रचयेम संस्कृतभवनम् संस्कृत गीत :-
ग्रामे नगरे समस्तराष्ट्रे
रचयेम संस्कृतभवनम्
इष्टिकां विना मृत्तिकां विना
केवलसम्भाषणविधया
संस्कृतसम्भाषणकलया ॥
शिशुबालानां स्मितमृदुवचने
युवयुवतीनां म भाषणे
वृद्धगुरूणां वत्सलहृदये
रचयेम संस्कृतभवनम्। ॥१ ॥
अरुणोदयत : सुप्रभातम्
शुभरात्रि निशि संवदेम
दिवानिशं संस्कृतवचनेन
रचयेम संस्कृतभवनम्। ॥ २ ॥
सोदर - सोदरी - भाव - बन्धुरं
मातृप्रेमतो बहुजनरुचिरं
वचनललितं श्रवणमधुरं
रचयेम संस्कृतभवनम्। ॥३ ॥
मूलशिला सम्भाषणमस्य
हिन्दुजनैक्यं शिखरमुन्नतम्
सोपानं श्रवणादिविधानम्
रचयेम संस्कृतभवनम् ॥ ४ ॥
-गु . गणपव्यहोळळ :
संस्कृतस्य सेवनम् :-
संस्कृतस्य सेवनं , संस्कृताय जीवनम् ।
लोकहितसमृद्धये भवतु तनुसमर्पणम् ॥
कार्यगौरवं स्मरन्
विघ्नवारिधि तरन्
लक्ष्यसिद्धिमक्षिसात् करोमि सोद्यमः स्वयम् ।
यावदेति संस्कृतं , प्रतिजनं गृहं गृहम्
तावदविरता गतिस्तावदनुपदं पदम् ॥१ ॥
कामये न सम्पदं
भोगसाधनं सुखम्
किञ्चिदन्यदाद्रिये विना न संस्कृतोन्नतिम् ।
गौरवास्पदं पदं , नेतुमद्य संस्कृतम्
बद्धकटिरयं जनो निधाय जीवनं पणम् ॥२ ॥
भाषिता च वागियं
भाषिता भवेद् ध्रुवम्
भाष्यमाणतां समेत्य राजतां पुनश्चिरम्
भरतभूमिभूषणं सर्ववाग्विभूषणम्
संस्कृतिप्रवाहकं संस्कृतं विराजताम् ॥ ३ ॥
-जनार्दन हेगडे
देहि केशव :-
देहि केशव देहि माधव
निर्मलचरित ! आशिषम् ॥
त्वत्पदविरचितसत्पथगमनं
चिरकासितमभिलाषम् ॥
मधुरा वाणी सदयं हदयं
वद मे कथमुपलब्धम् ॥
सुदृढा निष्ठा महती वृत्तिः
वद मे कथमुपलब्धा ॥
हिमवान् फाले जलधिः पादे
वद वै कथमभिदृष्टः ॥
वनमालाङ्ग मुनिभिदृष्टं
वद मे कथमभिदृष्टम् ॥
हिन्दुसमाज शिथिलं दृष्ट्वा
व्यथितं तावकहृदयम् ॥
मामकचित्ते तादृशभावः
भाति कदा गाढं गाढम् ॥
पावनसंस्कृतिगङ्गा प्रवहति
हिन्दोरिहाविरामम् ॥
कण इव तस्मिन् मामकविलयः
वद मे भवति कदा ?॥
अमृतस्य पुत्रा वयम् :-
अमृतस्य पुत्रा वयं
सबलं सदयं नो हृदयम् ॥
गतमितिहासं पुनरुन्नेतुं
युवसङ्घटनं नवमिह कर्तुम् ।।
भारतकीर्ति दिशि दिशि नेतुं
दृढसङ्कल्पा विपदि विजेतुम् ॥१ ॥
ऋषिसन्देशं जगति नयेम
सत्त्वशालिनो मनसि भवेम ।।
कष्टसमुद्रं सपदि तरेम
स्वीकृतकार्य न हि त्यजेम ॥ २ ॥
दीनजनानां दुःखविमुक्तिंं
महतां विषये निर्मलभक्तिम् ।।
सेवाकार्ये सन्ततशक्ति
सदा भजेम भगवति रक्तिम् ॥ ३ ॥
- गु . गणपय्यहोळळ :
वन्दे भारतमातरम् :-
वन्दे भारतमातरं वद , भारत ! वन्दे मातरम्
वन्दे मातरं , वन्दे मातरं , वन्दे मातरम् ॥
जन्मभूरियं वीरवराणां त्यागधनानां धीराणाम्
मातृभूमये लोकहिताय च नित्यसमर्पितचित्तानाम् ।
जितकोपानां कृतकृत्यानां वित्तं तृणवद् दृष्टवताम्
मातृसेवनादात्मजीवने सार्थकतामानीतवताम् ॥१ ॥
ग्रामे ग्रामे कर्मदेशिकास्तत्त्ववेदिनो धर्मरताः ।
अर्थसञ्चयस्त्यागहेतुको धर्मसम्मतः काम इह ।
नश्वरबुद्धिः * क्षणपरिवर्तिनि काये , आत्मन्यादरधीः
जातो यत्र हि स्वस्य जन्मना धन्यं मन्यत आत्मानम् ॥ २ ॥
मातस्त्वत्तो वित्तं चित्तं स्वत्वं प्रतिभा देहबलम्
नाहं कर्ता , कारयसि त्वं , निःस्पृहता मम कर्मफले । अर्पितमेतज्जीवनपुष्पं मातस्तव शुभपादतले
नान्यो मन्त्रो नान्यचिन्तनं नान्यद्देशहिताद्धि ऋते ॥ ३ ॥
- जनार्दन हेगडे
प्रभुणा प्रेषिता वयम् :-
विश्वमखिलमुद्धर्तुममी निर्मिता वयम् ।
मानवं समुद्धर्तुममी प्रेषिता वयम् ।
हरिणा निर्मिता वयम् ॥ध्रु ॥
सङ्कटाद्रिभिदुरं धैर्य धार्यमनिशमिदमिह कार्यम् ।
मातरं प्रतिष्ठां नेतुं तनुभृतो वयम् ।
प्रभुणा प्रेषिता वयम् ॥१ ॥
मातृभक्तिरेकं ध्येयं , तत्कृते शरीरं देयम् ।
क्षुद्रलालसापरिमुक्ताः सेवका वयम् ।
प्रभुणा प्रेषिता वयम् ॥२ ॥
जानते भरतभुवि लोकाः , आत्मतत्त्वमिह गतशोकाः ।
इत्यवेत्य जगदुद्धरणे योजिता वयम् ।
प्रभुणा प्रेषिता वयम् ॥३ ॥
ईश्वरः स्फुरति नः स्वान्ते अज्ञानान्धतमसस्यान्ते ।
तस्य कार्यमधुना कर्तुं सोद्यमा वयम् ।
प्रभुणा प्रेषिता वयम् ॥ ४ ॥
निश्चितं यशः परिपूर्ण लप्स्यतेऽत्र जन्मनि तूर्णम् ।
ईशकार्यकरणे निरताः सन्ततं वयम् ।
प्रभुणा प्रेषिता वयम् ॥५ ॥