जय जय हे भगवति सुरभारति

 जय जय हे भगवति संस्कृत गीत :-

 
Jay jay he bhagavati surbharati sanskrit song


जय जय हे भगवति सुरभारति  
तव चरणौ प्रणमामः । 
नादब्रह्ममयि जय वागीश्वरि
 शरणं ते गच्छामः ॥ जय ॥
 त्वमसि शरण्या त्रिभुवनधन्या
 सुर - मुनि - वन्दित - चरणा
 नवरसमधुरा कवितामुखरा
 स्मित - रुचि - रुचिराभरणा ॥ जय ।।
 आसीना भव मानसहंसे 
कुन्द - तुहिन - शशि - धवले
 हर जडतां कुरु बोधिविकासं
 सित - पङ्कज - तनु - विमले ॥ जय ।। 
ललितकलामयि ज्ञानविभामयि 
वीणा - पुस्तक - धारिणि
 मतिरास्तां नो तव पदकमले
 अयि कुण्ठाविषहारिणि ॥ जय ॥

नमो भगवति ! :-

 नमो भगवति ! हे सरस्वति !
 वन्दे तव पदयुगलम् ॥ 
विद्यां बुद्धि वितनु भारति 
चित्तं कारय मम विमलम् ॥ 
वीणावादिनि शुभमतिदायिनि 
पुस्तकहस्ते देवनुते । 
वर्णज्ञानं सकलनिदानं
 सन्निहितं कुरु मम चित्ते      ।। नमो ॥ 
हंसवाहिनि ब्रह्मवादिनि 
करुणापूर्णा भव वरदे ।
 मञ्जुलहासिनि नाट्यविलासिनि 
लास्यं कुरु मम रसनाग्रे   ॥ नमो ॥ 
        - गु , गणपय्यहोळळः

चमूः प्रवृत्ता संस्कृतबन्धूनाम् :-

चमूः प्रवृत्ता संस्कृतबन्धूनाम् 
संस्कृतयष्टिधरा संस्कृतिधुरन्धरा ।। 
न ताडयति कायं न भेदयति हृदयम् ।
 निर्मलमनसा संस्कृतवचसा विकासयति चित्तम् ॥१ ॥
 ग्रामे नगरे सञ्चरति संस्कृतशिबिरं निर्माति ।
 सम्भाषण - जागति - हेतुना पुरो नयति राष्ट्रम् ॥२ ॥
 बाला वृद्धा गृहिणी गृहिणो विहाय जातिवयोभेदम् । 
प्रसार्य लक्षायुतबाहून् रक्षति संस्कृतजननीम् ॥ ३ ॥ 
- गु . गणपय्यहोळळ :

पाठयेम संस्कृतं ... :-

पाठयेम संस्कृतं जगति सर्वमानवान् । 
प्रापयेम भारतं सपदि परमवैभवम् ।। अनु .॥ 
व्यक्तियोजकत्वमेव नायकत्वलक्षणम् 
धर्मसेवकत्वमेव शास्त्रतत्त्वचिन्तनम्
 स्नेह - शक्ति - शील - शौर्य - देशभक्ति - भूषितम् 
साधयेम शीघ्रमेव कार्यकर्तृमण्डलम् ॥१ ॥ 
हिन्दुबन्धुमेलनेन सर्वदोषनाशनम् 
उच्चनीचजातिराज्य - भेदभाववारणम् 
सामरस्यरक्षणेन शान्तिपूर्णजीवनम् 
कालयोग्यमेतदेव मोक्षदायिदर्शनम् ॥ २ ॥ 
जीवनस्य कार्यमेव राष्ट्रकर्मसाधना
 सङ्घशक्तिवर्धनाय दिव्यभव्ययोजना 
व्यक्तिरस्तु वर्तिकेति मामकीनभावना
 साधितास्तु माधवस्य विश्वविजयकामना ॥ ३ ॥

प्रबुद्धात्मन् गाय गीतं :-

प्रबुद्धात्मन् गाय गीतं राष्ट्रभक्तिनिबोधकम्
 श्रावयन् जागरय लोकं निश्चलं जडतावृतम् 
राष्ट्रमेतद् राजता , संवर्धतामभिवर्धताम् 
विश्वगुरुरिति मानितं सज्जगति सकले शोभताम् ।।
 धवलचरितं स्फटिकविमलं राष्ट्रमिदमतिविश्रुतम् 
इतश्चोत्था तत्त्वगङ्गा जगदपावयदनुदिनम् 
यो हि विज्ञानादिविविधज्ञानदक्षो गुरुरभूत् 
देश एष स्तूयतां , निध्यायतां पुनरर्च्यताम् ॥१ ॥विश्वगुरु ... 
मोहमायाजालतन्तून् छिन्धि सुज्ञानासिना
 क्रोधकामान् मत्सरादीन् मर्दय त्वं निर्दयम् 
आत्मबलमासाद्य दृढतामेत्य याहि निरन्तरम् मातृभूस्समुपास्यतां , 
सा संस्कृता गीस्सेव्यताम् ॥ २॥ विश्वगुरु ...
 सर्वलोकहितैषिता समचित्तता भवतो भवेत् 
अन्तरायान् ध्वंसयन् त्वं दोर्बलं सञ्चिनु महत् 
धर्मनिष्ठः कर्मनिरतो जनहितं कुरु सन्ततम्
 परहितं सञ्चिन्त्यतां , ननु दीनजनता सेव्यताम् ॥ ३॥ विश्वगुरु ...

