्वस्य वाचो न पर्याप्तो विषयः ' इत्यं प्रशस्यमानबेदुष्यकवित्वस्य तस्य राज्ञः स्वयमेव तद्ग्रन्थप्रणयन शक्तत्वात् । घावकाय बाणाय वाऽसौ बहुधनं दत्तवानिति कथनेन तदीयं विद्वत्प्रियत्वमात्र सिद्धथति न परकीयकृतिकेतृत्वम् ।
यच्च केचिद्राजकार्यासक्तस्य तस्य ग्रन्थप्रणयनक्षमसमयालाभ हेतुमुपस्थाप यन्तस्तद्रचितग्रन्थानपलपन्ति , ते तु दयनीयाः । यदि वर्तमानयुगस्य प्रधान मन्त्रिणो अन्यान् लिखितुं समयं लभन्ते , तदा तस्य युगस्य राजा समयं न लभेतेति कथनस्यामूलकत्वात् । तस्मात् अन्यास्तत्कृता एव । किन्च यदि ते ग्रन्था धावकरचिता अभविष्यस्तदा तदतिरिक्ता काचन बावककृतिरवश्य प्रथिताऽभविष्यत् । बाणेन यदि ते ग्रन्था रचिता अभविष्यस्तदा बाणस्य शैली तेषु अन्येषु प्राप्स्यत । अतः सिद्धमिदं यत्ते त्रयोऽपि ग्रन्था हर्षनृपतिप्रणीता एव ।
इतिहासे बहवो हर्षनामानो नृपतयः श्रुतास्तत्कतमोऽयं रूपकत्रितयप्रणेता हर्ष इति सम्भवति प्रश्नः । तत्र १११३-११२५ ख्रीष्टाब्दवर्ती कदमीरराजः हर्षोऽमीषां रूपकाणां प्रणेतेति कवनं न सम्यक् , यतः अष्टमशतकान्तभागे वर्तमानेन नृपतिययापोडमन्त्रिणा दामोदरेण स्वीये कुट्टिनीमते रत्नावलीश्लोक उद्धृतोऽतो रत्नावलीकर्तुरष्टमशतकपूर्ववत्तित्वं निश्चितम् । इत्सिङ्गलेख साक्ष्येण च शीलादित्यापरनामकस्य हर्षस्यैव तत्कत्तुं त्वं सिद्ध्यतीति वृथा कल्प नान्तरम् ।
त्रयाणामपि रूपकाणामेककत्तूंकत्वम्
त्रिध्वपि रूपकेषु प्रस्तावनायां हर्षस्य नाम स्मयंते , एतेनेषामेक - कर्तृकत्वं सिद्धम् । पद्यमेक रत्नावलोप्रियदर्शिकयोः समानम् , पद्यद्वयं च प्रियदर्शिका नागानन्दयोः समानमिति समाना शैली , कथावस्तुसादृश्यं चेति सर्व मिलित्वा प्रयाणामपि सपकाणामेककत्तू कत्वं व्यवस्थापयति ।
रत्नावल्याः कथावस्तु
रत्नावल्याः कथावस्तु उदयनसागरिकयोः प्रणयमाधारीकरोति पोतभङ्गेन दुरवस्थतां गमिता रत्नावलीनाम्ना स्वमप्रख्याप्य सागरिकानाम्ना उदयनराज भवने प्रविश्य तन्महिष्या वासवदत्ताया दासी बभूव । उदयनसागरिकयोनुरागे विदिते पतिसुखकामनया स्वसुखं विहाय वासवदत्ता तयोविवाहमनुमेने ।
अस्याः कमाया आधार इतिहासो जनश्रुतिति न ज्ञायते । इयं कथा कालिदासकृतस्य मालविकाग्निमित्रस्य कथामनुहरति ।
प्रियदशिकायामुदयनारण्यिकयोः प्रणयकथा वणिता विद्यते । अङ्गराजस्य दृढवर्मणः सुता प्रियदशिका उदयनस्य वाग्दत्ता वधूरासीत् । तयोविवाहात प्रागेव दृढवर्मा कलिङ्गराजेन वन्दीकृत इति प्रियदर्शिका आरप्यिकेति कल्पित नाम्नोदयनराजभवन समागत्य नानाघटनापरिवर्तनान्तरं जाते परिचये राज्ञा परिणीता । कथानकमिदं रत्नावलीकथानकच्छायानुहायेव ।
