यद्यपि काव्यमिदं प्राकृतभाषाया निबद्धं परं तथापि प्राकृतस्य संस्कृताधार तया शैलीसाम्येन चात्र ' गउडवहो ' काव्यमपि परिचेतुमुपक्रम्यते । एतस्य अयं हि महाकविः कान्यकुब्जाधिपते- यंशोवर्मणः सभायां प्रधानपण्डित आसीत् । वाक्पतिना कृतस्य मगधनरेशविजयस्यात्र रमणीयं वर्णनं निबद्धम् । काव्यस्य रचयिता वाक्पतिराजः आत्मनः सरसया शैल्या कविषु प्रख्याततमः ।
अयं यशोवर्मा ७२४ ईशवोतः ७६० ईशवीपर्यन्तं वर्तमानेन काश्मोराधि पतिना ललितादित्येन जितोऽतस्ततः पूर्वमेव ' गउडवहो ' नामक काव्यं निर्मितं भवेदिति मन्तव्यमेव , तेन ७३४ ई ० समीपे तत्प्रणयनं मन्यते ।
डा ० याकोविमहोदयस्य मतेन ' गउडवहो ' काव्ये निर्दिष्टं सूर्यग्रहणं ७३३ ई ० जातमतः तत्पूर्वमेवास्य काव्यस्य निर्माणं सिद्धयति । वाक्पतिना च भवभूति रत्यादर दत्त्वा स्मृतः --
' भवभूतिजलधिनिर्गतकाव्यामृतरसकणा इव स्फुरन्ति ।
अस्य विशेषा अद्यापि विकटेषु कथानिवेशेषु । '
सर्वमिदमालोचयतामस्माकं मते गउडवहोकाव्यस्य निर्माणसमयः ७३३-७६० मध्ये क्वचन मन्यते ।
गउडवहोकाव्ये वर्णनप्राधान्येन ऐतिहासिकतत्त्वस्यातिविरलता विद्यते । अने तिहासिकतत्त्वस्योपेक्षा तथा कृता यथा गौडस्य राशो जीयमानस्य नामापि नोल्लिखितम् । काव्यत्वकृता शोभा पुनरस्य ग्रन्थस्य प्रशंसनीया ।
तथा च दृश्यताम् --
' शोभते समागमेष्वहितप्रतापप्रदीपमालासु ।
कर्णोत्पलमिव खङ्ग विजयलक्ष्मीस्तव व्यापारयन्ती । '
अत्र विजयलक्ष्मीसमागमो नवोहनायिकासमागम इव वर्णितः !
प्रभातवर्णने पद्यमेकम् --
' तमोलोहलोठकानुगतमुक्तप्रभातप्रभः ।
विरलमूलः ग्रहकापासबोजनिवहः पश्चात् पुज्जीक्रियते निशया । '
यथा कयापि कृषकस्त्रिया लोहलोठकानुगतकासबोजनिवहः क्वचित पुजीक्रियते , तथाऽत्र निशया स्त्रिया लोठकेन तमसा कासिबोजनिवहाकारो ग्रहगणः पश्चिमदिग्भागे पुजीक्रियते ।
इयमीदृश्युत्प्रेक्षा दुर्लभा साधारणतः ।