पद्मगुप्तपरिमलस्य ' नवसाहसाङ्कचरितम् '

 पद्मगुप्तपरिमलस्य ' नवसाहसाङ्कचरितम् 

            संस्कृतभाषानिबद्धाषु ऐतिहासिककाव्येषु नवसाहसाचरितकाव्यस्य नाम प्रथमकाव्यरूपेण गण्यते । अत्र भोजराजपितुः सिन्धुराजस्य नवसाहसाङ्कोप पदकस्य शशिप्रभानामिकया राजकुमार्या सह विवाहस्य कथा प्राधान्येन वर्णिता अस्य ग्रन्थस्य रचना १००५ ई ० समये जातेति विदुषां निश्चयः।

            अस्य काव्यस्य द्वादशसु सर्गेषु सिन्धुराजपूर्ववत्तिना समस्तपरमारवस्य राजकन्यकानां कालक्रमानुसारि वर्णनं कृतम् । तस्य वर्णनस्य सत्यता च शिला लेखेः प्रमापिता विद्यते । 
            काव्यदृष्ट्या काव्यमिदं वैदर्भीरीतेरुत्कृष्टमुदाहरणं विद्यते । अत्र प्रसाद गुणस्य प्राकृतिकदृश्यवर्णनस्य च रमणीयता हृदयहारिणो विद्यते । 

पद्मगुप्तपरिमलस्य ' नवसाहसाङ्कचरितम् '



            अयं नवसाहसाङ्कचरितप्रणेता पद्मगुप्तः सिन्धुराजज्येष्ठनातुः राज्ञो मुञ्जस्य सभापण्डित आसीत् । मुजे परलोकं गते यावदसौ आत्मानं निराश्रयं भावयति तावदेव सिन्धुराजो मजुराजस्तं तथा बहू सत्कृतवान् तथा तत्सहायता कवितारूपेण स्फुटिता जाता । 
            अस्मिन् नवसाहसाङ्कचरितकाव्ये अष्टादश सर्गाः सन्ति । पद्मगुप्तोऽयं कालिदासस्य सफलोऽनुकर्ता मन्तुं शक्यते । कालिदासस्य रसमयीं पद्धति , सुकुमारं मागं चायं महता यत्नेन स्वकाव्येऽवतारयामास । कालिदासस्य प्रशंसायां प्रसङ्गान्तरेणायं लिखति 
' प्रसादहृयालङ्कारस्तेन मूतिरभूष्यत । 
अत्युज्ज्वलेः कवोन्द्रेण कालिदासेन वागिव ॥ '
 
इयमेव प्रशंसा वस्तुतस्तकवितायाः प्रशंसात्मना पर्यवस्यति ।