श्रीहर्ष का सम्पूर्ण परिचय

श्रीहर्ष का सम्पूर्ण परिचय हिंदी और  संस्कृत में:-

         श्रीहर्षस्य नैषधीयचरितं नितान्तप्रसिद्ध विशालकायं महाकाव्यम् । श्रीहर्षस्य पिता श्रीहीरस्तथा माता च मामल्लदेवो आस्ताम् । श्रोहीरः काशीवासिनो गढ़वालवंशोद्भवस्य विजयचन्द्रस्य सभापण्डित आसीत् । शास्त्रार्थे केनापि विदुषा जितः श्रीहीरो मरणसमये स्वजेतारं पण्डितं पराजेतुं स्वसुतं श्रीहर्ष कथितवान् । तदाज्ञावशवर्ती श्रीहर्षो गङ्गातीरे चिन्तामणिमन्त्रजपं कृत्वा विशिष्टां प्रतिभा प्राप । लब्धवैदुष्यश्चासौ विजयचन्द्रस्य सभां प्रविश्य निम्न लिखितं श्लोक पपाठ --

श्रीहर्ष का सम्पूर्ण परिचय हिंदी और  संस्कृत में:-

' गोविन्दनन्दनतया च वपुः श्रिया च मास्मिन् नृपे कुरुत कामधियं तरुण्यः ।
अनीकरोति जगतां विजये स्मरः स्त्रीररोजनः पुनरनेन विधीयते स्त्री ।। '

             एतत्कृतीनां कश्मीरेषु महती प्रतिष्ठाऽऽसोत् , प्रसिद्धिरिमं मम्मटभागिनेयं समर्थयति । कान्यकुब्जाधीश्वरस्य जयचन्द्रस्य सभाऽनेनालङ कृता । तदुक्तमनेनैव ' ताम्बूलद्वयमासनं च लभते यः कान्यकुब्जेश्वरात् । ' इति जयचन्द्रपितुर्विजयचन्द्रस्य प्रशंसायां विजयप्रशस्तिनामा अन्थोऽनेन लिखितः ।

         जयचन्द्रो गढवालवंश्यो राजाऽऽसोत् । एकादशे द्वादशे चेशवीयशतके अस्य वंशस्योत्तरभारते प्रचुरः प्रभाव आसीत् । विजयचन्द्रजयचन्द्रौ मिलित्वा ११५६ ईशवीतः ११ ९ ३ ई ० पर्यन्तं राज्यं चक्रतुः । अतो हर्षस्य स्थितिकालो द्वादशशतकोत्तरार्धभागो मन्यते । 

