भारतमाता बुधजगीता - sanskrit song

भारतमाता बुधजनगीता संस्कृत गीत :-

Sanskrit song

भारतमाता बुधजनगीता
 निर्मलगङ्गाजलपूता ॥ 
शिरसि विराजित - हिमगिरिमुकुटम्
 चरणे हिन्दु - महोदधि - सलिलम् 
जघने सस्य - लता - तरु - वसनम् 
जय भारतजननी ॥१ ॥ 
ऋषिवर - घोषित - मन्त्र - पुलकिता
 कविवर - गुम्फित - पावन - चरिता 
धीर - वीर - नृप - शौर्य - पालिता 
जय भारतजननी ॥२ ॥ 
मम मनसि सदा तव पदयुगलम्
 संस्कृत - संस्कृति - सतत - चिन्तनम् 
भाव - राग - लय - ताल - मेलनम्
 जय भारतजननी ॥३ ॥

भूमिरियं बलिदानस्य :-

एत बालकाः दर्शयामि वस्तेजो हिन्दुस्थानस्य , 
तेजो भारतवर्षस्य । 
अस्य मृत्तिका शिरसा वन्द्या , भूमिरियं बलिदानस्य । 
वन्दे मातरं , वन्दे मातरम् ॥
 उत्तरभागे रक्षणकर्ता नगाधिराजो विख्यातः
 दक्षिणदेशे पदक्षालको महासागरः प्रख्यातः ।
 पश्यत गङ्गायमुनातीरं परं पावनं भूलोके 
स्थाने स्थाने यद् दिव्यत्वं नैव सुराणामपि नाके 
एकमेव तत् स्थानं चैतत् देवानामवतारस्य   ।। अस्य ।।
रजपूतानामेतत् स्थानं खड्गे येषाम् अभिमानः
 धर्मरक्षणे युद्धे मरणं यैर्मन्यते सम्मानः । 
अत्रैवासीत् प्रतापवीरो विश्वेऽस्मिन् यो बहुमान्यः 
शीलरक्षणे भस्मीभूताः अत्रासङ्ख्याः पद्मिन्यः 
रजः सुपूतं वीरपदाब्जैः स्थानं चैतद्देशस्य    ॥ अस्य ॥ 
वङ्गोऽयं यद्धरणीहरिता मनोहारिणी सर्वत्र
 निजराष्ट्रार्थं सिद्धा मरणे सन्ति बालका अप्यत्र
रामकृष्ण - गौराङ्ग - विवेकानन्द - प्रमुखाः यत्रासन् ।
 अरविन्दाद्याः क्रान्तिकारकाः शान्तिपूजकाः यत्रासन्
जन्मभूरियं ' नेताजे : ' प्रख्यातस्य सुभाषस्य      ॥ अस्य ॥ 
इयं दृश्यतां महाराष्ट्रभूः यत्र शिवाजी राजासीत्
 यस्य भवानीकरवालेन म्लेच्छानां संहारोऽभूत् 
स्थाने स्थाने पर्वतभागे सामर्थ्याग्निः प्रकटोऽभूत् 
घोषो ' हर हर महादेव ' इति बाले बाले प्राविरभूत् 
कृतं हि गौरवरक्षणकार्यं शिवेन हिन्दुस्थानस्य     ॥ अस्य ॥
 भक्तिमानयं दक्षिणदेशो गोदाकृष्णापरिपुष्टः
 गगनस्पधित - शिल्पकलान्वित - गोपुरभालैविभूषितः ।
 अत्र विद्यते सुजनस्थानं सीतापति - पदपरिपूतम् ।
 अत्र शङ्कराचार्या : वन्द्या : केरलभागे सम्भूताः 
विजयनगर - साम्राज्यमिहासीत् ख्यातं हिन्दूधर्मस्य   ॥ अस्य ॥

