Mahamahaniy medhavin... sanskrit svagat geet
वाह। .... सहिमे बहुत ही मधुर, सुन्दर, रोमांचक। .. 'महामहनीय मेधाविन् स्वागतगीतम्' हे। यह बहोत ही प्रख्यात और प्रचलित स्वागत गीत हे।
आइये इस अनोखे और अद्भुत आनंद दायक स्वागत गीत को निहारते हे |
महामहनीय मेधाविन् स्वागतगीतम् :-
महामहनीय मेधाविन्
त्वदीयं स्वागतं कुर्मः ।
गुरो गीर्वाणभाषायाः
त्वदीयं स्वागतं कुर्मः ।। ध्रु ॥
दिनं नो धन्यतममेतत्
इयं मङ्गलमयी वेला ।
वयं यद् बालका एते
त्वदीयं स्वागतं कुर्मः ॥ १ ॥
न काचिद् भावना भक्तिः
न काचित् साधना शक्तिः
परं श्रद्धासुमाञ्जलिभिः ।
त्वदीयं स्वागतं कुर्मः ॥ २ ॥
किमधिकं ब्रूमहे श्रीमन्
निवेदनमेतदेवैकम् ।
न बाला विस्मृति नेयाः
त्वदीयं स्वागतं कुर्मः ॥ ३ ॥
- वासुदेवद्विवेदी शास्त्री
वयं बालका एभारतभक्ताः
वयं बालका भारतभक्ताः
वयं बालिका भारतभक्ताः
वयं हि सर्वे भारतभक्ताः
पृथ्वी स्वर्ग जेतुं शक्ताः ॥ वयम् ।।
वयं सुधीराः वयं सुवीराः
हृष्टमानसाः पुष्टशरीराः
भूरि पठामो भूरि लिखामो
भवितास्मो जनहिते नियुक्ताः । वयम् ॥
जाति - धर्म - मत - भेदं त्यक्त्वा
भारतवर्षं पूज्यं मत्वा
भगवद्भावं हृदये धृत्वा
भारतसेवायामनुरक्ताः । वयम् ।।
- नरेन्द्रः
भवतु भारतम् :-
शक्तिसम्भृतं युक्तिसम्भृतं
शक्ति - युक्तिसम्भृतं भवतु भारतम् ।।
शस्वधारकंशास्त्रधारकं
शस्त्र - शास्त्रधारकं भवतु भारतम् ।।
रीतिसंस्कृतं नीतिसंस्कृतं
रीति - नीतिसंस्कृतं भवतु भारतम् ॥
कर्मनैष्ठिकं धर्मनैष्ठिकं
कर्म - धर्मनैष्ठिकं भवतु भारतम् ॥
भक्तिसाधकं मुक्तिसाधकं
भक्ति - मुक्तिसाधकं भवतु भारतम् ।।
व्रजामि राममन्दिरम् :-
व्रजामि राममन्दिरं नमामि पादपङ्कजम् ।
स्मरामि राममद्भुतं जपामि नाम मङ्गलम् ।।
पठामि वेदवाङ्मयं वदामि माधवस्तुतिम् ।
पिबामि तीर्थजं जलं सरामि साधुसङ्गतिम् ।।
वहामि माधवं हृदा सहायकं सदा सताम् ।
दहामि कामलोभज मनोमलं तपस्यया ॥
त्यजामि नश्वरं सुखं भजामि देवमीश्वरम् ।
सृजामि काव्यगीतिकां व्रजेशपादसेविकाम् ।।
जयामि दुर्जयानरीन् नयामि कालमुत्तमम् ।
लभे हि दिव्यसम्पदं प्रयामि पारमापदाम् ।।
-डॉ ० ए . एन् . वरखेडकर
विस्मृतभेदाः सन्तः :-
बेहाक्रागः चतुरस्त्रैकताल :
विस्मृतभेदाः सन्तो
निर्मलभावापन्नाः
एकीभावं हृदयारूढं सततं कुर्वन्तुऽऽ
भो भोः , सततं कुर्वन्तुः ।। ।। विस्मृत ... ।।
पूर्वज - मुनिजन - कविजन - वाञ्छा सर्वेषामैक्यं
सुखिनस्सर्वे सन्त्विति गानं तेषां बहुहृद्यम् ।
भाषा - धन - मत - जाति - विभेदः हृदये मा भवतु
दुःखित - दीन - जनानुन्नेतुं हस्ताः प्रसरन्तुऽऽ
भो भोः , हस्ताः प्रसरन्तुऽ ।। ।। विस्मृत ...॥
गङ्गा - तुङ्गा - कावेरी - जलमस्माकं मत्वा
कृतसङ्कल्पा : कार्य कर्तुम् आलस्यं हित्वा ।
सुवर्णपुष्पां पृथिवीमेतां क्रष्टुम् आयान्तु
प्रवहतु कामं स्वेदस्रोत : धैर्य मा जहतुऽऽ
भो भोः , धैर्य मा जहतुः ॥ ।। विस्मृत ..॥
घर्षण - लुण्ठन - वञ्चन - हननं प्रलयं संयातु
स्नेहस्रोतः प्रवहतु भ्रातुर्भावो हृदि लसतु ।
अनिलः सलिलम् अनल : सर्वं सर्वेषामेकम्
प्रवहति रक्तमभक्तं मातुः भेदो मा भवतुऽऽ
भो भोः , भेदो मा भवतु ॥ ॥ विस्मृत ... ॥
-श्री जि . महाबलेश्वरभट्टः
ध्येयपथिक साधकऽऽ :-
ध्येयपथिक साधकऽऽ कार्यपथे साधयऽऽ
मृदु हसन् मधुकिरन् मातरं सदा स्मरन् ।।
जीवनं न शाश्वतं , वैभवं न हि स्थिरम्
स्वार्थलेपनं विना , यत्कृतं हि तच्चिरम्
सरलता स्वजीवनेऽऽ
चिन्तने सदोच्चताऽऽ
समाजपोषिता वयं समाजपोषकाश्चिरम् ।।ध्येयपथिक ।।
यच्च मनसि चिन्त्यते , यच्च कीर्त्यते गिरा
तच्च मूर्तरूपताम् , एति नित्यजीवने
जनन्यनन्यचरणयो : 55
समर्पितस्वजीवना : ऽऽ
ध्येयसाधनव्रता वयं भवेम सङ्गताः ।। ध्येयपथिक ।।
स्मरत्विहाग्रजन्मनां , त्यागबलिसमर्पणम्
सिंहकुलसमुद्भवाः सिंहविक्रमा वयम्
सन्तु कष्टकोटयोऽऽ
भवतु विघ्नवर्षणंऽऽ
सकृत्प्रतिज्ञका वयं भजेम नो पलायनम् ।। ध्येयपथिक ।।
- श्री जनार्दन हेगडे