जगद्धरस्य की स्तुतिकुसुमाञ्जलिः

जगद्धरस्य स्तुतिकुसुमाञ्जलिः 

काश्मीरको जगद्धरभट्टः यजुर्वेदोपरि वेदविलासनामकस्य भाष्यस्य रच यितुर्गौरीधरस्य पौत्रः रलधरस्य पुत्रः पद्मपुरखास्तव्यश्चासीत् । जगद्धरस्य समय १३५० ई ० समीपे सम्भवति , यतो जगद्धरेण स्वपुत्रस्य यशोधरस्य पाठनाय कातन्त्रव्याकरणवृत्तिरेका रचितः , यस्यां राजानकशितिकण्ठेन व्याख्या प्रणीता । शितिकण्ठेन काश्मीरशासकस्य हसनशाहस्य राज्यकाले १४७२ १४८४ ई ० पूर्वोक्ता व्याख्या लिखितेति ततः पूर्वतनः पूर्वकथितश्च समयो जग दरस्य प्रमाणितो भवति । 

जगद्धरस्य की स्तुतिकुसुमाञ्जलिः

स्तुतिकुसुमाञ्जली ३८ स्तोत्राणि १४२५ श्लोकाश्च सन्ति । अत्र ग्रन्थे कविताया भिन्नानि वमन्यिाश्रित्य शिवस्य स्तुतिनिबद्धा । क्वचिदलकारच्छटा , विचिदन्यादृशी वाग्भङ्गिश्च ग्रन्यमिममादरं प्रापयतः । सर्वाधिकमादरं तु जन यत्यस्य भक्तकवेः सरसपदनिर्माणसहचरी सरलकाव्यक्षमता । 

' शृङ्गो विवेकरहितः पशुरुन्मदोऽयं 
मत्वेति चेत् परिहरस्यतिकातरं माम् ।
एतादृशोऽपि वृषभश्चरणार्पणेन 
नीतस्त्वया कथमनुग्रहभाजनत्वम् ।। ' 

' स्वैरेव यद्यपि गतोऽहमथः कुकृत्यैस्तत्रापि नाथ तव नास्म्यवलेपपात्रम् । 
दृप्तः पशुः पतति यः स्वयमन्धकूपे नोपेक्षते तमपि कारुणिको हि लोकः ।। 

सरलतया सहैव प्रयुक्त श्लेषेऽनेनासाधारण क्षमत्वं प्रदर्शितम् - 

' चारुचन्द्रकलयोपशोभितं भोगिभिः सह गृहीतसौहृदम् । 
अभ्युपेतधनकालशाश्वं नीलकण्ठमतिकौतुकं स्तुमः ।। ' 

श्लेषेण सहैवान व्यतिरेकस्य चमत्कारोऽपि नितान्तरमणीयः ।