नागानन्दे जीमूतवाहनस्य यशो गौतम् । पञ्चाङ्कोपनिबद्धेत्र नाटके प्रथमेऽङ्के , जीमूलकेतावाश्रमं गते जीमूतवाहनोऽपि पितृप्रदत्तं राज्यं विहाय तत्रैव तत्सेवायां गच्छति , तत्रैव गौरोमन्दिरे वीणावादनपरायां मलयवत्या मनुरज्यते च । द्वितीये के जीमूतवाहनमलयवत्योविवाहः प्रस्तूयते । तृतीये : केऽपि तदनुबन्ध एव । चतुर्वेः , समुद्रतीरं गतो जीमूतवाहनः शैलशिखरं गच्छति , तत्र गत्वा जानाति यत् गरुडः प्रतिदिनमेकं नागमत्ति , अद्य शङ्खचूडस्य पर्यायः । निषेधत्यपि वाचूडे दयापरवशोऽसौ तस्य स्थाने स्वं गरुडभोज्यमुप कल्पयति , तदीयेन त्यागेन पुष्पवृष्टि यते , गौरीप्रसादात् सर्वे जीवनं प्रतिपद्यन्ते येन रुदत्याः प्रियायाः विलयतोर्जननीजनकयोश्च नबनानि जोमूतवाहनः स्वदर्शनेन शिशि यति ।
नाटकेऽस्मिन् बौद्धहिन्दुधर्मयोरतिमधुरा संसृष्टिरस्ति ।
रत्नावल्याः प्रसिद्धिः
रत्नावली स्वीपेन गुणगणेन प्राचीनकालादेव प्रसिद्धा । शास्त्रीयपद्धति माश्रित्य प्रणीतमिदं रूपकमिति हेतुना दशरूपकेऽतीवादरोऽस्या जातः । साहित्यदर्पणेऽपि सन्धितदङ्गानां निरूपणस्य प्रसङ गे रत्नावली प्रचुरमादृता । श्रीहर्षः आदर्शभूतं कथानकमाश्रित्य भव्यं रूपकमिदं कृतवान् यदुदाहरन्ति यथाप्रसङ्ग रीतिकृतः ।
श्रीहर्षस्य काव्यशैली
श्रीहर्षस्य काव्यशैली सरला सुबोधा वैदर्भीपरिष्कृता । वर्णनस्य स्वाभा विकता विशदता च हृदयमाकर्षतः । यद्यप्पस्य कृतौ सूक्ष्मेक्षिकाया उत्प्रेक्षायाश्च वैरल्यमेव , तथापि प्रसादगुणो नितान्तहृदयावर्जकः ।
रोमाञ्चकदृश्यकाव्यस्य यावन्ति कमनीयान्युपकरणानि सम्भवन्ति तेषां सर्वेषां प्रयोगेऽयं सदा जागरूकः । वर्णनचातुरी चास्य सर्वमनोहरा ।
दृश्यताम् -
' यातोऽस्मि परवदने समयो ममेष
सुप्ता मयैव भवती प्रतिबोधनीया ।
प्रत्यायनामयमितीव सरोरुहिण्याः
सूर्यास्तमस्तकनिविष्टकरः करोति ॥ '
' कि पद्मस्य रुचि न हन्ति नयनानन्दं विधत्ते न कि
वृद्धि वा झषकेतनस्य तनुते नालोकमात्रेण किम् ।
वक्वेन्दौ तव सत्ययं यदपरः शीतांशुरुज्जृम्भते
दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे । '
निम्ननिर्दिष्टं चन्द्रोदयवर्णनं कवेः सूक्मनिरीक्षणं व्यञ्जयति -
' उदयतटान्तरितमियं प्राची सूत्रयति दिङ , निशानाथम् ।
परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी ॥ '
श्रीहर्षनृपतिरयं रूपकरचनायां कालिदासमनुकुर्वन्निव प्रतीयते । भवभूतिरस्य गर्भाङ्कयोजनामनुहरतीति गौरवमप्यस्य महत्त्वं गमयति ।