राष्ट्रं जागरयाम वयम् संस्कृत गीत

 राष्ट्रं जागरयाम वयम् संस्कृत गीत :-

 
Rastram jagarayama vayam sanskrit song

संस्कृतचित्ताः भारतभक्ताः , राष्ट्रनवोदयकाङ्क्षिणः । 
सुदृढमनस्काः भासुरचरिताः , राष्ट्रं जागरयाम वयम् ।।.... (२ )
 मातृहिताय समग्रसमर्पित - पुण्यधनानां राष्ट्रमिदम् 
सत्यविनिष्ठितकर्मरतानां , धर्मपराणां भूमिरियम् । 
विश्वहितं मम जीवनसुखमिति , कलितवतां ननु देशोऽयम् 
इमामनन्तां नयाम सुहृदो , जवेन शाश्वतपरमपदम् ।।..... ( २ )
 सर्वे शान्तिमवाप्नुयुरिति नः , पूर्वजचिन्तनमतिशुभदम् 
स्नेहपुरस्सरजीवनमनिशं , स्यादिति तेषामभिलषितम् । 
वयमपि यत्नं विदध्महे , निजपूर्वजवाञ्छितपरिपूत्यै 
तदेकमस्मज्जीवनलक्ष्यं , मन्येमहि वयमनवरतम् ।। ...... ( २ )
 भवतु हि कण्टकमयमयनं नो , स्यादायतनं सुदुष्करम्
 भवतु समन्तात् विपदामयुतं , भवतु कदाचिन्नो मरणम् । 
तथापि न भवतु विचलनमिह नः , कदापि धाल्लक्ष्यपथात् 
विना विलम्बं प्राप्स्यामो वयम् , अस्मज्जीवनसाफल्यम् ॥...( २ )

कुरुत वीराः कर्मधीरा :-

कुरुत वीराः कर्मधीरा मातृपदयुगवन्दनम् । 
मातृवन्दनतो नितान्तम् आप्यतां परमं पदम् ॥
 किन्नु वो मृदु मञ्जुवदने दीनतापरिलाञ्छनम् । 
स्मरत यूयं वीरमुनिकुलसम्भवा नवपल्लवाः ॥१ ॥
 त्यजत दैन्यविषादभावं सर्वश्रेयोहारकम् । 
हरत सर्वजनान्तरङ्गं स्वीयविक्रमकर्मणा ॥२ ॥ 
चरत धर्मपथेन पूर्वजदर्शितेन सदा मुदा ।
 नयत विश्वगुरुत्वमचिरात् आर्षभारतमातरम् । 
पुनरार्षभारतमातरम् ॥३ ॥ 
- रणजित्

नैव क्लिष्टा न च कठिना :-

आदितालः यमनकल्याणीरागः
 सुरससुबोधा विश्वमनोज्ञा 
ललिता हृद्या रमणीया । 
अमृतवाणी संस्कृतभाषा 
नैव क्लिष्टा न च कठिना।              ॥ नैव क्लिष्टा ॥ 
कविकोकिल - वाल्मीकि - विरचिता 
रामायणरमणीयकथा ।
 अतीव - सरला मधुरमञ्जुला 
नैव क्लिष्टा न च कठिना            ॥ सुरस ... ॥
 व्यासविरचिता गणेशलिखिता
 महाभारते पुण्यकथा ।
 कौरव - पाण्डव - सङ्गरमथिता
 नैव क्लिष्टा न च कठिना            ।। सुरस ... ॥ 
कुरुक्षेत्र - समराङ्गण - गीता 
विश्ववन्दिता भगवद्गीता 
अमृतमधुरा कर्मदीपिका 
नैव क्लिष्टा न च कठिना।           ॥ सुरस ... ॥
 कविकुलगुरु - नव - रसोन्मेषजा
 ऋतु - रघु - कुमार - कविता ।
 विक्रम - शाकुन्तल - मालविका 
नैव क्लिष्टा न च कठिना              ।। सुरस ... ॥ 
                              - वसन्त गाडगीलः

राष्ट्रसेवनकार्यमेतद्. :-

 राष्ट्रसेवनकार्यमेतद् देवपूजनकार्यमेव । 
संस्कृताय हि कार्यकरणं नित्यजीवनभागभूतम् ॥
 शास्त्ररक्षणशिक्षणार्थं वेदवाङ्मयबोधनार्थम् 
दिव्यसंस्कृतिपोषणार्थं भव्यभारतवैभवार्थम्
 संस्कृतस्य तु सेवकोऽहं जीवनार्पणदीक्षितोऽहम् ॥१ ॥ 
लोकसङ्ग्रहपुण्यकार्यं साधयेयं कठिनतपसा
 सर्वजातिषु सामरस्य कारयेयं स्नेहवचसा 
सकलशक्तिं संस्कृतार्थं योजयेयं पूर्णमनसा ।।२ ।। 
 लोकचेतसि धर्मरागं स्वाभिमानं देशवासिषु 
आनयेयं सङ्घभावं प्रेमभावं कार्यकर्तृषु 
वर्धयेयं सहजस्नेहं कार्यपद्धतिमाश्रयेयम् ॥३ ॥ 
विश्वमखिलं प्रेरयेयं त्यागसंयुतजीवनाय 
प्रतिपदं ननुं चिन्तयेयं संस्कृतोन्नतिसाधनाय
 क्षणलवं खलु यापयेयं जगति धर्मस्थापनाय ॥४ ।।

एहि रे समर्पयेम :-

एहि रे समर्पयेम मित्र ! मातृचरणयोः 
तनुतृणं धनचयं , भवतु रुधिरतर्पणम् । 
किं नु पश्यसि त्वदीय - मातृ - वदन - म्लानतां
 किमु ह्रिया , त्यज भियं , विक्लवः किमर्पणे    ॥ एहि रे ॥ 
मलयमारुतस्त्वदीयस्वागतं विधास्यति 
सनातनी परम्परा प्रेरिका भविष्यति । 
भवेम धन्यजीविनः समानचिन्तका वयं 
चल पुरः , सह मया , समाश्रय ध्रुवां धृतिम्  ।। एहि रे ।। 
वीरसूः शूरभूः स्थैर्यधैर्यभूरियं 
सखे न भीरुभूरियं न भोगलालसास्पदम् । 
नरोऽप्यवाप्तुमर्हतीह देवतासमानतां
 स्मर चिरं , भर धियं , साधयेम विक्रमम्।  ।। एहि रे ॥ 
राष्ट्रमुद्धर्तुमेहि ध्येयसाधनव्रत ! 
मन्युरस्तु बलिपशुः कार्यदीक्षितो भव । 
धर्मसक्त कर्मनिष्ठ ऋषिकुलोद्भव सखे 
धर धुरं , दृढमते , याम ध्येयसिद्धये   ॥ एहि रे ॥ 
              - श्री जनार्दन हेगडे सामने