श्रीहर्षकृतिपरिचयः 

१. स्थैविचारणप्रकरणम् - नामतो दार्शनिकग्रन्थोऽयं प्रायः क्षणभङ्गवाद खण्डनपरः । 

२. विजयप्रशस्तिः - जयचन्द्रपितुर्विजयचन्द्रस्य प्रशंसापरकं काव्यम् । 

३. खण्डनखण्डखाद्यम् - स्वनामख्यातोऽनिर्वचनीयतासर्वस्वभूतो वेदान्त ग्रन्थः । 

 ४. गौडोशिकुलप्रशस्तिः - वङ्गीवस्य कस्यचिद्राज्ञः स्तुतिपरं काव्यम् ।

 ५. अर्णववर्णनम् - स्वनामख्यातम् । 

६. छिन्दप्रशस्तिः - अज्ञातपरिचयस्य कस्यापि राज्ञो वर्णनपरोऽयं ग्रन्थः स्यात् । 

७. शिवशक्तिसिद्धिः - शिवशक्त्योपासनाग्रन्थोऽयं सम्भाव्यते । 

८. नवसाहसाङ्कचरितचम्पू : -नाम्नव विषयः स्वरूपच आख्यायेते । 

९ . नैषधीयचरितम्

      अत्र महाकाव्ये निषधशासकस्य नलस्य चरित्रं प्रस्तूयते । अस्मिन् ग्रन्थे द्वाविंशतिः सर्गाः २८३० श्लोकाश्च सन्ति । एतावतापि ग्रन्थेन नलचरितैकदेश एव वय॑ते ( केचित्तु ग्रन्थभिमपूर्णलब्धमाहुः ) , नलदम्पयन्त्योः परिणयाव धिवृत्तान्तः वर्णनमय्या पद्धत्था वर्णितोऽत्र ग्रन्थे । राजनि नले दमयन्तीरक्ते दमयन्तीचिन्तया दूधमाने स्वारामं पर्यटति सति तेन हंसो गृह्यते दयया मुच्यते च । स एव प्रत्युपकारभावनया नलस्य स्तुति दमयन्तीसमीपे करोति । दमयन्त्याः पूर्वराग उदयते । दमयन्त्याः पिता विदर्भः स्वयंवरमारचयति । दमयन्तीकामुका देवा अपि तत्रायान्ति , धृतनलस्वरूपाश्चत्वार इन्द्रयमवायुकुबेराः पञ्चमो नलश्चेति सर्वेषां समरूपतया दमयन्ती विचित्रां दशां प्रपद्यते । सभावर्णनाय समागता सरस्वत्यपि श्लेषवर्णनया दमयन्तीं व्यामोहयति । अवसाने दमयन्त्याः पातिव्रत्येन दृढानुरागेण च प्रीता देवाः स्वानि विशिष्टचिह्नानि प्रकटीकुर्वन्ति यैर्नल : परिचितो च भवति । जाते पाणिग्रहे कलिप्रवेशो मुखमुद्रणं च तस्य भवति । नलदमयन्त्यो सुखसङ्गमेन च ग्रन्थः समाप्यते । 

               अस्य ग्रन्थस्य सरसा वर्णनपद्धतिः शृङ्गारप्रकर्षपूर्णकथा च सहृदयहृदया न्यावर्जयतः । यथैव श्रीहर्षस्य खण्डनखण्डखाद्यमद्वितीयं तथैव नैषधीयमपि स्वक्षेत्रेऽनुपमम् । या प्रतिभा दर्शनरहस्यानि सरलीकरोति सैव शृङ्गारधारामपि प्रवाहयति । स्वयमुक्तं श्रीहर्षेण --

' साहित्ये सुकुमारवस्तुनि दृढन्यायग्रहग्रन्थिले 
तर्के वा मयि संविधातरि सम लीलायते भारती । 
शव्या वाऽस्तु मृदूत्तरच्छदवति दर्भाङ्कुरैरास्तृता 
भूमिर्वा हृदयङ्गमो यदि पतिस्तुल्या रतिर्योषिताम् ।। ' 

श्रोहों यथैव दार्शनिककविः तथैव योगीति स्वयमुक्तं तेन 

' यः साक्षात्कुरुते समाधिषु परं ब्रह्म प्रमोदार्णवम् । ' 

            श्रीहर्षः स्वीयस्य शास्त्रज्ञानस्य परिचयं प्रतिसगं ददाति , परन्तु सप्तदशसमें तु तेन स्वीयं नास्तिकास्तिकसकलदर्शनप्रवीणत्वं व्याकरणनिष्णातत्वं च सडिण्डिमनादं घोषितम् ।

