विल्हणः स्वकृते विक्रमाङ्कदेवचरिते नाम महाकाव्ये अन्तिमेष्वादशसर्ग स्वीयं चरितं विस्तरेणोपनिबद्धवान् , ततोऽवगम्यते यद् अस्य कवेः प्रपितामहः मुक्तिकलशः , पितामहः राजकलशः , पिता च ज्येष्ठकला इति नामभिः समाख्या यन्त । अस्य भ्रातरौ इष्टरायः आनन्दश्चेति द्वौ आस्ताम् । माता चास्य नागदेवो । काश्मीरदेशश्चास्य जन्मभूमिः । आश्रयदातार कमपि गुणिनं राजा नमन्विष्यन्नयं मथुरा - कान्यकुब्ज - प्रयाग - कासी - धारादीनि स्थानानि गया दक्षिणभारतस्थितं कल्याणनगर प्राप्तवान् यत्र तदा चालुक्यवंश्यः प्रसिद्धो राजा विक्रमादित्यः षष्ठः शासनं करोति स्म ।
भोजो धारानरेशो नानेन दृष्टो यदाऽयं धारामावातों यताऽस्य धारागमनात् पूर्वमेव स दिवं गतवानासीत् । विक्रमादित्यषष्ठस्य कालः १०७६ तः ११२७ ई ० पर्यन्तं मन्यतेऽतोस्य कवेः समयः एकादशशतकोत्तरभागो द्वादशशतकस्यादिभागश्च निश्चीयते ।
विक्रमाङ्कदेवरितगामके काव्येऽष्टादशसर्गाः सन्ति । चालुक्यवंशस्थ विक्रमादित्यषष्ठस्य जीवनचरितं प्रसङ्गतस्तत्पूर्वजानां च चरितं निबद्ध विद्यते । ऐतिहासिकपटनानां निर्देशे विल्हणस्तथा सावधानोऽवत्तंत यथा चालुक्यवंश्यस्येतिहासोऽत्र स्फुटावभासतां गतः । अत्र काव्ये कविना वैदर्भमार्ग स्यानुसरणं कुर्वतां माधुर्यस्य प्रसादस्य च प्रयोगे प्रचुरं प्रयतितम् । वीररसस्य प्राधान्येऽपि शृङ्गारादिरसस्तदङ्गतया निपुणं निबद्धः ।
कविताया दृष्टान्ततया कतिचन श्लोका अत्रोधियन्ते --
' कर्णामृत सूक्तिरसं विमुच्य दोषे प्रयत्नः सुमहान् खलस्य ।
निरीक्षते केलिवनं प्रविष्टः क्रमेलकः कण्टकजालमेव । '
' साहित्यपायोनिधिमन्यनोत्यं कर्णामृतं रक्षत हे कवीन्द्राः ।
यदस्य येत्या इव लुण्ठनाय काय्यार्थचौराः प्रगुणीभवन्ति ॥ "
' गृहन्तु सर्वे यदि वा यथेष्टं नास्ति क्षतिः कापि कवीश्वराणाम् ।
रत्नेषु लुप्तेषु बहुवमत्यरद्यापि रत्नाकर एव सिन्धुः ।। '
' कुण्ठत्वमायाति गुणः कवीनां साहित्यविद्या श्रमजितेषु ।
कुर्यादनाद्वेषु किमङ्गनानां केशेषु कृष्णागुरुधूपवासाः ।। "
' प्रौडिप्रकर्षेण पुराणरोतिव्यतिक्रमः श्लाध्यतमः कवीनाम् ।
अत्युन्नतिस्फोटितकञ्चुकानि वन्द्यानि कान्ताकुचमण्डलानि । '
कालिदासेन यथा रघुवंशे इन्दुमतोस्वयंवरवर्णनं कृतं तथैव विल्हणेनापि स्वयंवरस्य वर्णनं कृतम् ।
कालिदासेन यत्र --
' तां प्रत्यभिव्यक्तमनोरथानां महोपतोनां प्रणयाबदत्यः ।
प्रवालशोभा इव पादपानां शृङ्गारचेष्टा विविधा बभूवुः ॥
इत्युक्तं , तत्र विल्हणेन
' तदोयवश्वेन्दुविलोकनेन सान्द्रोल्लसद्रागपयोनिधोनाम् ।
तत्रागतानां पृथ्वोपतीनामासन् विचित्राणि विचेष्टितानि । '
इत्यमुक्तम् । यत्र कालिदासः
' सच्चारिणी दीपशिखेव रात्री यं यं व्यतीयाय पतिवरा सा ।
नरेन्द्रमााट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ '
इति वर्णयति , तत्र विल्हॅणः
' मध्येन येषां वसुधापतीनां जगाम सा कामवशीकृतानाम् ।
स्वयंवरमग्रजसेव पूर्णास्तेषां दृशः साश्रुजला बभूवुः ॥ '
एतादृशीनां समतानां दर्शनेन सुखमवगन्तुं शक्यते , यद् विल्हणेन कालि दासकाव्यानि निपुणमनुशील्यैव स्वीयं काव्यं निर्मितम् ।