पुराण का सम्पूर्ण परिचय हिंदी व् संस्कृत में

पुराण का सम्पूर्ण परिचय।

धार्मिक द्रष्टि से पुराणों का बहोत महत्व हे। वेदों में कहे गए धर्म को सरल सुबोध भाषामे वर्णित करने के हेतु से पुरानो की रचना हुई।  

  ' इतिहासपुराणाभ्यां वेदं समुपबृहयेत् । 

बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति । '

  जब वेदों में कहे गए अर्थ लोगो के समज में न आने लगे तब वेदों में कहे गए अर्थ को सुलभ करने के लिए पुरानो की रचना की गई। साथ ही समाज के तात्कालिक स्वरूप को समजने के लिए भी पुराणों को महद उपयोग हुआ हे। पुराणों में प्राचीन इतिहास भी निहित होता हे। पुराणों में जो कहा गया हे उसे प्रमाण स्वरूप शिलालेख भी लिखे गए , इसीलिए विदेशी विद्वान् भी आदर के साथ इनको देखते हे। 

Puran ka sampurn parichay sanskrit evam hindi me



  इतिहास और पुराणों में यह फर्क हे की इतिहास यदि राजाओ के जीवन को दर्शाता हे तो पुराण राजाओ और ऋषिओ का भी वृत्तांत सुनाता हे और यही पुराणों का परम उपयोगित्व हे। पुराण जो वे भौगोलिक सामग्री भी प्रस्तुत करते हे। जैसे काशीखंड में काशीपुरी का ऐसा वर्णन मिलता हे जैसे साक्षात् मानचित्र  ही आगे रख  दिया हो। और भी ऐसे पुराण हे जहा ऐसे बहोत से तीर्थो का वर्णन  मिलता हे, जिससे उसके परिचय में सुलभता प्राप्त होती हे। 

     पुराणों में अतिशयोक्ति पूर्ण शैली दिखती हे जिससे  लोग कही कही अविश्वसनीय या कालपनिक मानते हे। 

किसी प्रकार का बोद्धव्य ज्ञान तीन प्रकार से विभक्त करे तो -

१  वस्तुतत्व कथारूप 

२ रूपक द्वारा 

३ अतिशयोक्ती द्वारा 

यहाँ वस्तुतत्व कथा रूप वैज्ञानिक की रीत हे , जहा वस्तु को यथा रूप  हे किसी प्रकार का रंजन वह नहीं योजते। रूपक द्वारा जो प्रणाली वह वेदोंमें हे, जहा रूपक द्वारा वास्तु कथन  प्रणाली हे। और अतिशयोक्ति  पुराणों में दिखती हे , यहाँ वर्णित अर्थ को यथामति ग्रहण करने चाहिए। पुराणों का तुलनात्मक अध्ययन करने  पश्चात् उसमे निहित इतिहास भाग और सामाजिक  वर्णन को स्पस्ट देख सकते हे ऐसा विद्वानों का मत हे।   

पुराणों के लक्षण : -


पुराणानि संस्कृते परिचयः। 

पुराणानां धार्मिकदृष्टया महत्वमधिकम् । वेदविहिताना धर्माणां सरल सुबोधभाषायां वर्णनायेव पुराणानि विरचितानि-

 ' इतिहासपुराणाभ्यां वेदं समुपबृहयेत् । 
बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति । '

     यदा वेदोक्ता अर्थाः लोकानां बुद्धी नारोढुं प्रवृत्तास्तदा वेदोकार्थस्य ज्ञानं सुलभं कत्तु पुराणानि विरच्यन्ते स्म । 
   समाजस्य तात्कालिकस्वरूपबोधनायापि पुराणानां महानुपयोगः पुराणेषु प्राचीनभारतस्येतिहासो निहितः । पुराणोक्तानामितिवृत्तानां प्रामाणिकत्वं शिलालेखादिभिरपि कर्तुमारब्धम् , अतो विदेशीया अपि विद्वांसः पुराणे घृतादराः प्रतिभान्ति ।
   इतिहासा यदि राज्ञां वृत्तं प्राधान्येन बोधयन्ति तदा पुराणानि राज्ञां वृत्तः सह ऋषीणामपि वृत्तं बोधयन्तीति परमोपयोगित्वं पुराणानाम् । 
   पुराणानि भोगोलिकसामग्रीमपि प्रस्तुवन्ति । काशोखण्डे काशीपुर्यास्तादृशं विस्तृत वर्णनं विद्यते येन तस्या मानचित्रमिव पुरत उपतिष्ठते । अन्येष्वपि पुराणेषु तेषां तेषां तीर्थानां तादृशं स्पष्ट वर्णनमुपलभ्यते , येन तलरिचये सौकर्यमाधीयते । 
    पूराणेषु अतिशयोक्तिपूर्णा शैली समादृता येन लोकास्तानि अविश्वसनीयानि काल्पनिकानि च प्रतियन्ति स्म । तर बोढव्यमिदं यत् त्रिधा वर्णनं क्रियते
वस्तुतत्त्वकथारूपेण , रूपकद्वारा , अतिशयोक्तिद्वारा च । वस्तुतत्त्वकथा वैज्ञानि कानाम् , ते हि वस्तु यथावद् वर्णयन्ति , न किमपि रञ्जनं तत्राचरन्ति । रूपक द्वारा वस्तुकधनप्रणाली वेदेषु व्यवलियते , तत्र हि उषः सुन्दरी कृता , वृत्रश्च राजाकृतः । अतिशयोक्तिप्रणाली पुराणेष्वादृता । अस्यां प्रणाल्यां वर्णिता अर्था यथामति विविच्य ग्रहीतव्या भवन्ति । पुराणानां तुलनात्मकमध्ययनं तदन्त स्तले प्रवेशनं च यदि कियेत तदा तत्रत्य इतिहासभागः सामाजिकवर्णनारहस्य च स्पष्टमवभासेत इति विदुषां विचारः । 
          

