महाकवि शिवस्वामी का सम्पूर्ण परिचय
11/09/2021 03:59:00 pm
महाकवि शिवस्वामी का सम्पूर्ण परिचय हिंदी व संस्कृत में
कप्फनाभ्युदय ' नामकबौद्धकाव्यप्रणेता शिवस्वामी नाम महाकविः कश्मी रानलंकृतवान् । तस्य समयः ८१-८-८८५ ई ० राज्यं कुर्वतोऽवन्तिवर्मणः सभा पण्डिततया नवमशतकम् --
' मुक्ताकणः शिवस्वामो कविरानन्दवर्धनः ।
प्रथां रत्नाकरश्चागात्साम्राज्येऽवन्तिवर्मणः ।। ' ( राजतरङ्गिणी )
शैवमतावलम्बी सन्नपि चन्द्र मित्रनामकबौद्धसन्न्यासिनोऽनुरोधेनायं पूर्वोक्तं महाकाव्यं निरमात् । वाग्देवतावतारः काव्यप्रकाशकारोऽस्मात् काव्यात्
उल्लास्यकालकरखालमहाम्बुवाहम् ' इत्यादि पद्य ध्वन्युदाहरणप्रस्तावे समुद्धृत वानतोऽस्य महती प्रसिद्धिरासीदिति सुखमनुमातुं शक्यते ।
बौद्धसाहित्ये कप्फनस्याबदानं प्रसिद्धम् , कष्फनो दक्षिणदेशस्थलीलावतो . नगर्याः शासक आसीत् । स हि श्रावस्तीशासकं प्रसेनजितं जिगाय । प्रसेनजिता घ्यातो बुद्धः प्रकटोभूय कप्फनं विजितवान् । अन्ते कप्फनो बुद्धं शरणं प्रपन्नः कृतकृतत्यतामापत् । इतोयती एव कथा शिवस्वामिना विशतिसर्गणिता इमामेव कथां रञ्जयितुं तेन मलयपर्वतर्तुंकुसुमावचयजलक्रीडासूर्यास्तचन्द्रोदय मदिरापानानि विस्तरेण वणितानि । तस्य बहुकथाज्ञत्व - चित्रकवित्व - यमक कवित्व - सरसकाव्यनिर्माणक्षमत्वानि तेन स्वयमुक्तानि --
' विदितबहुकथार्थश्चित्रकाव्योपदेष्टा यमककविरगम्यश्चारुसन्दानमानी ।अनुकृतरघुकारोऽभ्यस्तमेण्ठप्रचारो जयति कविरुदारो दण्डिदण्डः शिवाङ्कः । '
कालिदासस्य माघस्य रत्नाकरस्य काव्यानि चानेन निपुणं परिशीलितानि इति दृश्यते तदीयकवितायाम् --
' वेणीषु मूर्छामिव सम्प्रयाताः कपोलयोर्लीनमिवादधानाः ।स्मितेष्विवोच्छ्वासमिवोद्वहन्तो विलासिनीः शिश्लिषुरिन्दुपादाः ।।' धृतसन्धिरसौ विचित्रवृत्तिर्विदधानः स्फुटशुद्धपात्रयोगम् ।मधुवारविधिः सनायकाङ्को ववृषे नाटकवन्नितम्बिनीनाम् ॥ '' विनयं विनयन् स्मितानि पुष्णन् नयनानि भ्रमयन् वचांसि धुन्वम् ।मुखराणि विभूषितानि कुर्वन् वरवेषो ववृधे मदो वधूनाम् ॥ '
मुहुरविशदा विसम्भाा मुहुःस्मृतमन्यवो
मुहुरसरलाः प्रेमप्रह्वा मुहुर्म हुरस्थिराः ।
वितथशपथोपालम्भाज्ञा मुहुर्मधुरा
परिववृधिरे निष्पर्यन्ता मिथो मिथुनोक्तयः ।।