संस्कृत ऐतिहासिक काव्य

संस्कृत ऐतिहासिक काव्य

            ऐतिहासिककाव्यानि संस्कृतभाषायां पौराणिकमाधारमादाय बहूनि काव्यानि रघुवंशदीनि प्रणीतानि । गद्यग्रन्थाः पौराणिक्या कथया नैव प्रणीताः , ऐतिहासिकं त्वाधार प्रकृत्य स्वल्पा एव ग्रन्थाः प्रणीताः । ये केचन ग्रन्थाः इतिहासाचारेण प्रक्रान्त रचनास्तेष्वपि भूयसा ऐतिहासिकतां विहाय काव्यात्मकतैव पुरस्कृता । अत ऐतिहासिककाव्यानां सङ्ख्याङ्गुलिगणनीयवास्ति , तान्येबैतिहासिककाव्यान्यत्र परिचाययितुमुपक्रम्यन्ते ।

संस्कृत ऐतिहासिक काव्य


 ऐतिहासिककाव्यप्रवृत्तिः 

प्राचीनभारतेतिहासस्य ज्ञापकतया पुराणानि प्रसिद्धान्येव । ब्रह्मणादिषु ग्रन्थेष्वपि गुरुशिष्यवंशोल्लेख ऐतिहासिकस्वरूपं धत्ते । बुद्धचरितमुपजीव्य रचितानि आख्यानानि भूयसांशेनेतिहासं वर्णयन्ति , तत्र सर्वमैतिहासिकमेव तथ्यमिति निश्चित्य वक्तुं न शक्यते । जैनसाहित्येऽपि इतिहासाशो विरलपाय एव । पट्टावलीषु जैनाचार्याणां नामावलीमतिरिच्य किमपि गभीरमैतिहासिक तथ्यं न प्राप्यते । वस्तुतस्तु शिलालेखप्रशस्तयो भारतीयेतिहासस्य प्रबलानि प्रमाणानि । तासु रमणीयकाव्यसरण्या कविभिः स्वाथयप्रदानां समकालिकानां नृपाणां स्तुतयो निबद्धा याभिः तात्कालिकभारतीयेतिहासे प्रचुरः प्रकाश अधीयते सम्प्रति कतिपयकवीनां तद्ग्रन्था चात्र प्रस्तूयते-

बाक्पतिराजस्य ' गउडवहो '

➡ पद्मगुप्तपरिमलस्य ' नवसाहसाङ्कचरितम् '

➡ विल्हणस्य ' विक्रमाङ्कदेवचरितम्

➡ कल्हणस्य राजतरङ्गिणी

 आचार्यहेमचन्द्रस्य ' कुमारपालचरितम्

➡ सोमेश्वरस्य ' कीत्तिकौमुदीकाव्यम्