"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

भवभूतिः नाटककार

भवभूतिः नाटककार
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

भवभूतिः  नाटककार

भवभूतिः 

संस्कृतभाषायां नाटकानां प्रणेतृषु प्रधानान्यतमस्य भवभूतेर्वास्तविक नाम श्रीकण्ठ इत्यासीत् । " गिरिजायाः स्तनौ वन्दे भवभूतिसिताननौ ' इति पानणयनमूलकमस्य भवभूतिनाम्ना प्रथम श्रूयते । विदर्भदेशवासी श्रोत्रिय विप्रवंश्यश्चायं विविधागमशास्त्रपारदृश्वाऽऽसीत् । 
भवभूतिः  नाटककार

हर्षचरिते बाणभट्टः भवभूतेनाम कीर्तयति , अष्टमशतकोत्पन्नो वामनश्च तदीयग्रन्थतः स्वग्रन्थे उदाहरणं ददाति । राजशेखरोऽपि भवभूति स्वपूर्वभवं प्रख्यापयति -

 ' स्थितः पुनर्यो भवभूतिरेखाया स राजते सम्प्रति राजशेखरः । ' इति । 

राजतरङ्गिण्या -

' कविक्पितिराजश्रीभवभूत्यादिसेवितः 
जितो ययौ यशोवर्मा तद्गुणस्तुतिवन्दिताम् ॥ ' इति 

निर्दिशन कल्हणो भवभूतेयंशोवर्मकालिकतां प्रत्येति , यशोवर्मा च ७३६ मिते स्रोष्टाब्दे घ्रियते स्म । एभिः साक्ष्यैर्भवभूतेः समयः सप्तमशतकासन्नः प्रतिपन्नः । 

अस्य कृतित्रयमधुना प्राप्यते -
१ . महावीरचरितम् , 
२. उत्तररामचरितम् , 
३. मालतीमाधवच । 

कृतित्रयमपि रूपकप्रकारान्तर्गतमेव । तत्र प्रथमा कृतिः महावीरचरितमित्यालोचका निश्चयन्ति । यदा महावीरचरितस्य कट्वी आलोचना तत्कालभवैरालोचकैः प्रस्तुता तदाऽयं महाकविस्तान वर्षयन्निवा वोचत ' 

ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्तु ते किमपि तान्प्रति नैष यत्नः । उत्पत्स्यतेऽस्ति तु मम कोऽपि समानधर्मा कालो ह्ययं निरवधिविपुला च पृथ्वी । ' इति । 

' यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः । ' इति च । 

अस्य महाकवेः स्वकवित्वे महानादर आसीत् । अयं हि स्वं वाग्देवताया अधिष्ठातारं मन्यते स्म , तदुक्तं तेनैव - ' यं ब्रह्माणमियं देवी वाग्वश्येवाऽन्ववर्तत । ' करुणरसप्रधानकाव्यनिर्माण कवेरस्य प्रसिद्धिः । तथा चोक्तम् 

' भवभूतेः सम्बन्धाद् भूधरभूरेव भारती भाति । 
एतत्कृतकारुण्ये किमन्यथा रोदिति ग्रावा ॥ '

१. महावीरचरितम् 

महावीरचरितन्नाम नाटक रामायणीयां रावणवधान्तां कथामाश्रित्य विरचितम् । कम्यते -- भवभूतिना कवित्वाभ्यासकाले नाटकमिदं रचितम् । अप रामायायणकथायां नाटकोपयुक्त परिवर्तनं कृतम् । मालतीमाधवगतं कल्प नासौष्ठव तथोत्तररामचरितगतो रसपरिपाकश्चात्र यद्यपि नास्ति , तथाप्यत्रय कथानकैक्यं नितान्तरमणीयम् । अत्र राजनीतेविवेचनाकारणविस्तृता किय ताशेनोद्वेगमिव जनयति । पत्राणां दीर्घदीषिणैः कथावस्त्वन्तरितमिव प्रतोपते । चरित्रचित्रणदृष्ट्या रूपकमिदं न तथा प्रशंसनीयं यथेदमीयं रूपकान्तरम् । 

२. उत्तररामचरितम् ' 


उत्तरे रामचरिते भवभूतिविशिष्यते ' इति स्तूयमानसौष्ठवमुत्तररामचरि तन्नाम भवभूतेद्वितीयं रूपकं तस्य प्रौढा कृतिः । कवित्वे प्रौढिमासाचैव तेनेत दुपकं रचितमिति स्वयमेव तत्रोक्तं तेन 

' शब्दब्रह्मविदः कवेः परिणतप्रज्ञस्य वाणीमिमाम् । '

