कल्हणस्य राजतरङ्गिणी

कल्हणस्य राजतरङ्गिणी

            संस्कृतभाषायामितिहासलेखनाय यावन्तो विद्वांसो व्यवसितवन्तस्तेषां मध्ये कल्हणः प्रमुख इति नितान्तसत्यं वस्तु । कल्हणः स्वयमेव स्वीयमितिवृत्त निर्दिष्टवान् । 

            कल्हणोऽयं कास्मोरदेशे आत्यप्राह्मणवंशेजायत । अस्य पिता चणपकः तात्कालिककाश्मीराधिपतेहर्षस्य ( १०४८-११०१ ) प्रधानामात्य आसीत् । शत्रुभिः कपटेन हते सति चापकस्य कुटुम्बं राजाश्रयविहीनमजायत । चणपकः कस्याप्यन्यस्यायं नाभजत । कल्हणस्य पितृव्यः कनकोऽपि काश्मीरनृपतेहप स्यैवाश्रयेऽवत्तंत हर्षे हते सति स काश्मीरान विहाय वाराणसीमध्यवसत् कल्हणस्य संस्कृतं नाम कल्याण इत्यासीत् । स हि अलकदत्तनाम्नः कस्यचि त्सत्पुरुषस्य छत्रच्छायामाधितवान् ।



             राजपरिवारेण सह तस्य सम्बन्धो नासीदत एवासी राज्ञामालोचनायां निर्ममदृष्टिरपक्षपातश्चाजायत । कल्हणः स्वीयां राजतरङ्गिणी राज्ञः सुस्सलस्य पुत्र राजानि जयसिंहे ( ११२७-११५९ ) शासति निमितवान् । कल्हणेन ११४८ तमेशवीयवर्षे प्रारब्धा राजतरङ्गिणी ११५० तमेशवीयवर्षे समापितेति वर्षत्रयं तत्र कार्ये लवनम् । 

            कल्हणः परमर्शवः सन्नपि धार्मिकदृष्टौ सहनशीलो बौद्धानाहिसासिद्धान्ते घृतादरस्तन्त्र-मार्गविमुखश्वासीत् ।

             कल्हणो रामायणमहाभारतयोरल्यान्यसंस्कृतकाव्यानाच निपुर्ण शाता ज्योतिषशास्त्र-निष्णातश्चासीत् । कल्हणेन राजतरङ्गियां ज्ञात्वाऽज्ञात्वा वा द्वारपादाबादीनां पारिभाषिकशब्दानामर्वसूचनमन्तरेणेव प्रयोगः कृत इति क्वचित् क्वचित् दुरुहतादोषोश्यत्रागतः । 

            कल्हणेन इतिहासलेखनाय वत्तंमानसाधनानां शिलालेखदानपत्रादीनां साधूपयोगं कृत्वेव स्वग्रन्थः प्रणीतः , तेनैव सावधानभावेन तस्य ग्रन्थो विशिष्य प्रामाणिकरवं प्राप्तवान् दोषान् दृष्टवान् स्पष्टमुक्त्वांश्च--

' केनाप्यनवधानेन कविकर्मणि सत्यपि । 
अंशोऽपि नास्ति निर्दोषः क्षेमेन्द्रस्य नृपावली । ' 

( १।६३ राजतरङ्गिणी ) ' 

विस्तीर्णाः प्रथमे पन्थाः स्मृत्ये संक्षिपतो वचः ।
 सुव्रतस्य प्रबन्धेन च्छिन्ना राजकथाश्रयाः ॥ 

( १।१२ राजतरङ्गिणी )

' बद्धा द्वादभिर्गन्थसहस्रः पार्थिवावलिः । 
प्राइमहाबतिना येन हेलाराजद्विजन्मना ।। 

( १।१७ राजतरङ्गिणी )

         एषां श्लोकानां दर्शनेन ज्ञायते यदसौ सर्वमपि प्राक्तनमितिहासग्रन्थनिवह निपुर्ण निरोक्ष्यैव राजतरङ्गिणी प्रणोतवान् । 

राजतरङ्गिणीग्रन्थः 

            राजतरङ्गिणीग्रन्थो विशालकायोऽष्ट भिस्तरङ्गविभक्तो विद्यते । अत्र ग्रन्ये काव्यताया यावानंशो विद्यते तावानेवांश ऐतिहासिकताया अपि । कम्हण प्राचीनकालादारभ्य तत्समयपर्यन्तस्येतिहासं लिखितुं प्रयत्नं कृतवान् । तत्र तेनादिभागस्येतिहासस्य वर्णने तादृशी सफलता न प्राप्ता , यादृशी सफलता पश्चात्कालिकेतिहासस्य वर्णने प्राप्ता । 

