क्षेमेन्द्र का सम्पूर्ण परिचय

क्षेमेन्द्र का सम्पूर्ण परिचय हिंदी व संकृत में:-

            व्यासदासापरनामा क्षेमेन्द्रः प्रकाशेन्द्रस्य पुत्रः सिन्धोः पौत्रः कश्मीरदेश वासी चासीत् । क्षेमेन्द्रस्य पिता प्रकाशेन्द्रः ब्राह्मणानां संरक्षक आसीत् । प्रथम मसौ शैव आसीत्परन्तु पश्चात् , सोमाचार्यप्रभावात् वैष्णवः समजायत । शास्त्रगुरुस्तस्याभिनवगुप्तः ।काश्मीरराजस्य अनन्तस्य सभापण्डितः क्षेमेन्द्रः , अनन्तस्य शासनकालः १०२७ ईशवीतः १०६४ ई ० पर्यन्तम् । अतः क्षेमेन्द्रस्य समयः एकादशशतकमिति निश्चित्य वक्तुं शक्यते । 

क्षेमेन्द्र का सम्पूर्ण परिचय हिंदी व संकृत में


             अनन्तस्य शासनकाले असन्तोष - षड्यन्त्र नैराश्य - रक्तपातानां बाहुल्यमा सीदतः कोमलकवितायाः कृते तद्युगमयुक्तमासीत् , तथापि क्षेमेन्द्रः स्वदेशवा सिनः सत्पथमानेतुं प्रयस्यन्निव बहूनुपदेशप्रचुरान् ग्रन्थान्निबंबन्ध ।

क्षेमेन्द्रस्य कृतयः 

            क्षेमेन्द्रेण शशिवंशमहाकाव्यम् , अमृतरङ्गकाव्यम् , अवसरसारः , मुक्तावली , लावण्यवती , देशोपदेशः , पवनपञ्चाशिका , पाकादम्बरी ( एते नाममात्रशेषाः ) , अवदानकल्पलता , नीतिकल्पतरुः , लोकप्रकाशकोशः , सेव्यसेवकोपदेशः , विनय वल्ली , दर्पदलनम् , कविकण्ठाभरणम् , रामायणमञ्जरी , भारतमञ्जरी , बृहत्क थामञ्जरी , समयमातृका , दशावतारचरितम् ( एते श्रुयन्ते प्राप्यन्ते च ) एते ग्रन्था रचिताः । 
            क्षेमेन्द्रस्य अवदानकल्पलता सार्धशतवर्षाभ्यन्तर एवं तिब्बतभाषाऽनुवा दावसरं लेभे इति क्षेमेन्द्रस्य धार्मिकोदारतायाः सुन्दरकाव्यशैल्याश्च प्रबलं प्रमाणं |  दशावतारचरितन्नाम महाकाव्यं क्षेमेन्द्रस्यान्तिमा मधुरतमा च कृतिः । अस्मिन् स्वतन्त्र महाप्रौढे च महाकाव्ये विष्णोर्दशावताराः रोचकशैल्या वर्णिताः । क्षेमेन्द्रस्य भाषा मधुरा , सरसा सुबोधा चासीत् । उदाहरण मेकं यथा ' दयितजनवियोगोद्वेगरोगातुराणां विभवविरहदैन्यम्लायमानाननानाम् । शमयति शितशल्यं हन्त नैराश्यनश्यद्भवपरिभवतान्तिः शान्तिरन्ते वनान्ते ।। '