 ' उत्तररामचरित ' नामकरणेन प्रतोयते यद् रामायणोत्तरकाण्डगता राम कथाऽत्र ग्रथिता , परन्तु नाटकोपयुक्त परिवत्तनं कृतम् । तत्र मुख्यानि परिवर्त नानि यथा -१ प्रथमतश्चित्रदर्शनम् , २. अदृश्यया सोतादेव्या वासन्तीराम चन्द्रयोः कथालापश्रवणम् , ३. वासन्तीसमक्ष रामेण स्वहृदयानुरागस्य सोता गमनम् ,  मात्रविषयकत्वप्रकटनम् , ४. लवचन्द्रकेतुयुद्धम् , ५. वसिष्ठादेः प्राचेतसाश्रम ६. रामसमनं तदीयचरितस्यैवाभिनयञ्चेति ।

य एवं शोकः सीताया वियोगे रघुवंशनायकं रामचन्द्रं व्यथयामास स एवं शोकोऽत्रोत्तरचरितेऽपि रामं व्यथयति , परन्तु यद्यपि रघुवंशस्य ' वैदेहिबन्धोहूं दयं विद  ' तथापि धौर इवासी भ्रातून समाहूय सीतापरित्यागप्रकार विधिवदा दिश्य चान्तरेव व्यथा नियमयति । मन्ये कालिदासः शोक व्यञ्जनया प्रकाश वति , भवभूतिस्तु राम तथा रोदयति यथा तद्बुदितेन पाषाणहृदया अपि रुदन्ति । रघुवंशस्य रामः प्रथम राजा तदनन्तरं मनुष्य इति स राजोचित माचारं पालयति , भवभूतेस्तु रामः प्रथमं मनुष्यस्ततो राजेति स मानवीया मघोरतां शोकाचप्रवाहरूपेणाविष्कुरुते । कालिदासस्प रामः सत्यपि दृढे सीतानुरागे लोकाचारं पालयति , परं लोकाचारपालनप्रवृत्तेः पूर्व दोलाचलचित्तवृत्तित्वं प्रतिपद्यते- 

' किमात्मनिर्वादकथामुपेक्षे सीतामदोषामुत सन्त्यजामि । 
इत्येकपक्षाश्रयविक्लवत्वादासीत् स दोलाचलचित्तवृत्तिः ॥ '

भवभूतेस्तु रामः किमप्यविचार्य कर्तव्यमवधारयति , वाद तेन स्वाचर णेनाजीवनं पुटपाकप्रतीकाशं सन्तापमनुभवति 

' स्नेहं दयां च सौख्यं च यदि वा जानकीमपि । 
आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा ॥ ' 

रामस्य कर्तव्यज्ञानमक्षुण्णमेव सत्यपि कष्टाधिक्ये । 

भवभूतिः वाल्मीकिकालिदासयोः कवित्वं मनसा परिशील्यैव स्वकवितालतां सिक्तवानित्यत्र नास्ति संशयः , परन्तु कुत्रापि तादृशं साम्यं नासाद्यते , येन भावापहारकृतं लाघवं दृष्टौ पतेत् । यत्र कालिदासः प्रकृतेललितं कोमल च पक्ष स्वकविताया विषयतां नयति तत्र भवभूतिः प्रकृतेविकटमुन चांशं स्व कविताया विषयतां प्रापयति । कालिदासः - 

 ' कार्या सैकतलीनहंसमिथुना स्रोतोवह । 
मालिनी , पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः । ' 

इति वर्णयति तत्र भवभूति : -

निष्कूजस्तिमिताः क्वचित्क्वचिदपि प्रोच्चण्डसत्त्वस्वनाः 
स्वेच्छासुप्तगभीरभोगभुजगश्वासप्रदीप्ताग्नयः 
सीमानः प्रदरोदरेषु विलसत्स्वल्पाम्भसो यास्वयं 
तृष्यद्भिः प्रतिसूर्यकरजगरस्वेदद्रवः पीयते ॥

 इति । अनयोः पद्ययोः पर्यालोचनेन रुचिवसादृश्यं स्पष्टं प्रतिभासते । 
कस्य कवित्वं कीदृशमिति विचारो दृष्टिकोणभेदमाधारीकरोति । केचन वर्णनपक्षं प्रशंसन्ति , परे हृदयपक्षम् । वर्णनपक्षे प्रौढिरभ्यासपाण्डित्याभ्या मासाद्यते , हृदयपक्षे प्रौविस्वस्तस्तस्वपरीक्षणे निपुणैः सूक्ष्मतामानुभवैरवाप्यते । माघस्य काव्ये वर्णनस्य प्राचुर्ये सत्यपि हृदयपक्षो रिक्त इव । भवभूतेः कवित्व गुभयसामञ्जस्येन पूर्णम् । असौ योकतः 

गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारवत्कीचक 
कन्दफेरवचण्डधाकृतिभृतप्रारभारभोमैस्तटैः ।। 

अथवा 

' लोकालोकालवालस्खलनपरिपतत्सप्तमाम्भोधिपूर 
विश्लिष्यत्पर्वकल्पत्रिभुवनमखिलोखातपातालमूलम् । 
पर्यस्तादित्यचन्द्रस्तवकमवपतद्भरिताराप्रसून 
ब्रह्मस्तम्ब धुनीयानिह तु मम विधावस्ति तोबो विषादः ॥ '

