Sanskrit natak | संस्कृतसैन्यम् । संस्कृत नाटक।
Sanskrit drama written script
( काचित् उपविश्य रुदती अस्ति । बालः प्रविशति । )
बालः - ( दृष्ट्वा , स्वगतम् ) अहो , काचित् माता रोदनं कुर्वती अस्ति । किमर्थं स्यात् ? अथवा तामेव पृच्छामि । ( समीपं गत्वा ) अम्ब ! का भवती ? किमर्थ रोदनं करोति ?
माता :- वत्स ! मां न जानासि ? अहमस्मि संस्कृतमाता ।
बालः - अहो , संस्कृतमाता वा ! वदतु , भवती किमर्थं रोदिति ?
वत्स ! किमिति वदामि मम दुरवस्थाम् ! यस्यां भूमौ मम जन्म अभवत् , यत्र च वेद - पुराण - उपनिषदः विलसन्ति , यस्मिन् देशे व्यास - वाल्मीकि - कालिदासादयः महाकवयः विराजन्ते तत्रैव जना मां विस्मृतवन्तः ।
बाल : - हन्त !
माता :- हूं.... मम कष्टं किमिति वदानि ? कोऽपि मम साहाय्यं न करोति
बालः - अम्ब । रोदनं मा करोतु । अहं भवत्याः साहाय्यं करोमि ।
माता :- वत्स ! त्वं तु लघुबालः । त्वम् एकाकी किं करोषि ? बालः - अहं बालः सत्यम् । किन्तु अहम् एकाकी नास्मि अम्ब ! मम सैन्यमेव अस्ति ।
माता :- तव सैन्यम् ? किं तत् सैन्यम् ?
बालः - तदस्ति संस्कृतसैन्यम् । पश्यतु । ( नेपथ्याभिमुखं दृष्ट्वा ) आगच्छन्तु आगच्छन्तु । ( अन्येऽपि बाला आगच्छति । )
सर्वे बालाः - ( नृत्यन्तः गीतं गायन्ति । )
सैन्यमिदं सैन्यं संस्कृतसैन्यमिदं सैन्यम् ।
मार्यमहो कार्य संस्कृतकार्यमहो कार्यम् ।।
न धारयति शस्त्रं न कारयति युद्धम् ।
विनापि शस्त्रं विनैव युद्धं जयति जगत्सर्वम् ।। 1 ।। प्रतिजनपदमेति ग्रामे ग्रामे संचरति ।
ग्रामे नगरे प्रतिजनहृदये प्रसारयति ध्येयम् ।।2 ।।
संस्कृतमिह नयति संस्कृतिस्यन्दनमपि वहति ।
संस्कृत - संस्कृतिसंगमनेन समरसतां तनुते ।।3 ।।
न किञ्चिदपि दैन्यं नहि नहि कदापि प्रतिगमनम् । प्रचण्डतरविश्वासपराणां लक्ष्यमुखं गमनम् ।।4 ।।
( संस्कृतमाता अपि तैः सह नृत्यति । सर्वे नृत्यन्तः निर्गच्छन्ति । )
Hindi natak । संस्कृत सेना । हिंदी नाटक
( कोई स्त्री बैठ कर आंसू बहा रही होती है , एक बालक प्रवेश करता है।)
बालक :- (स्त्री को देख कर, मन में सोचता है) अरे , कोई माता रो रही है । किस लिए?? अथवा उनसे ही पुछता हु। (समीप जाकर) माता ! कौन है आप ? क्यों रो रही है ?
माता :- पुत्र ! मुझे नहीं जानते ? मैं संस्कृतमाता हु ।
बालक :- अरे ! संस्कृतमाता ! बोलिये , आप क्यों रो रही थी ?
माता :- पुत्र ! क्या बताउं मेरी दूरवस्था । जिस भूमि पर मेरा जन्म हुआ , जहा वेद-पुराण-उपनिषद प्रस्तुत है , जिस देश मे व्यास-वाल्मीकि-कालिदास आदि महाकवि विराजित है वही पर लोग मुजे भूल गए है ।
बालक :- हन्त!
माता :- हूं... मुजे कष्ट क्या है बताऊ ? कोईभी मेरी सहायता नही करता ।
बालक :- माता! रुदन न करो । मैं आपकी सहायता करूँगा।
माता :- पुत्र ! तुम तो छोटे बालक हो । तुम अकेले क्या करोगे ?
बालक :- मैं बालक हु सच है । पर मै अकेला नहीं हु माता । मेरी सेना है
माता :- तुम्हारी सेना । केसी सेना ?
बालक :- देखिए, वह रही मेरी सेना । ( नेपथ्य गृह की ओर देख कर ) आ जाओ सब , आ जाओ । ( अन्य बालक भी आते है )
सभी बालक :- ( नृत्य करते हुए गीत गाते हैं)
सैन्यमिदं सैन्यं संस्कृतसैन्यमिदं सैन्यम् ।
मार्यमहो कार्य संस्कृतकार्यमहो कार्यम् ।।
न धारयति शस्त्रं न कारयति युद्धम् ।
विनापि शस्त्रं विनैव युद्धं जयति जगत्सर्वम् ।। 1 ।। प्रतिजनपदमेति ग्रामे ग्रामे संचरति ।
ग्रामे नगरे प्रतिजनहृदये प्रसारयति ध्येयम् ।।2 ।।
संस्कृतमिह नयति संस्कृतिस्यन्दनमपि वहति ।
संस्कृत - संस्कृतिसंगमनेन समरसतां तनुते ।।3 ।।
न किञ्चिदपि दैन्यं नहि नहि कदापि प्रतिगमनम् । प्रचण्डतरविश्वासपराणां लक्ष्यमुखं गमनम् ।।4 ।।
(संस्कृत माता भी बच्चों के साथ नृत्य करने लगती है , सभी नृत्य करते करते चले जाते है।)