🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

Nay tav balam sanskrit geet

Nay tav balam sanskrit geet

Nay tav balam sanskrit geet 

  'नय तव बालम्' यह एक बाल गीत है । यहा पर बाल कृष्ण की लीलाओं का वर्णन कीया हुआ है । बाल कृष्ण के नटखट कार्यो को यहा सुन्दर बालगीत के स्वरूप में प्रस्तुत किया गया है।

Nay tav balam sanskrit geet


आईये ईस अद्भुत 'Nay tav balam sanskrit geet' बाल गीत का रसास्वादन करे .... 

 नय तव बालम् गीतम् :-


 नय तव बालमिमं । यशोदे ।
चेष्टितमस्य सोढुमशक्यम् ॥नय तव ॥
 विशति स मन्दं विजनं गेहं ।
 चलति बिडालसमं । कृष्णः ॥ 
दधिनवनीतं घृतमवशेषं
 हरति कलशपूर्णम् । चोरः ॥ नय तव ॥ 
जलमानेतुं कूपगतानां
 चरणं वारयति । स्त्रीणाम् ॥ 
स्नानपराणां कुलयुवतीनां 
वसनं चोरयति । कृष्ण : । नय तव ।। 
गोव्रजमध्ये नटनमनोजं वेणुं वादयति । मृदुलं ॥
 वत्सं कृत्वा रज्जुविहीनं
 क्षीरं पाययति । धेनोः ।। नय तव ॥
           
           - गु . गणपव्यहोळळ

 पुत्री मम खलु निद्राति :-


 पुत्री मम खलु निद्राति
 पुत्री मम खलु निद्राति । 
सुन्दरशयने सुखमयवसने
 पुत्री मम खलु निद्राति ॥
 रे रे वायस कर्कशकण्ठ ! 
मा रट मा रट कर्णकठोरम् ।
 श्रान्ता क्लान्ता पुनरनुनीता 
पुत्री मम खलु निद्राति ॥ १ ॥ 
म्याँव् , म्याँव् मा कुरु घोरविरावं
 चल चल रे खल चोरबिडाल !
 स्निग्धा मुग्धा सेवितदुग्धा
 पुत्री मम खलु निद्राति ।। २ ।।
 उच्चैर्मा भष शुनक वराक 
भौ भौ मा कुरु कार्यविहीन ।
विमला कुशला सुमनोमृदुला 
पुत्री मम खलु निद्राति ॥ ३ ॥
 रे रे मशक मा कुरु गानं 
मा स्पृश मा दश रक्तपिपासो ! 
सुदती सुमुखी शोभनगात्री
 पुत्री मम खलु निद्राति ।। ४ ।। 
                            - विश्वासः

आम्लं द्राक्षाफलम् :-


एकः श्रूगालः 
एकः श्रूगालः वनं गच्छति 
पिपासा , तस्य बुभुक्षा 
पिपासया बुभुक्षया च स : वनं गच्छति
 सः वनं गच्छति , स : वनं गच्छति । 
तत्र गच्छति , किमपि न लभते 
इतोऽपि गच्छति , किमपि न लभते 
श्रान्त : जायते , खिन्नः जायते 
सः श्रान्तः जायते , खिन्न : जायते 
किं च करोति ? सः किं च करोति ?
 वामतः पश्यति , दक्षिणतः पश्यति
 अग्रतः पश्यति , पृष्ठतः पश्यति 
स्वेदः जायते , तृषा जायते
 तस्य , स्वेदः जायते तृषा जायते
 किं च पश्यति ? सः किं च पश्यति ?
 पश्यति द्राक्षालतां 
सः पश्यति द्राक्षाफलम्
 उपरि उपरि लतासु दृश्यते च तत्फलम्
अनुक्षणं तन्मुखे रसः जायते
 किं च करोति ? सः किञ्च करोति ?
 एकवारम् उत्पतति , द्विवारम् उत्पतति
 त्रिवारम् उत्पतति पुनः पुनः उत्पतति
 स्वेदः जायते तस्य श्रमः जायते 
किं कथयति ? सः किं कथयति ? 
आम्लं द्राक्षाफलम् 
आम्लं द्राक्षाफलम् 
इत्येवं कथयति , पलायते 
इत्येवं कथयति पलाऽऽयते !!
              - डॉ . नारायणभट्टः

कृत्वा नवदृढसङ्कल्पम् :-

कृत्वा नवदृढसङ्कल्पम् 
वितरन्तो नवसन्देशम् 
घटयामो नवसङ्घटनम् 
रचयामो नवमितिहासम् ॥ 
नवमन्वन्तरशिल्पिनः 
राष्ट्रसमुन्नतिकाङ्क्षिणः 
त्यागधनाः कार्येकरताः 
कृतिनिपुणाः वयमविषण्णाः ।।    ॥ कृत्वा ॥
 भेदभावनां निरासयन्तः 
दीनदरिद्रान् समुद्धरन्तः 
दुःखवितप्तान् समाश्वसन्तः 
कृतसङ्कल्पान् सदा स्मरन्तः ।।   ।। कृत्वा ।।
 प्रगतिपथान्नहि विचलेम 
परम्परां संरक्षेम 
समुत्साहिनो निरुद्वेगिनो 
नित्यनिरन्तरगतिशीलाः ॥।  ॥ कृत्वा ।।
       - श्री जनार्दन हेगडे

 आशा है कि आप को यह उपयोगी हुआ होगा .. 

-: अन्य संस्कृत गीतानि :-


कालिदासो जने जने .... :-    watch here song


मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

إرسال تعليق

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )