संस्कृत शास्त्रकाव्य - भट्टस्वामी का 'भट्टिकाव्य'

संस्कृत शास्त्रकाव्य - भट्टस्वामी का 'भट्टिकाव्य'

        व्याकरणसम्बन्धिपदप्रयोगनियमानां ज्ञानायान्यशास्त्रीयज्ञानसौलभ्याय च यानि काव्यानि प्रणीतानि तानि शास्त्रकाव्यान्युच्यन्ते । 

भट्टिस्वामिनो भट्टिकाव्यम् :-

        शास्त्रकाव्येषु भट्टिकाव्यं प्रसिद्धतरम् । दीपतुल्यः प्रबन्धोऽयं शब्दलक्षण चक्षुषाम्। काव्यमिदं भट्टि स्वामिना प्रणीतम् । तन्नाम्नेव चास्य प्रसिद्धिरपि जाता । इदं काव्यं रावणवधनाम्नापि प्रथते । अत्र काव्ये द्वाविंशतिः सर्गा येषु संहत्य १६२९ मिता श्लोका विद्यन्ते । अत्र काव्यस्य निर्माण उद्देश्यं मनोविनोदेन सह संस्कृतव्याकरणस्य ज्ञानम्। तदिदमुद्देश्यं पूर्वमपि भवति । 

संस्कृत शास्त्रकाव्य - भट्टस्वामी का 'भट्टिकाव्य'


अस्य रचयितुः समयः भटिस्वामिना स्वग्रंथे लिखितम् - 

' काव्यमिदं लिखितं मया वलभ्यां श्रीधरसेनवरेन्द्रपालितायाम् । 
कीर्तिरतो भवतान्नपस्य तस्य 
क्षेमकरः क्षितिपो यतः प्रजानाम् ।।

 श्रीधरसेननामकाश्चत्वारो राजानः ५०० इ. तः ६५० इ. पर्यन्तमजायन्त, तेषु कतमस्य श्रीधरसेनस्य समये भट्टिजायतेति निश्तचेव्यम् । श्रीधरसेन द्वितीयस्येकः शिलालेखः प्राप्यते, यत्र भट्टीनाम्ने विदुषे राजा कृतस्य भूमिदानस्य वार्ता मिलति । यद्ययं भट्टिः भट्टिकाव्यस्यैव प्रणेता तदा तस्य समयः ६१० इ० मन्तुं शक्यते । भिन्नभिट्टेः कल्पनायामपि भट्टिः सप्तमशतकादूर्ध्वं नागेतु योग्यः।

        भट्टिः काव्यमिदं किमपि प्राचीनमीदुशं काव्यमालोक्यैव प्रणीतवान् । पातञ्जलमहाभाष्ये कतिपयानि व्याकरणप्रयोगपराणि पद्यान्युदधृतानि सन्ति ।

        तेन ज्ञायते यत् पतञ्जलेरपि समये किमपि तादर्श काव्यमासीव तदेव किमपि काव्ययाधारीकृत्य भट्टिना स्वं काव्यं विरचितं स्यात् । 
        भट्टिकाव्यं यद्यपि व्याकरणलक्षणप्रयोग ज्ञानाय निर्मितमिति प्रतिभाति तथापि काव्यस्यास्य साहित्यिक किमपि वैशिष्टयं विद्वद्रञ्जकमेव विद्यते। अत्र कविना काव्यगुणा अपि प्रयस्य समावेशिताः। अस्य काव्यस्य दशमे सर्गे  शब्दार्थालङ्काराणां निवेशेन एकादशे सर्गे माधुर्यगुणस्य समावेशन चास्य गौरवमेधते।
        अस्य कवेर्वक्तृत्वनैपुष्णं विभीषणस्य भाषणेन शूर्पणखाया भाषणेन चावगम्यते । द्वितीयसर्गे शरदो , द्वादशे सर्गे प्रभातस्य च कमनीय वर्णनं विद्यते । 

अस्य काव्यस्य शरद्वर्णनं नितान्तह्रद्ययम् ---

 ' तरङ्गसङ्गाच्चपलैः पलाशै
र्ज्वालाश्रियं सातिशयं दधन्ति । 
सधूमदीप्ताग्निरुचीनि रेजु
स्ताम्रोत्पलान्याकुलषट्पदानि । ' 
' बिम्बागतेस्तीरवनैः समृद्धि 
निजां विलोक्यापहृतां पयोभिः । 
कूलानि सामयतयेव तेनुः 
सरोजलवमी स्थलपमहासैः ।। 

एवमेव सूर्योदयवर्णनमपि ---

 ' दुरुत्तरे पङ्क इवान्धकारे 
मग्नं जगत्सन्ततरश्मिरम्जु ।। 
प्रनष्टमूत्तिविभागमुद्यन् 
समुज्जहारेव ततो विवस्वान् ।

भट्टिकाव्यत्य निम्नलिखितः श्लोकस्तु एकावली नामकस्यालङ्कारस्य प्रसिद्ध मुदाहरणम् --

' न तज्जलं यन्न सुचारुपंकजं 
न पर्ज सादलौनषट्पदम् । 
न षट्पदोऽसौ न जुगुज या 
कलं न गुञ्जित तन जहार यन्मनः ।। 

काव्यमिदं द्वाविंशतिसर्गात्मक विद्यते । आदिमेषु चतुर्षु सर्गेषु प्रकीर्ण विषयाः , तदनु त्रयोदशसर्गान्तमलङ्काराणां निवेशाः , ततो द्वाविंशं सर्ग यावल्लकारयोगाश्चेति सर्वात्मनाशास्त्रकाव्यमिदम् 

भट्टभोमस्य ' रावणार्जुनीयम् ' 