पुराणलक्षणम् :-

         पुराणं पुरातनमाख्यानमुच्यते । संस्कृते पुराणशब्दश्चिरन्तनपर्यायः । पुराणेषु भूता वर्तमाना भाविनश्वार्था वर्ण्यन्ते । इतिहासे तु भूता एवार्था वर्ण्यन्त इति पुराणेतिहासयोरन्तरम् । प्राचीनास्तु पुराणमपीतिहासशब्देनाभि दधते । पुराणेषु पुराणलक्षणमित्थमुक्तम्
   
" सर्गश्च प्रतिसगंश्च वंशो मन्वन्तराणि च ।
     वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ "
     
                   सर्गः सृष्टिः , प्रतिसर्गः सृष्टेलयः पुनश्च सृष्टिः , वंशः सृष्टयादौ वंशावली , मन्व न्तराणि के के मनवः कदा कदा अजायन्तेति वर्णनानि , वंशानुचरितं सूर्यचन्द्र वंशयोविशिष्य वर्णनम् , इदं वस्तुपञ्चकं पुराणेष्वपेक्ष्यते । 
              वस्तुतस्तु नैतान्येव वस्तूनि पुराणेषु वर्ण्यन्ते । इदन्तुं न्यूनतमं वर्णनीयम् , पुराणोष्वितोऽधिकान्यपि तानि तानि वस्तूनि वर्ण्यन्ते । उदाहरणार्थमग्निपुराणमेव गृह्यताम् । तत्र हि सर्वाण्यपि ज्ञातव्यवस्तूनि वणितानि , येन तत् भारतीय शनकोषः ' इत्यभिधीयते । 
               कस्यापि मानवसमाजस्य इतिहासस्तावन्न पूर्णों मन्यते , यावत्तस्य सृष्टेः प्रारम्भकालत इतिहासो न प्रस्तूयते । पाश्चात्त्यशिक्षाप्रभाविता विद्वांसो नैतद नुमोदयन्ति स्म , अत एव ते पुराणानि सत्यानि न स्वीकुर्वन्ति स्म , परं सम्प्रति दृष्टिकोणपरिवर्तनं जातम् । एच् . जी . वेल्स महोदयः “ आउटलाइन ऑफ द हिस्ट्री ' नामके स्वग्रन्थे पोराणिकी प्रणालीमनुसृतवान् । अनया सुसंस्कृतया दृष्टया भारतीयमितिहासं जिज्ञासमानानां कृते पुराणानि निधय इव ।

 पुराणानां रचनाकालः :-

 पुराणाना रचना कदा जालेति प्रश्ने निम्नलिखितविषयाः पूर्व ध्यातव्याः -
१. अथर्ववेदे पुराणस्य उल्लेखो दृश्यते
' ऋचः सामानिच्छन्दांसि पुराणं यजुषा सह ।
 उच्छिष्टाजज्ञिरे सर्वे दिवि देवा दिवि श्रिताः ॥ '   ( ११७।२४ ) 