            वेदान्तिना श्रोहर्षेण नैयायिका वैशेषिकाश्च कवितायामप्युपहसिताः --
' मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम् । 
गोतमं तमवेक्ष्यैव यथा वित्य तथैव सः ।। ' 
' ध्वान्तस्य वामोरु विचारणायां वैशेषिकं चारुमतं मतं मे । 
औलूकमाहुः खलु दर्शनं तत् क्षमं तमस्तत्त्वनिरूपणाय ॥ ' 
        श्रीहर्षस्योपरि प्राचां कवीनां प्रभावः संभवति । इन्दुमतीस्वयंवरं दृष्ट्वैवा नेन दमयन्तीस्वयंवरो वणितः स्यादित्यपि सम्भवति , परन्तु अस्य महाकवेवर्णन पद्धतिः सर्वथा स्वीया इत्यत्र कस्यापि वैमत्यं न सम्भवति । माघस्य प्रभातवर्ण नेन प्रभावितः श्रीहर्षः स्वोये महाकाव्ये एकोनविंशे सर्गे प्रभातवर्णनं कृतवान् परं शैली सर्वथा निजा प्रयुक्ता । 
        सर्वतः प्रधानमस्य महाकवेविषय इदं वक्तव्यमस्ति यद् देवभाषासाहि स्यस्य अपकर्षकाले अन्धकारयुगे प्रादुर्भूतोऽयं महाकविस्तादृशमालोकं दत्तवान् येन सकृत् सर्वा दिश एव चाकचिक्यपूर्णाः कृताः , अन्धकारयुगस्य प्रतिष्ठा शतकृत्वः समेधिता । 
        श्रीहर्ष - कवितायो नारीरूपस्य वर्णनमतीव सजीवम् । चतुर्थसर्गे विप्र लम्भशृङ्गारस्य कोनमपि परमरमणीयम् । चन्द्रोपालम्भस्तु संस्कृतसाहित्यस्य निधिरेव । सव लाकर्षणस्थानं श्रीहर्षस्य कथोपकथनचातुर्यवर्णनम् --
' मयाज पृष्टः कुलनामनी भवानमू विमुच्यैव किमन्यदुक्तवान् । 
पिपासुता शान्तिमुपैति वारिजा न जातु दुग्धान्मधुनोऽधिकादपि ॥ ' 
' वृथा कथेयं मयि वर्णपद्धतिः कयाऽऽनुपूर्व्या समकेति केति च । 
क्षमे समक्षव्यवहारमावयोः पदे विधातुं खलु युष्मदस्मदी । ' 
            नलदमयन्त्योः सरसा कथाप्रवणता कस्य नानन्दाय जायते । एवमेव परत्रापि कथोपकथनप्रसङ्ग भवन्तः सरसं वाक्यकदम्बं प्राप्स्यन्ति । 
        अन्येऽपि शास्त्रसम्मतास्तम् अत्र काव्ये यत्र तत्र कविना सप्रयास समावेशिताः सहृदयानां मनांसि रञ्जयन्ति । उत्प्रेक्षाणामपि चमत्कारोऽस्य नितान्तहृद्यः --
' यदस्य यात्रासु बलोद्धतं रजः स्फुरत्प्रतापानलधूममजिम । 
तदेव गत्वा पतितं सुधाम्बुधो दधाति पङ्कीभवदतां विधौ । ' 
' हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा । 
कृतमध्यविलं विलोक्य ते धृतगम्भीरखनीखनीलिम । ' 
अस्य उत्प्रेक्षाचमत्कारसहकृतो गाढबन्धत्वकृतश्चमत्कारो विस्मयमावति 
' वैदर्भीकेलिशेले मरकतशिखरादुत्यितैरंशुद : 
ब्रह्माण्डाघातभग्नस्यजमदतया ह्रीधृतावाङ मुखत्वेः ।
कस्या नोत्तानगाया दिवि सुरसुरभेरास्यदेशं गताग्रे 
यद् गोग्रासप्रदानव्रतसुकृतमविश्रान्तमुजृम्भते स्म ।। 
' दानमाहात्म्यवर्णनमपि पञ्चमसर्ग नितान्तरमणीयं दृश्यते --