अस्मिन रावणार्जुनीयनामके काव्ये अष्टाध्यायीसूत्रपाठक्रमेण पादानां निदर्शनं कृतमस्मादिदमपि शास्त्रकाव्येष्वन्यतमं मन्यते । 
' सुवृत्ततिलके नाम स्वग्रन्थे क्षेमेन्द्रेण शास्त्रकाव्योदाहरणतया भट्टिकाव्येन सह रावणार्जुनीयम् अपि निदिष्टम् ।
 यतः क्षेमेन्द्रः स्वग्रन्थे सुवृत्ततिलके रावणानुनीयं शास्त्रकाव्यं निर्दिशति, अतः रावणार्जुनीयप्रणेतुः भट्टभीमस्य समय एकादशशतकात् प्राक्तनः सिद्धयति ।

हलायुधस्य ' कविरहस्यम् '

 कविरहस्ये हलायुधो नानार्थधातूनाम् भिन्नेष्वर्थेषु प्रयोगस्य प्रपञ्चं प्रदर्शितवान् । अयं हलायुधो राष्ट्रकूटवंशीय - कृष्णराजतृतीयस्य ९४०.९५३ ६० वर्तमानस्य सभापण्डित आसीदिति तस्य समयो निर्णीत एव । हलायुधेन स्वाश्रयदातुः प्रशंसायामेव सकलान्युदाहरणानि प्रदर्शितानि, अतोपि  तस्य तदाश्रितत्वं पुष्यति । 

वासदेवस्य ' वासुदेवविजयम् ' 


केरलेषु गृहीतजन्मनो ' वासुदेवस्य ' वासुदेवविजयं नाम काव्यमपूर्णमेव । अपूर्ण मेव वासुदेवेन निर्मितम् , यस्य पुर्तिः केरलवासिनैव नारामणेन त्रिषु सर्गेषु धातुकाव्यं निर्माण कृता । अप घातूनां प्रयोगभेदान् दर्शयित्वा कंसवधवृत्तान्तो वर्णितः । समयोऽस्य निश्चित्य समतुं न शक्यते ।

हेमचन्द्रस्य ' कुमारपालचरितम् 

' ऐतिहासिककाव्यनिर्देशप्रकरणे वर्णितमिदं काव्यं शास्त्रकाव्यमपि , यतोत्रादितो विंशं सर्गं यावत् संस्कृतव्याकरणनियमानां ततोष्टसु सर्गेषु प्राकृतव्या करगनियमानांच प्रपन्चः कृतः । 

चिरजीवभट्टाचार्यस्य ' विद्वन्मोदतङ्गिणीकाव्यम् ' 

     केनचित् बङ्गदेशीयेन ऊनविंशख्रीष्टशतक प्राग्भागसम्भूतेन चिरन्जीवभट्टाचार्यविदुषा निर्मितमिदं काव्यं कथोपकथनरूपेण सकलदर्शनमतप्रतिपादनाय निवद्धम् । स्वल्पतनुरप्ययं ग्रन्थः सरसपदविन्यासतया हृदयाकर्षकः। प्रत्यक्षमात्रं प्रमाणं मन्यमानान् प्रति कवेरियमुक्तिः कीदृश सारल्यं सारसत्वं च बिभर्ति।
 ' भवादृशे दूरविदेशमाति 
परस्तु वैधव्य विधानमङ्गनाः । '

म ० म ० गङ्गाधरशाषिणः ' अलिविलासिसंलापकाव्यम् '

    ऊनविंशख्रीष्टशतकस्य चरमे विंशख्रीष्टशतकस्य प्रथमे च भागे वाराणस्यां स्थितेन म ० म ० गङ्गाधरशास्त्रिणा प्रणीतं सहस्राधिकपद्यसन्दृब्धमिदं काव्यं शास्त्रकाव्येषु मूर्धन्यं कथयितुं शक्यते । अत्र कविना ग्रथितानां वस्तूनां परिचय स्तच्छब्दैरेव दीयते -- 

' येऽलङ्कारगम्भीरचित्रमधुरोपन्याससुभूषवो 
ज्ञातुं भारतविर्तामरपुरीतीर्थानि वाञ्छन्ति ये । 
मे च द्वादशदर्शनीयस्थविषयव्युत्पत्तिजातादराः
 संलापोऽलिविलासिनोर्मुहुरयं तेरास्थयालोच्यताम् ।।

 स्वस्य परिचयं ग्रन्थनिर्माणसमयमपि च कविः स्वयमाह  --
' श्रीमत्तातनृसिंहशास्त्रिचरणस्वक्षससेबिनो
 राजारामयतीन्द्रसद्गुरुकृपापीयूषपूतात्मनः । 
काया वेदरसाभूपरिमिते सम्पादिता वैक्रमे 
स्याद्गङ्गाधरशास्त्रिणः कृतिरिवं विद्वज्जनानां मुदे ।।

अस्य ग्रन्थस्य शास्त्रकाव्यत्वे सत्यपि कवितामाधुरी विस्मतावहैव। श्लेषस्यान्यान्यालङ्काराणाञ्च बन्धैर्बन्धुरा कविताऽत्र सर्वत्र निबद्धा । यथा --

' अनन्यसाधारणसौकुमार्य 
सौन्दर्यसौरभ्यसमष्टिभूमिः । 
सरोजिनी कुत्र ? मलोमसान्य
पुष्टप्रिया चूतलता व कुत्र ? 
प्रियान् विनेतुं विपिनं गतानां 
शुचाकुलानां पथिकाङ्गानानाम् । दृशोविकीर्यातुलधूलिमुष्टिरसौ 
हि पापानि समूच्चिनोति ।। '