महाकवि माघ का सम्पूर्ण परीचय
महाकवि माघ का सम्पूर्ण परीचय हिंदी व संस्कृत में
माघस्य चरितम् शिशुपालवधप्रणेतुर्माघस्य पितामहः सुप्रभदेवः गुर्जरशासकस्य वर्मलात नाम्नो नृपस्य मन्त्री आसीत् । माघस्य पिता दत्तको विद्वान् दानप्रसिद्ध चासीत् । माघस्य जन्म विद्यापीठतया राजधानीभावेन च पुरा प्रथिते मोन मल्लाख्यनगरे अभवत् । अत्रैव मीनमल्ले स्थित्वा ज्योतिषाचार्यो ब्रह्मगुप्तो ब्रह्म स्फुटसिद्धान्तनामक ग्रन्थं निबबन्ध । पितुर्दानशीलयायाः प्रभावो माघस्या प्युपरि पतितः । असौमदानदोषेणायं निघनत्वं गतः ।
भोजेन माघस्य सख्या तस्मै द्रव्यसाहाय्यं दत्त्वोपकारः कृतः । अत्र केचित् भोजस्य माघस्य चासमकालिकत्वेन साहाय्यवृत्तान्तमसत्यमातिष्ठन्ते , परं भोजस्यैकस्य भिन्नकालिकत्वेऽपि परस्य भोजस्य तत्कालजातत्वे न किमपि होयते । कर्नल टॉड ( Col. Tod ) महाशयेन त्रयो भोजाः सप्रमाणं स्वीकृताः तस्मान्माधकालेऽपि भोजस्य सद्भावः सम्भवति ।
माघस्य समय :
वसन्तगढनामके स्थाने एकः शिलालेखः प्राप्तः , स हि ६२५ ई ० वर्षे उत्कीर्णो विद्यते । तत्र वर्मलात इति नाम लिखितम् , अतः सप्तमशतकप्रारम्भी माघस्य समयो निश्चीयते । माघस्य काव्ये द्वितीयसमें एकः श्लोको विद्यते
' अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना |
शब्दविद्येव नो भाति राजनीतिरपस्पशा ।। '
अत्र श्लोके वृत्तिभ्यासशब्दयोः प्रयोगेण वृत्तिन्यासकाराभ्यां माधेन पश्चाद् भाविना भवितव्यम् । वृत्तिकर्ता जयादित्यश्च ६६१ ई ० वर्षे मृत इति इसिङ्ग कथनम् , अतो माघः अष्टमसर्गादी समुद्भूतः स्वान्न तु ततः पूर्वमिति केचनाभि प्रयन्ति , परन्तु तन्न युक्तम् , ततः प्राचीनस्यापि वृत्तिग्रन्थस्य प्रमाणसिद्धत्वात् । यदि जयादित्यात् पूर्व वृत्तिग्रन्थो नाभविष्यत्तदा बाणेन ' वृत्तेश्चर्चा स्वीये हर्षचरिते कथमकरिष्यत ? उक्तं हि तेन हर्षचरिते --
' प्रसन्नवृत्तयो गृहीतवाक्याः कृतयुगपदन्यासालोक इव व्याकरणेऽपि । '
अतो माघेनापि प्राचीनावेव वृत्तिन्यासौ स्मृताविति तत्समयस्य पूर्वोक्त निश्चये न कापि चिचिकित्सा । भारवेरर्थतोऽनुकरणं माघकाव्ये प्राप्यत इत्य प्यस्य समयनिश्चयं पूर्वोक्तं समर्थयते ।
माघस्य शिशुपालवधकाव्यम्
माघस्य शिशुपालवधे द्वाविंशति सर्गाः सन्ति । अत्र युधिष्ठिरस्य राजसूये यागे श्रीकृष्णेन कृतः शिशुपालस्य वधो मुख्यतया वर्णितः । महाभारतोक्तां निष्प्राणामिमां कथां माधो वर्णनमाहात्म्येन चमत्कारिणी विहितवान् ।
माघे काव्यगुणाः
माघकवेविपुला वर्णनक्तिरत्र पल्लविता जाता , महती चोत्प्रेक्षासमर्थता स्वप्रभावं प्रकाशितवती ।
माघस्य शास्त्राध्ययनं माघकाव्ये समन्यतेव ।
माधकाव्येऽलङ्कारयोजनासौन्दयं दुरपह्नवम् ।
श्रमसाध्यमपीदं काव्यं चमत्कारपूर्णमिति कवेः शक्तिमत्ता स्फुटा । व्याकरणस्य नानानिधाः प्रयोगा अत्र प्रयस्य प्रयुक्ताः , मन्ये भट्टिकवेः प्रभावोऽस्य बुद्धो समाविष्टः स्यात् ।
माघकाव्ये स्पष्टता , मधुरता , ऊर्जस्वलता च सर्वत्र प्रकटीभवन्ति , वीरोचिषु त्वस्य विशिष्टा प्रभावशालिता दृश्यते --
अनृता गिरं न वदसोति जगति पटहेविघुष्यसे ।
निद्यमथ च हरिमचंयतस्तव कर्मणैव विकसत्यसत्यता ।। '
माधकाव्ये किरातार्जुनीयमनुक्रियमाणमिव दृश्यते , तत्रापि श्रीशब्दः प्रथम प्रयुक्तोऽत्रापि तथैव । माघस्य श्रयङ्कतापि किरातस्य लक्ष्म्यतादर्शनमूला । चतुर्थं सर्गे वृत्तभेदोऽपि सम एवोभयोः । किराते शिवो माघे च हरिः स्तूयते ।
माघस्य भाषाशैली
' उपमा कालिदास्य भारवरयंगौरवम् ।
नैषधे पदलालित्यं माघे सन्ति त्रयो गुणाः ।। "
इत्याभाणकं प्रसिद्धम् । माघकाव्ये --
' स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदक्यामवपुन्यविक्षत ।
श्रितोदयाद्रेरभिसायमुच्चकैरचूचुरश्चन्द्रमसोऽभिरामताम् ॥ '
इत्यादिकाश्चमत्कारिण उपमाप्रयोगाः ।
' आच्छादितायतदिगम्बरमुच्चकैर्गामाक्रम्य संस्थितमुदअविशालशृङ्गम् ।
मूनि स्खलत्तुहिनदीधितिकोटिमेनमुद्रीक्ष्य को न भुवि विस्मयते नगेशम् । '
इत्यादिकमर्थगौरवस्थलम् ।
' मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे । '
" उदयति विततोवरश्मिरज्जावहिमरुची हिमधाम्नि याति चास्तम् ।वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारिवारितवारणेन्द्रलीलाम् ॥ "