 दृशं कम्पोत्वादकं वर्णनं कर्तुं क्षमते , तह्य परतः 

' अनिभिन्नो गभीरत्वादन्तर्गुडधनव्यथः । 
पुटपाकप्रतीकाशो रामस्य करुणो रसः ।। '

अथवा 

' व्यतिषजति पदार्थानान्तरः कोऽपि हेतुनं खलु बहिरूपाधीन प्रीतयः संधयन्ते । 
विकसति हि पतङ्गस्योदये पुण्डरीक द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ।। 

ईदृशान्यनुभवकलभ्यानि हृदयमर्मस्पॅशि वर्णनानि कर्तुमपि क्षमते । 
गुणगौरवेण भवभूतेरन्यद्रूपकद्वयमतिक्रम्य वर्तते तदीयमुत्तररामचरितनि खुतमपि केनचित् - ' उत्तरे रामचरितं भवभूतिविशिष्यते ' । अत्र नाटके पात्राणां  चरित्राणि नितान्तोज्ज्वलानि निषितानि । यद्यपि कतिपये समालोचका अनापि कियावेगस्याभाचं कथयन्ति परन्तु तन्नात्र तथा प्रकटम् । अन्तिमाङ्के भव भूतिना यो नाटकान्तरसमावेशः कृतस्स तू , कालिदासकृतीनामपि . मुख मलिनयति । 

३. मालतीमाधवम् 

इदं दशभिरविरचितमेकं विशाल प्रकरणम् । कविकल्पनाप्रसूतो मालती माधवयोः प्रेमाऽतिसुन्दप्रकारेणात्रावतार्य वणितः । -यौवने उन्मत्तस्य प्रेम्णोन प्रगाद निदर्शनम् । माधवेन मालतीवियोगे क्रियमाणा विलापाः विक्रमोद शीयं नाम कालिदासीय रूपकं स्मारयन्ति । नवमेऽङ्के प्रियतमा प्रति सन्देश प्रषयितुं माधवेनांनुरुध्यमानो मेघो मेघदूतकाव्यस्मरणाय वाचकान् बलवत् प्रेरयति ।

" ओजःसमासभूयस्त्वमेतद् -गद्यस्य जीवितम् ' 

इति ब्रुवाणो रीतिकारी भवभूत्तिनाश्त्र प्रकरणे दीर्घसमासां गद्यावलि प्रयुज्य बहु सम्भावितः । अत्र 1 . हास्यरसस्य सर्वथाऽभावो यद्यपि देरस्यावहस्तथापि धोरभीषणातिमानुषवस्तु जातवर्णनाकर्णनाक्षिाहृदयो वाचकस्तन्न चेतयते । 

४. भवभूतः काव्यशैली 


भवभूतिरति भावुकः कविः । यदि भवभूतेः कृतिषु कालिदासकृतिसुलभ सौन्दर्य माधुर्य च दुरापं तहि परिमितेः पदेवंस्तुस्वरूपस्य वर्णने भवभूतिः कालिदासमप्यतिशेते । 

जगति भोषणस्य विशालस्यात . एवालौकिकस्य च वस्तुनो वर्णनेऽस्य महानभिनिवेशः । एतत्कृतानि उत्तुङ्गपर्वतानां निबिडाटवीनां च वर्णनानि नितान्तहृद्यानि । 

मनोगतस्य भावस्य वाचि यथावद्विनिवेशनमस्य वैशिष्टयम् 
मनोभावानां काविकप्रतिफलनस्य चित्रणे त्वयमद्वितीय एव ।

 ' अलसवलितमुग्धस्निग्धनिस्पन्दमन्देः ' एतेन पात्राणां स्वाभाविकचित्रणाप बहु प्रयतितं साफल्यं चाधिगतम् । 

' कञ्चुकी - रामभद्र ( इत्य | क्ते ) महाराज । रामः - ननु रामचन
 इत्येवोपचारो माँ प्रति शोभते तातपरिजनस्य । ' इत्यादिकमत्रोदाहतुं शक्यते ।

 भवभूतिः सरलानां सरसानां च हृदयमर्मोद्घाटकानां पद्यानां निर्माणे सफल इतीह दिङ मात्र मुदाहियते 

' किमपि किमपि मन्द मन्दमासत्तियोगा 
दविरलितकपोलं जल्पतोरक्रमेण । 
अशिथिलपरिरम्भव्यापत्तैकैकदोष्णो 
रविदितगतयामा रात्रिरेवं व्यरंसीत् ।। 

सत्स्वपि सर्वविधेषु वृत्तेषु सफलेषु कविरयं शिखरिण्यां पर्याप्तां सफलता मापदिति विचार्येव केनचिदुक्तम् 

' भवभूतेः शिखरिणी निरगलतरङ्गिणो । 





About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.