           अस्य ग्रन्यस्येतिहासोपनिबन्धः विक्रमसंव पारम्भात् द्वादशशतकपूर्वकालभवस्य कस्यपन गोनन्दनामकस्य राज्ञ इतिहासात् प्रक्रमते । तस्य निर्देशः स्थूलदृष्टयैव कृतः नेतावदेव , प्रथमतरङ्गश्ये निर्दिष्टनां राज्ञामुल्लेखः कालनिर्देशरहित एव कृतः । सर्वतः प्रथमः निदिश्य माना तिथिः ८१३-८१४ ई ० मिता वर्तते । ततः कालात् ११५० ई ० पर्यन्तस्य घटनाः प्रामाणिकरूपेण वैज्ञानिकपद्धत्या निबद्धा विद्यन्ते ।

           अष्टमतरङ्गस्य घटनास्तु कविना भूयसांशेन साक्षात्कृत्य निबद्धा इति तासां सत्यता असन्दिग्धा । एतादृशा अप्येतिहासिका दृश्यन्ते श्रूयन्ते च ये स्वदेशस्य प्रतिष्ठा वर्धयितुं स्वीयदेशेऽवर्तमानानपि गुणान् वर्णयितुं न सकुचन्ति , परन्तु कल्हणः तादृशो नासीत् , स हि नितान्तनिष्पक्षपातया बुद्धधा इतिहास लिलेख , अत एव स आदावेव लिखति स्म --

' श्लाघ्यः स एव गुणवान रागद्वेषबहिष्कृता । 
भूतार्थकथने यस्य स्वेयस्येव सरस्वती ॥ 

            इमामेव धारणां प्रमापयितुं कल्हणः काश्मीरभवाना भीकताम् , मिथ्या भाषण प्रवृत्तिम् , सलामतः पलायनोन्मुखताम् , पक्षपातिताम् , क्षुद्रताम् मान सिकी दुर्बलताञ्च स्पष्ट निर्दिष्टवान् । 

            अनयेव वस्तुवृत्तानुसारितया कल्हणः स्वं ग्रन्थं भूतकालस्यादर्श विधातुं साफल्यमलभत । 

        कल्हणः स्वमैतिहासिकापेक्षया कविमधिकं मन्यते , यथा तेनैवोक्तम् --

' कोऽन्यः कालमतिकान्तं नेतुं प्रत्यक्षतां क्षमः । 
कविप्रजापतींस्त्यक्त्वा रम्यनिर्माणशालिनः ।। 