भारतभूषा संस्कृतभाषा :-

भारतभूषा संस्कृतभाषा विलसतु हृदये हृदये । 
संस्कृतिरक्षा राष्ट्रसमृद्धिः भवतु हि भारतदेशे ॥ ध्रु ॥
 श्रद्धा महती निष्ठा सुदृढा स्यान्नः कार्यरतानाम् । 
स्वच्छा वृत्तिर्नव उत्साहो यत्नो विना विरामम् ।। 
न हि विच्छित्तिश्चित्तविकारः पदं निदध्मः सततम् ।
 सत्यपि कष्टे विपदि कदापि वयं न यामो विरतिम् ॥१ ॥ 
श्वासे श्वासे रोमसु धमनिषु संस्कृतवीणाक्वणनम् । 
चेतो वाणी प्राणाः कायः संस्कृतहिताय नियतम् ।। 
श्वसिमि प्राणिमि संस्कृतवृद्ध्यै नमामि संस्कृतवाणीम् । 
पुष्टिस्तुष्टिस्संस्कृतवाक्तः तस्मादृते न किञ्चित् ।। २ ।।
 नाहं याचे हारं मानं न चापि गौरववृद्धिम् । 
नो सत्कारं वित्तं पदवीं भौतिकलाभं कञ्चित् ।। 
यस्मिन् दिवसे संस्कृतभाषा विलसेज्जगति समग्रे । 
भव्यं तन्महदद्भुतदृश्यं काझे वीक्षितुमाशु ॥३ ॥ 
- जनार्दन हेगडे

जीवनस्य लक्ष्यमेव :-

 जीवनस्य लक्ष्यमेव लोकसेवनव्रतम् 
सेवया हि जोवनं सार्थकं फलान्वितम् ।।
 अन्धकारजीवने दीपमुद्दीपयाम 
क्लेशबहुलवीथिका कण्टकान्युत्खनाम 
त्रस्तदीनबान्धवान् हस्तलम्बमुन्नयाम
 न्यूनता यत्र यत्र तत्र सत्वरं हि याम ॥१ ॥ 
प्रतिजनं प्रतिपदं ध्येयमारोपयाम
 श्रद्धया विशुद्धया दीनदेवमर्चयाम 
स्वार्थभावनां विना सर्वमपि समर्पयाम 
  जनहितं वरप्रदं हृदि चिरं स्थापयाम ॥२ ॥ 
लोकसेवनं ध्रुवं दैवसमाराधनम् 
दीनबन्धुसेवनान्नास्ति परं पुण्यदम् 
कार्यतत्परा वयं साधयाम दिग्जयम् 
वर्धतां समेधताम् ऋद्धिमद्धि भारतम् ॥ ३ ॥

विश्वविजयकामना :-

पाठयेम संस्कृतं जगति सर्वमानवान् ।
 प्रापयेम भारतं सपदि परमवैभवम् ।।
 व्यक्तियोजकत्वमेव नायकत्वलक्षणम् 
धर्मसेवकत्वमेव शास्त्रतत्त्वचिन्तनम्
 स्नेह - शक्ति - शील - शौर्य - देशभक्ति - भूषितम्
 साधयेम शीघ्रमेव कार्यकर्तृमण्डलम् ॥१ ॥   ॥ पाठयेम ।।
 हिन्दुबन्धुमेलनेन सर्वदोषनाशनम् 
उच्चनीचजातिराज्य - भेदभाववारणम् 
सामरस्यरक्षणेन शान्तिपूर्णजीवनम् 
कालयोग्यमेतदेव मोक्षदायिदर्शनम् ॥२ ।।    ।। पाठयेम ।। जीवनस्य कार्यमेव राष्ट्रकर्मसाधना 
सङ्घशक्तिवर्धनाय दिव्यभव्ययोजना 
व्यक्तिरस्तु वर्तिकेति मामकीनभावना
 साधितास्तु माधवस्य विश्वविजयकामना ॥३ ॥   ॥ पाठयेम ।।