संस्कृत देवकाव्यानि

संस्कृत देवकाव्यानि

 देवकाव्यानि 

यथा शास्त्रकाव्यानि शास्त्रीयतत्त्वप्रख्यापनबुद्ध्या विरचितानि , तथैव प्रधानतया देवतानां कीर्तिं गातुं यानि काव्यानि रचितानि तानि देवकाव्यान्यभिधीयन्ते । माघकुमारस्तम्भवादीनि यथा कवित्वप्रदर्शनाय विरचितानि प्रतीयन्ते न तथा देवतानां कीर्तिं गातुमतस्तानि न देवकाव्यानि । देवकाव्यानि तान्येव यत्र प्राधान्यं देवकीर्तीनाम् । अतोऽत्र प्रकरणे तादृशान्येव कतिचित् काव्यानि परिचाययितुमुपक्रम्यते ।

संस्कृत देवकाव्यानि


 उत्प्रेक्षावल्लाभगोकुलनाथस्य ' भिक्षाटनकाव्यम् '

   ख्रीष्टीयचतुर्दशशतकात् पूर्वकालभवे भिक्षाटनकाव्ये श्रृङ्गारिकपद्धत्या शिवस्य चित्रणं क्रियते । शिवो भिक्षितुमिन्द्राणीप्रभृतीनां देवाङ्गनानां समीपमुपसर्पति , ताश्चास्य रम्यं रूपं दृष्ट्वा शृङ्गारमग्नान्तरा जायन्ते । इदमेव वस्त्वत्र विस्तरेण वर्णितम् ।

नीलकण्ठदीक्षितस्य ' शिवलीलार्णवः ' 

शिवलीलार्णवे द्वाविंशत्या सर्गैः मदुरास्थितस्या सुरेन्द्रनाथशिवस्य ६४ प्रख्यातलीलानां वर्णनं निबद्धम् । सुरेन्द्रनाथशिवस्यैता लीलाः स्कन्दपुराणान्तर्गते हलास्यमाहात्म्ये उपनिबद्धाः । काव्यम् इदम् सरसया सरलया च भाषया निबद्धमतीव मनोहारि विद्यते । प्रारम्भ मङ्गलाचरणं यथा -- 
' पूर्त स्वतः पूततरं ततो यद् गाङ्गं 
पयः शङ्करमौलिगङ्गात् । 
तत्पातु मातुः प्रणयापराध
पादाहतैः पूततमं ततो नः ॥
अन्विष्य खिन्नं निगमानशेषानमी 
नमीनं प्रथम स्मरामः । 
अन्विष्यमाण निगमैरयोषेरम्ब 
स्तुमस्ते वयमक्षिमीनम् ॥ 
नीलकण्ठदीक्षितोऽयं प्रख्यातदार्शनिकपण्डितस्य अप्पय्यदीक्षितस्य भ्रातुः अच्चादीक्षितस्य पौत्रस्तथा सप्तदशशतकप्रथमभागोद्भूतस्य मदुरानरपतेः तिरुमलनायकस्य सभायां मुख्यपण्डित आसीत् ।

 शिवलीलार्णवात् स्वल्पपरिमाणं गङ्गावतरणं नाम काव्यामप्यनेन निर्मितम् ।  
एतस्य ' नीलकण्डविजयचम्यू'नामकस्य ग्रन्थान्तरस्य रचनाकाल : १६३७ ई ० मन्यते । अतोश्यस्य समयः सप्तदशख्रीष्टशतकप्राग्भागः निर्धारितो भवति । 
अनेन लोकशिक्षार्थ कलिविडिम्बनम् , सभारञ्जनम् , अन्यापदेशशतकम् इत्यादीनि लघुकाव्यान्यपि लिखितानि।
 द्रविडकविषु ईदृशसरससरलकविता निर्माता प्रतिभासम्पन्नश्च कोऽपि नासीदिति कथनमपि नात्युक्तिं स्पृशेत् ।

 जयद्रथस्य ' हरचरितचिन्तामणिः ' 

काश्मीरजातेन जयद्रथेन हरचरितचिन्तामणिर्नाम  महाकाव्यं कृतं यत्रानुष्टुभव सर्वे सर्गा अरच्यन्त । अयं जयद्रथोलङ्कारविमर्शिनीकर्तुः प्रसिद्धा लङ्कारशास्त्रिणो जयद्रथस्य भ्राताऽसीत् । उभावपि भातरौ १२०३-१२२६ ख्रीष्टाब्दभवस्य राजदेवनाम्नो भूपस्याश्रितो आस्तामिति प्रसिद्धम् । अत एव चास्य समयस्त्रयोदशशतकस्वारम्भ इति दृढम् । हरचरितचिन्तामणेभाषा सरला , पुराणपाठ इवात्र पाठयमाने रसास्वादो जायते ।

 लोलिम्बराजस्य ' हरिविलासकाव्यम् '

अयं लोलिम्बराजः आयुर्वेदक्षेत्रे प्रसिद्धस्य वैद्यजीवनस्य कर्त्तृतया प्रसिद्धः । अस्य हरिविलासकाव्यं लघुकाव्यं सदपि गुणैर्महनीयम्। अस्य समयः खीष्टीयैकादशशतकं मन्यते यतीयं भोजराजसमकालिकस्य कस्यचित् हरिहरनामकस्य दक्षिणभारतसम्राजः समकालीन आसीत् । अयमतीव सरसः कविरासीदतोऽस्य काव्यं कृष्णस्य बाललीलायाः सरसं श्रृङ्गारिकं च वर्णनमुपस्थापयितुमलम् ।

 वेदान्तदेशिकस्य ' यादवाभ्यूदयम् ' 

इदं पाण्डित्यपूर्ण काव्यं बौद्धिकव्यायामप्रसूतमिति न तथा सरलं सरसञ्च । 
अस्य समयः - १२२५-१३२५ ई० । 
एतत्प्रसङ्गे एतदन्ये कवयस्तत्कृतयश्च निदिश्यन्ते -- 
ग्रन्थ नाम 

१. रुक्मिणीकल्याणम्   -   राजचूडामणिदीक्षितः

२. गोविन्दलीलामृतम्   -   कृष्णदासकविराजः

३.बालभारतम्       -     अमरचन्द्रसूरिः 

४. पाण्डवचरितम्   -    देवप्रभसूरिः 

5. सहृदयानन्दम्   -    कृष्णानन्दः

६. नलाभ्युदयम्    -    वामनभट्टबाणः 

७. उदारराघवम्     -    साकलमल्ला 

८. नरनारायणानन्दम्    -    बस्तुपाला 

९. सुरथोत्सवम्    -   सोमेश्वरः 

१०. हरिवंशसारचरितम्     -    गोविन्दमखो 

११. रामचन्द्रोदयम्     -    वेङ्कटेश्वरः 

१२. रघुवीरचरितम्    -   मल्लिनाथः