कल्हणस्य कविता नितान्तहृद्या , यथा --

' प्रजापुण्योदयेस्तीब्रेश्चिरात्तस्मिन् क्षयं गते । 
बकस्तत्प्रभवः पोरेः सदाचारोऽभ्यषिच्यत । 
तत्रापि पूर्वसंस्कारादुक्तत्रासं दधे जनः । 
श्मशानविहिते लीलावेश्मनीव नृपास्पदे ॥ 
अतिसन्तापदाज्जातः स जनालादकोऽभवत् । 
जलीयो जलदश्यामात्तपात्ययदिनादिव ।। 
लोकान्तरादिवायात मेने धर्म तदा जनः । 
अभयं च परावृत्त प्रवासाद् गहनादिव । '
            उपरिनिर्दिष्टश्लोकचतुष्टये कस्यचिदुष्टस्य राज्ञोऽवसाने सुचरितस्य तत्सुतस्य स्तुतिरुपनिवद्धा । एकस्य अवनिपालस्य शत्रुभिः पराजितस्य नगरं त्यक्त्वा वनगिरिप्रयाणं कीदृशेन् करुणेन सन्दर्भण वर्णयति कल्हण इति निम्नलिखितैः श्लोकै प्रकाश्यते --
' राज्याच्युतस्य बहुशः परिवाररामा 
कोशादि तस्य रिपवो व्रजतोऽपजह्नः । 
उर्वीरहो विगलितस्य नगेन्द्रशृङ्गा 
वल्लीफलादि रभसादिव गण्डौलाः ।। ' 
' रम्यः शैलापथैर्वजन्यमवयाच्छायां थितःशाखिना-
 मासीनप्रचलायितेन सुमहदुःख विसस्मार सः । 
दूरात्पाभरपूरकृतेः श्रुतिपथप्राप्तः प्रबुद्धस्त्वभूद् 
दृष्टो निझरवारिभिः सह मनःश्वभ्रे निमज्जन्निव । 
' नानावीस्तृणपरिमलरुग्रगन्धा वनोवा 
रम्भः क्षोदप्रतिहतशिलाः पिच्छिलाश्चाद्रिकुल्याः
 धान्तविसकिसलयच्छायमुग्धाङ्गलेखे 
रभ्युत्सङ्ग निहिततनुभिमूच्छितं तस्य दारैः ॥ 
पर्यन्ताद्रितटाद्विलोक्य सुचिरं दूरीभवन्मण्डलं 
द्रागामन्त्रयितुं जहत्सु नृपतेदरिषु पुष्पाञ्जलीन् । 
क्षोणीपृष्ठविकीर्णपक्षतिनमत्तुण्डं स्वनीडस्थितः 
सावेगं गिरिकन्दरासु पततां वृन्दैरपि क्रन्दितम् ॥ 
स्तनयुगतलनदस्यस्तमूर्धाशुकानां 
त्रिकवलनविलोलं वीक्ष्य दूरात् स्वदेशम् । 
अवहतमदतीनां मौलिविन्यस्तहस्तं 
पथि नृपवनितानामश्रुभिनिझराम्भः ।।
             अनेकभूपतीनामुत्थानपत्तने प्रत्यक्षं दृष्टवता कल्हणेन वीतरागेणेव राज्ञा वृत्तान्तमुपन्यस्तवता क्वचिदपि स्वाभिनिवेशो न दशितस्तेन चास्य ग्रन्थो नितान्तस्वाभाविकः समजायत । ऐतिहासिकवर्णनायां यावती काव्यात्मकता सम्भवति तावत्यनेनोत्पादिता । यदातोप्यधिकां काव्यात्मकतामुत्पादयितुमय मष्टिष्यत तदा बाणभट्टस्य हर्षचरितमिव विल्हणस्य विक्रमादेवचरिमिव च राजतरङ्गिभ्यपि प्रभूतकाव्या होनेतिहासिकभावा चाभविष्यत् । 
ईदृशाना काव्यग्रन्थानामुपयोगस्य विषयेऽयं स्वयमाह --
' भुजवनतरुच्छायां येषां निषेव्य महौजसां
जलधियाना भेदिन्यासीदसावकुतोभया । 
स्मृतिमपि न ते यान्ति क्षमापा विना बदनुग्रह 
प्रकृतिमहते कुसंस्तस्मै नमः कविकमणे ॥ 
( राजतरङ्गिणीख्यातिः ) 
                    राजतरङ्गिणी स्वीयैर्गुणैः परां प्रसिद्धि गता । नेतावदेव , काश्मीरदेशस्ये तिहासतयाऽप्यस्या आदरोऽनन्तरभाविभिनुपतिभिरपि कृतः । १४२१ तः १४७२ पर्यन्त काश्मीरान् शासितवता ' जैन उलआबीदोन ' नामकेन राजतरङ्गिण्याः पारसीकभाषानुवादः कारितः । सोऽयमनुवादः कठोरभाषायां चूत इति ' अकबरः ' प्रचलितभाषायां राजतरङ्गिण्या द्वितीयमनुवाद ' अलबदाऊली ' द्वारा कारितवान् । जहाँगीरस्य राजत्वकाले काश्मीरवासी ' हैदरमलिक ' नामक उच्च कुलोत्पन्नो विद्वान् राजतरङ्गिण्याः संक्षिप्तमनुवाद विहितवान् ।
                 १८३५ तमेशबीयवर्षे ' बंगाल - एशियाटिक सोसाइटी द्वाराऽस्याः प्रथम मुद्रणमक्रियत । 
                १८२२ तमेशवीयवर्षे ' डा ० स्टेन ' ( Dr. Stein ) महोदयेनेयं प्रकाशिता संस्कृतानूदिता च । 
                १ ९ ०० तमेशवीयवर्ष एव मुंबईस्यनिर्णयसागरमद्रणालयोऽपि मुद्रितमस्याः दुर्गाप्रसादविदुषा संस्कृतश्च रूपं प्राकाशयत् । 
                १ ९ ०५ तमेशवीयवर्षे रणजीतपण्डितमहाशयोऽस्याः प्रामाणिकमावल भाषानुवादं प्रकाशितवान् ।