संस्कृतेन सम्भाषणं कुरु :-


 संस्कृतेन सम्भाषणं कुरुऽऽ , 
जीवनस्य परिवर्तनं कुरु
 यत्र यत्र गच्छसि पश्य तत्र संस्कृतं
 संस्कृतेः संरक्षणं कुरुऽऽ।।                 ।। संस्कृतेन ॥
 जीवनस्य लक्ष्यमस्ति किम् ? 
जीवनस्य लक्ष्यमेव संस्कृतस्य वर्धनम् । 
स्फूतिरस्ति , तत्र प्रीतिरस्ति 
स्फूतिरस्ति , प्रीतिरस्ति संस्कृतस्य वर्धने
 जिजीविषाम संस्कृताय रक्षयाम संस्कृतिंं
 समर्पयाम संस्कृताय जीवनम्  55     ॥ संस्कृतेन ॥ 
जागृयाम वयं प्रेरयाम
 जागृयाम प्रेरयाम सर्वहिन्दुसोदरान्
 सम्पिबाम वयं पाययाम
 सम्पिबाम पाययाम संस्कृतामृतं सदा । 
देशहितचिन्तनं विना यस्य जीवनम्
 व्यर्थमेव तस्य गीजीवनम्ऽऽ              || संस्कृतेन ॥ 
ऐक्यमस्तु अचलबुद्धिरस्तु 
ऐक्यमस्तु अचलतास्तु संस्कृताभिमानिनाम् । 
धीरतास्तु नैव भीतिरस्तु 
धीरतास्त्वभीतिरस्तु मास्तु उदासीनता
 मातृभूमिसेवनं दीनदलितरक्षणं
 संस्कृतप्रचार एव जीवनम्                            ॥ संस्कृतेन ॥
                          -श्री वेङ्कटरमणमुच्चिन्नायः

विधेयं संस्कृतरक्षणम् :-

संस्कृतस्य रक्षणाय बद्धपरिकरा वयम् ।
 संस्कृतेः प्रवर्धनाय दृढनिधिर्भवेदिदम् ।। 
संस्कृतस्य महिमवर्णनेन नास्ति साधितं 
सततसम्भाषणेन तस्य जीवनं स्थिरम् । 
जनमुखेन भाषितं ननु जगति जीवितं 
राजते चिरं समस्तराष्ट्रमान्यतास्पदम् ॥१ ॥ 
संस्कृतस्य सेवनं मातृसेवासमं
 तेन सम्भाषणं वाङ्मातृपूजनम् ।
 मातृभिः प्रवर्तनेन मातृभाषा परं 
सरलसम्भाषणेन लसति बालादृतम् ॥२ ॥ 
राजपोषणात् पुरा नीतमिदं वैभवं 
लोकशक्तिकेन्द्रितं स्थास्यतीह केवलम् ।
 शिक्षकास्तदर्थमेव त्यागशालिनः स्युः 
संस्कृतोज्जीवनाय प्राप्तजीवना ध्रुवम् ॥३ ॥ 
        - गु . गणपय्यहोळळ :

 केशवं स्मरामि सदा :-


 हिन्दुराष्ट्रसङ्घटकं सुजनवन्दनीयं 
केशवं स्मरामि सदा परमपूजनीयम् ।।
 राष्ट्रमिदं हिन्दूनां खलु सनातनम् 
विघटनया जातं चिरदास्यभाजनम्
 दुःखदैन्यपीडितमिति पीडितहृदयम् ॥             ।। केशवं ।। 
भगवद्ध्वज एव राष्ट्रगुरुरयं महान् 
देशोऽयं खलु देवो जगति महीयान् 
बोधयन्तमिति तत्त्वं सततस्मरणीयम् ।।      ।। केशवं ।। 
वीरव्रतमेव परं धर्मनिदानम् 
सुशीलमेव लोकेऽस्मिन् परमनिधानम्
 उपदिशन्तमिति सारं दृढमाचरणीयम् ।।        ॥ केशवं ॥ 
नेतुं निजराष्ट्रमिदं परमवैभवं 
नयत विलयमन्तर्गतसकलभेदभावम् । 
सङ्घमन्त्रमिति जपन्तमेकमेषणीयम् ।।       ।। केशवं ॥