' दानपात्रमधमणमिहैकग्राहि कोटिगुणितं दिवि दायि । 
साधुरेति सुकृतैयदि कत्तुं पारलौकिककुसीदमसीदत् ॥ ' 
        वयं पश्यामः - श्रीहर्षस्य कविता सरसया पद्धत्या प्रचलन्ती मध्ये मध्ये दार्शनिकतत्त्वान्युपन्यस्य कविना कठिनीकृता । एतदेव मनसिकृत्य कविना स्वयमुक्तम् 
' ग्रन्थग्रन्थिरिह क्वचित् क्वचिदपि न्यासी प्रयत्नान्मया 
प्राज्ञम्मन्यमना ठेन पठिती माऽस्मिन् खलः खेलतु । 
श्रद्धाराद्धगुरुः श्लथोकृतदृढग्रन्थिः समासादय 
स्त्वेतत्काव्यरसोनिमज्जनसुखव्यासज्जनं स्सज्जनः ।। 
        नलकथाधाराणि नलोदय - नलाभ्युदय - दमयन्तीकथा - दमयन्तीपरिणय राघवनैषधीय - कलिविडम्बन - नलचरित - सहृदयानन्दादीनि सर्वाण्यपि काव्यानि नैषधेनास्तं नीता । नीतिकाव्यस्यास्य रमणीयत्वे प्रमाणम् ।
         यद्यपि नैषधकाव्यं सौमबद्धताया अभावात् कठिन्यादेकस्यैवार्थस्य शब्दा न्तरेणावर्त्तनाच्च माधकिरातार्जुनीयापेक्षया न्यूनमर्यादं मन्तव्यं भवति तथापि नैषधे स्थितं रसोल्वणत्वं सर्वमतिशय्य वर्तते । एतद्दृशैव लोकाः कथयन्ति ' उदिते नैषधे काव्ये क्व माघः क्व च भारविः ? '  

   नैषधस्यापूर्णता :-

नैषधीयचरितं लिखितुमारभमाणस्तद्विवाहेन काव्यं कथं समापयेत् ? अत्र प्रसङ्ग उत्तरद्वयं सम्भवन्ति - तावदेव निर्माय कविः परलोकं गतः , इत्येकम् । अथवा - निर्मितस्याप्यग्रेतनस्यांशस्य प्राप्तिर्न जायते । तत्र प्रथममुत्तरं नोचितं यतः खण्डनखण्डखायें श्रीहर्षेण नेषघस्य चर्चा कृता , तेन नैषधं समाप्य खण्डन प्रणयनं प्रतीयते । अतः परिशेषान्नैषधशेषांशस्याप्राप्तिरिति कल्प एवं फलति । 
        अत्र प्रसङ्ग श्रीकृष्णमाचार्यमहोदयो लिखति यत् - उत्तलपान्ते हस्तलिखितः नेषधस्याग्रेतनो भागो रामगोपालस्मृतिभूषणमहोदयेन दृष्टः , यतः सार्धः श्लोकोऽपि रामगोपालमहाशयेन कृष्णमाचार्यस्य समीपे लिखित्वा प्रेषितः 
' वदन्ति चेच्चन्द्रमसं सुधारसं न पीयते तैः किमु नायिकाधरः । 
सुरापगाम्भः पिवता जनेन किं रसोत्तरं नीरधिनीरभुच्यते । ' 
' उत्तुङ्गस्तनपर्वतादवतरन्दङ्गेहारावली रोमालि प्रतिपद्यते ।
 
' म ० म ० राखालदासन्यायरत्नमपि कथयति स्म यत् पद्याध नैषधस्य- सस्मार न स्मरमनाः प्रियदूतभूतं तत्रामरालयमरालमरालकेशी । '
        इदं सर्व निर्णयं न जनयति , सन्देहं तु जनयत्येव । कृष्णमाचार्यस्य तु वङ्गे कदाचिद् नैषधशेषस्योपलब्धेराशाप्यासौदेव । एतन्महाकविभिन्नाः अपरेऽपि बहवो महाकवयः सन्ति , तेषां संक्षिप्तपरि चयोऽत्र दीयते , विस्तरभयात्तेषां काव्यस्य विषये नोच्यते किञ्चित् । 
          नाम                           समयः                                       कृतिः 
    अभिनन्दः                     दशमशतकम्                     कादम्बरीकथासारः 
    मेण्ठः                            पञ्चमशतकम्                     हयग्रीववधः     
   भट्टारहरिचन्द्रः                पञ्चमशतकम्                 धर्मशर्माभ्युदयम् 
   जिनसेनः                        नवमशतकम्                     पार्वाभ्युदयम् 
   वासुदेवः                         नवमशतकम्                   युधिष्ठिरविजयम् 
  धनञ्जयः                       नवमदशमशतके               द्विगन्धानकाव्यम्