विशाखदत्तः नाटककार

विशाखदत्तः नाटककार

 विशाखदत्तः 

विशाखदत्तस्यैकमेव ' मुद्राराक्षस ' नाम नाटकमस्य स्थानं नाटककारेषु प्रधानं प्रमापयति । स्वग्रन्थप्रस्तावनायां दत्तेन परिचयेन कवेरस्य राजवंशोभू वत्वं प्रकाश्यते , अत एव चास्य राजनीतिनिपुणत्वं स्वाभाविकम् । विशाखदत्तो राजनीतौ निपुणो दर्शने ज्योतिषे च कृताधिकारः प्रतीयते । 

मुद्राराक्षसस्य रचनाकालसम्बन्धे मतत्रयं विद्यते । भरतवाक्ये पाठभेदेन ' दन्तिवर्मा ' , ' अवन्तिवर्मा ' , ' चन्द्रगुप्तः ' इति पाठेखीण्यपि मतानि पुष्यन्ति । 
विशाखदत्तः नाटककार

दन्तिवर्मा दक्षिणदेशे पल्लवनरेशो हि ७२० तमे स्त्रीष्टान्दे भुवं शशास ( अस्मिन् समये म्लेच्छोपद्रवो नासीदिति भरतवाक्यमत्र नान्वेति ) द्वितीय चन्द्रगुप्तः ३७५-४१३ खीष्टाब्दकाले आसीदिति तत्रैव काले विशाखदत्तस्य समयः इति जायसवालः ( इदमपि मतं न तथ्यं , यतः चन्द्रगुप्तकालात् ५० वर्षतः परतो हूणानामाक्रमणमजायतातो न भरतवाक्यसङ्गतिः ) । ' अवन्तिवर्मा एकः काश्मीरकः , अपरश्च कान्यकुब्जशासिता मौखविंश्यः । अस्यैव पुत्रो अहवर्मा महाराजहर्षवर्धनस्य भगिनीं राज्यश्रियं नाम परिणीतवान् । अस्यैव समये विशाखदत्तो मुद्राराक्षसं विरचितवानिति मतमेव इतिहाससमथितं यतोऽत्रैव काले हूणानामुपद्रवः पश्चिमोत्तरभारतेऽजायत । इयं घटना ५८२ स्त्रीष्टाब्दसमीपे जाता , अतो मुद्राराक्षसस्य प्रणयनकालः षष्ठशताब्दी सिद्धयति । 

मुद्राराक्षसस्य विशिष्टता 

असत्यामपि शृङ्गारकथायामसत्यपि च प्रणयव्यापारकाले नाटकमिद मलौकिकेन सरसत्वेनामूलमाचूलं चाप्यायितं वर्तते । ओजोगुण एवात्र तथा समृद्धो यथा सामाजिकमनोरञ्जनाय वस्त्वन्तर नापेक्षते । स्त्रीपात्रस्याभावे विदूषकस्य चाभावे सत्यपि यदिद नाटकमेतावत्सरसं जातं तदस्य रचयितुः काव्यकलाप्रवीणतायाः परमं प्रमाणम् ।

 यद्यपि वेणीसंहारनामक नाटकमपि भूयसा प्रोक्तगुणशालि , परं युद्धत्य वातावरण दर्शकानां मनसि किमपि विचित्र भीतिमिथं वैरस्य सृजति अस्मिस्तु ' विनैव सुद्धादायेंण जितं दुर्जय परबलमिति परा तृप्तिः । 

यथाऽऽधुनिकेयूपन्यासेषु गहनः कथातन्तुर्वाचकानाकर्षति , मध्ये विरन्तु मवसरं न ददाति , तवैवान पाठकानां जिज्ञासा कदापि मध्ये न विधान्ति मासादयति । कुतूहलवर्धकमाख्यानं नाट्यस्य जीवितं तदा पर्याप्तभावेनाव स्थितमिति चमत्कारि नाटकमिदम् । सुघटितकथावस्तुयोजनायो व्यक्तित्व पूर्णपात्र चरित्रचित्रणे , ओजस्विवातावरणोपन्यासे च नाटकमिदमद्वितीयमिति सर्वसम्मतम् । 

मुद्राराक्षसे नायकः 

अस्य नाटकस्य नायकचन्द्रगुप्तश्चाणक्यो वेति विचारविषयः । केचित् प्रधानफलाश्रयतया चन्द्रगुप्तं नायकं मन्यन्तेऽपरे कथातन्तुसञ्चालनप्रधानतया चाणक्यमेव नायक स्वीकुर्वन्ति । वस्तुतत्त्वे चिन्त्यमाने चाणक्य एव नायकः सिद्धयति । मुद्रया निगृहीतो राक्षसो यत्र तन्मुद्राराक्षसमिति व्युत्पत्ती मुद्रा प्रवत्तकस्य नायकत्वं सिद्धिप्रायम् । सत्यव्रतसिद्धिजेन्द्रनाथावपि मतमिदं समर्थवतः । 

विशाखदत्तस्य देवीचन्द्रगुप्त नाम नाटकान्तरम् 

विशाखदत्तकृत देवीचन्द्रगुप्त नामकं नाटकान्तरमपि प्राप्यते । रामचन्द्रगुण चन्द्रकृते नाटकदर्पणे नाम ग्रन्थेऽस्य विस्तृतमुद्धरणं प्राप्यते । भोजस्य सरस्वती कण्ठाभरणे अभिनवगुप्तस्य अभिनवभारत्यां चास्योल्लेखो दृश्यते । अत्र नाटके शकराजस्य कारागारात् रामगुप्तस्य महिष्या ध्रुवदेव्याः चन्द्रगुप्तकृत उद्धारो वर्णितः । एतन्नाटकेतिवृत्तमादायैव जयशङ्करप्रसादेन हिन्दीभाषायां ' ध्रुवस्वा मिनो ' नाम नाटकं प्रणीतम् । 

मुद्राराक्षसे काव्यगुणाः 

मुद्राराक्षसस्य शैली विलक्षणतमा , अलङ्काराणां प्रयोगऽपि हृद्यतमः । आदावेव 

' आस्वावितासिरदशोणितशोणशोभा 
सन्ध्यारुणामिव कलां शशलाञ्छनस्य । 
जृम्भाविदारितमुखस्य मुखात्स्फुरन्ती 
को हर्तुमिच्छति हरेः परिभूय दंष्ट्राम् । 

इति पद्यमोजोगुणगुम्फिततया नितान्तमनोरमम् । अत्रत्यं शरदृतोवर्ण नमतिरमणीयम् - 

' आकाशं काशपुष्पच्छविभिभवता भस्मना शुल्कयन्ती 
शीतांशोरंशुजालेजलभरमलिनां क्लिन्दती कृत्तिमैभीम् ।
कापालीमुहन्ती सजमिव धवलां कौमुदीमित्यपूर्वा 
हासधीराजहंसा हरतु तनुरिव क्लेशमैशो शरदः ।। '