लोकहितं मम करणीयम् संस्कृत गीत
9/28/2020 11:39:01 pm
लोकहितं मम करणीयम् संस्कृत गीत :-
हिन्दोलरागः आदिताल :
मनसा सततं स्मरणीयम्
वचसा सततं वदनीयम्
लोकहितं मम करणीयम् ।। ।। लोकहितं ।।
न भोगभवने रमणीयम्
न च सुखशयने शयनीयम् ।
अहर्निशं जागरणीयम्
लोकहितं मम करणीयम् ॥ ॥ मनसा ।।
न जातु दुःखं गणनीयम्
न च निजसौख्यं मननीयम् ।
कार्यक्षेत्रे त्वरणीयम्
लोकहितं मम करणीयम् ॥ ॥ मनसा ।।
दुःखसागरे तरणीयम्
कष्टपर्वते चरणीयम् ।
विपत्तिविपिने भ्रमणीयम्
लोकहितं मम करणीयम् ॥ ।। मनसा ।।
गहनारण्ये घनान्धकारे
बन्धुजना ये स्थिता गह्वरे ।
तत्र मया सञ्चरणीयम्
लोकहितं मम करणीयम् ।। मनसा ।।
-डॉ . श्रीधर भास्कर वर्णेकर
सुन्दरसुरभाषा :-
आदिताल : शिवरञ्जनीरागः
मुनिवरविकसित - कविवरविलसित -
मञ्जुलञ्जूषा , सुन्दरसुरभाषा ।
अयि मातस्तव पोषणक्षमता
मम वचनातीता , सुन्दरसुरभाषा ।। मुनिवर ... ॥
वेदव्यास - वाल्मीकि - मुनीनाम्
कालिदास - बाणादिकवीनाम् ।
पौराणिक - सामान्य - जनानाम्
जीवनस्य आशा , सुन्दरसुरभाषा। ।। मुनिवर ... ॥
श्रुतिसुखनिनदे सकलप्रमोदे
स्मृतिहितवरदे सरसविनोदे ।
गति - मति - प्रेरक - काव्यविशारदे
तव संस्कृतिरेषा , सुन्दरसुरभाषा ।। मुनिवर ... ॥
नवरस - रुचिरालङ्कृति - धारा
वेदविषय - वेदान्त - विचारा ।
वैद्य - व्योम - शास्त्रादि - विहारा
विजयते धरायां , सुन्दरसुरभाषा ।। मुनिवर ...॥
- श्री नारायणभकट्ट:
स जयति जगति सनातनधर्म :-
मोहनरागः आदिताल :
स जयति जगति सनातनधर्मः
सत्यमिदं सत्यम् ।।
उपदेशः खलु यस्य मनोज्ञः
नित्यनवीनोऽयम् 55 ॥. ॥ सत्यमिदं सत्यम् ॥
निर्मलभक्त्या कर्मविशुद्घं
कुरुताविरतं फलमविचिन्त्य ।
अयमिह धर्मः रक्षत धर्म
रक्षति धर्मो हिऽऽ ॥ ।। सत्यमिदं ....॥
अर्चत विष्णु शङ्करमथवा
जिनमाचार्य बुद्धमथान्यम् ।
एको देवो नाम विभिन्नं
नास्ति विवादोऽत्र ऽऽ ॥ सत्यमिदं ....॥
अयमिह स्पृश्य : अयमस्पृश्य :
उच्चो ह्येक : नीचोऽप्यपरः ।
एवंरूप : भिन्नो भावः
कल्पित एवायम् 55 ।।सत्यमिदं ...॥
भूतलमेकं यत्र निवास :
कुलमप्येकं मनुकुलजानाम् ।
तस्मात्सर्वे भ्रातरो यूयं
मा विस्मरतेदम्ऽऽ ।। सत्यमिदं ...॥
जातिरभिन्ना नीतिरभिन्ना
लक्ष्यमभिन्न कार्यमभिन्नम् ।
तस्मात्सर्वे सङ्गच्छध्वं
सङ्के शक्तिरिहऽऽ ॥ सत्यमिदं ...॥
द्वेषं त्यक्त्वा भेदं हित्वा
लक्ष्यं सततं चेतसि कृत्वा ।
क्रियते कार्य यदि युष्माभिः
भविता सिद्धिरिहऽऽ ॥ सत्यमिदं ... ॥
धैर्ये रक्तिः कर्मणि सक्तिः
दैवे भक्तिः पापविरक्तिः ।
सर्वेषामपि भवभयतरणे
एषा युक्तिरिहऽऽ ॥ सत्यमिदं ...॥
मनसा सततं ध्यायत भद्रं
वचसा सततं निगदत भद्रम् ।
कृत्या सततं कुरुत च भद्रं
भवति हि वो भद्रंऽऽ ॥ सत्यमिदं ...॥
-श्री मञ्जुनाथशर्मा
भारतधरणीयं मामकजननीयम् :-
आदिताल : आभेरीरागः
भुवमवतीर्णा नाकस्पधिनी
भारतधरणीयं , मामकजननीयम् ।।
शिरसि हिमालय - मुकुट - विराजिता
पादे जलधिजलेन परिप्लुता
मध्ये गङ्गापरिसरपूता
भारतधरणीयं , मामकजननीयम् ।। ।। भुवमवतीर्णा ॥
काश्मीरेषु च वर्षति तुहिनम्
राजस्थाने प्रदहति पुलिनम्
मलयस्थाने वाति सुपवनः
भारतधरणीयं , मामकजननीयम् ॥ ॥ भुवमवतीर्णा ।।
नानाभाषि - जनाश्रय - दात्री
विविध - मतानां पोषणकत्रीँ
नानातीर्थ - क्षेत्रसवित्री
भारतधरणीयं , मामकजननीयम् ॥ ॥ भुवमवतीर्णा ॥
पुण्यवतामियमेव हि नाकः
पुण्यजनानां रुद्रपिनाक :
पुण्यपराणामाश्रयलोकः
भारतधरणीयं , मामकजननीयम् ॥ ॥ भुवमवतीर्णा ॥
-श्री जि . महाबलेश्वरभट्टः