कुलशेखरः के स्तोत्र

कुलशेखरः 

अयं त्रिवाकुरराजो दसमे शतकेचत्तिष्टेति कथ्यते । वैष्णवधर्माचार्यान्य तमोऽयं ' मुकुन्दमाला ' नामकं स्तोत्रमेक विरचितवान् । स्तोत्रेषु काव्यगुणापेक्ष याऽऽत्मनिवेदनगुणोऽधिकोऽपेक्षते । काव्यशक्तिप्रदर्शनार्थं यानि स्तोत्राणि व्यरच्यन्त तानि न तथा द्रियन्त । आत्मनिवेदनगुणोऽस्य मुकुन्दमालायां प्रकट इति कृत्वाऽस्य स्तोत्रं प्रथितम् -

' दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् । 
अवयोरितशारदारविन्दी चरणी ते मरणे विचिन्तयामि ।। 

इदं पद्यं नालङ्कारेण न शब्दचमत्कारेण न वा ध्वनिना तथा गौरवमाप्तु मर्हति , परमत्र काचिदपूर्वव भावनानिवेदना यया हृदयं बलवदाकृष्यते । 
कुलशेखरः के स्तोत्र
स्तोत्रसाहित्ये वैष्णवस्तोत्राणां संख्या नातिलधीयसी । यामुनाचार्यस्य स्तोत्रम् , लीलांशुकस्य कृष्णकर्णामृतम् , वेङ्कटारिणो लक्ष्मीस्तवः , मधुसूद नस्य आनन्दमन्दाकिनी , माधवभट्टस्य दानलीलाप्रभृतयः स्तोत्रग्रन्था अत्र प्रसङ्गे मुख्याः । 
शेवस्तोत्राणि पृथगेव कमपि चमत्कारविशेष रक्षन्तो विस्मत्तुं न शक्यन्ते । शैवस्तोत्रेषु महिम्नः स्तोत्रादनन्तर काश्मीरकाणां शैवानां स्तोत्रग्रन्था आयान्ति । तेषु शिवस्तोत्रावली , स्तुतिकुसुमाञ्जलिश्चेति द्वौ ग्रन्थौ प्रसिद्धौ ।

उत्पलदेवस्य शिवस्तोत्रावली 

उत्पलदेवस्त्रिकदर्शनाचार्याणामन्यतमो नवमशतके वर्तमान आसीत् । अनेन निर्मिता शिवस्तोत्रावलो एकविंशतिसंख्यकानां शिवस्तोत्राणां सङ ग्रह रूपाऽस्ति । अत्रत्यानि पद्यानि प्रसन्नपदानि आत्मनिवेदनरूपस्तुतिरहस्य युतानि चेति सातिशयस्वादुतामाकलयन्ति । एकमुदाहरणं यथा 

' कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम् । 
अप्युपात्तममूतं भवद्वपुर्भेदवृत्ति यदि मे न रोचते ॥ '