२. गोपथब्राह्मणे पुराणानि स्मर्यन्ते ---
' एवमिमे सर्वे वेदाः निर्मिताः सकल्पाः सरहस्याः सब्राह्मणाः सोपनिषत्काः सेतिहासाः सान्वयाख्याताः सपुराणाः सस्वराः ।      ' ( गोपथप्रपा ०२ )
 ३. शतपथे – ' सोऽयमिति किञ्चित् पुराणमाचक्षीत । ' ( १३।४।३।१३ ) 
४. बृहदारण्यके - ' इतिहासः पुराणं विद्या उपनिषदः । ' ( २।४।११ ) 
५. छान्दोग्ये - ऋग्वेद भगवोऽध्येमि " इतिहासपुराणं पञ्चमं वेदानां वेदम् । " 
६. आपस्तम्बधर्मसूत्रे पुराणस्योल्लेख एव न केवलोऽपि तु श्लोक संख्याप्युक्ता---
 ' अथ पुराणे श्लोकानु दाहरन्ति , अष्टाशीतिसहस्राणीति । ( २२२२।३५ )
 ७. शङ्कराचार्यः कुमारिभट्टश्च पुराणान्यद्धृतवन्तौ । बाणभट्टः हर्षचरिते ' पुराणेषु वायुप्रलपितम् ' इत्याह ।।
 ८. पुराणेषु कलियुगत्तिनां राज्ञां वर्णनानि दृश्यन्ते । विष्णुपुराणे मौर्य वंशस्य प्रामाणिक विवरणं लभ्यते । मत्स्यपुराणे आन्ध्रनृपतयः स्मृताः । वायुपुराणे गुप्तनृपतयो वणिताः । 
९ . महाभारतकृता पुराणानि स्मृत।नि , पद्मपुराणे ऋष्यशृङ्गस्य यद् वृत्तं वयते तन्महाभारतेऽपि प्राप्यते । 
१०. कौटिल्यकृतमर्थशास्त्रं पुराणानि निर्दिशति , तत्र हि विनेयेभ्यो राज पुत्रेभ्यः पुराणानि उपदेष्टव्यानीति निर्दिष्टम् । अर्थशास्त्रं चेदं चन्द्रगुप्त राज्य कालिकमिति ततः पूर्व पुराणरचनं सिद्धयति । 
११. धर्मसूत्रेषु पुराणानि स्मर्यन्ते ।
 तदिमानि सर्वाणि तत्त्वानि पुराणानां वैदिककालेऽप्यस्तित्वं समर्थयन्ते । ईसवीयशतकात् षट् शतकपूर्वतनकाले पुराणानामस्तित्वमासीदिति कल्पनाऽपि सत्यानुमोदिता । इदं तु सत्यं यत् पुराणस्यादिमं रूपं सम्प्रति नावाप्यते । पुराणं तेषां वर्तमानरूपम्पन्नमासीत् । 

 पुराणानां नामानि तत्प्रमाणं च :-

 पुराणानां संख्याविषये मतभेदो नास्ति , सर्वविदि सिद्ध तेषामष्टादशत्वम् । 

कदाचिदेकत्र समये नारच्यत , समये समये तथाध्याया योजिताः गुप्तकालपर्यन्तं

मद्वयं भद्वयं चैव  ब्रत्रयं वचतुष्टयम् ।
अनापलिंगकूस्कानि पुराणानि प्रचक्षते ॥ ' 

श्लोकोऽयं पुराणानां नामानि संगृह्णाति । 

मद्वयम् - मकारादिपुराणद्वयम् - मत्स्यपुराणम् मार्कण्डेयपुराणञ्च २  
भद्वयम् - भकारादिपुराणद्वयम् - भविष्यपुराणम् भागवतपुराणच ४

ब्रत्रयम् - ब्रादिपुराणत्रयम् - ब्रह्माण्डपुराणम् , ब्राह्मपुराणम् , ब्रह्मवैवर्तञ्च ७
वचतुष्टयम् - वकारादिपुराणचतुष्टयम् - वामन - वराह - विष्णु - वायुपुराणानि ११
  - अग्निपुराणम् १२
 ना - नारदपुराणम् १३
  - पद्मपुराणम्  १४
 लि – लिङ्गपुराणम् १५ 
– गरुडपुराणम् १६
 कू - कूर्मपुराणम् १७ 
 स्क - स्कन्दपुराणम् १८

पुराणानां श्लोकसंख्याः 



१. तन्मत्स्यमिति जानीध्वं सहस्राणि चतुर्दश । १४००० श्लोकाः
 २. पुराणं नवसाहस्र मार्कण्डेयमिहोच्यते ।९००० ,,
 ३. तद्भागवतमुच्यते , अष्टादशसहस्राणि । १८००० ,,
 ४. चतुर्विशत्सहस्राणि तथा पञ्चशतानि च । भविष्यचरितप्रायं भविष्यं तदिहोच्यते ॥ २४५०० ,,
  ५. ब्राह्म त्रिदशसाहस्र पुराणं परिकीर्त्यते । १३०००,, 
 ६. तदष्टादशसाहस्र ब्रह्मवैवर्तमुच्यते । १८०००,,
 ७. तच्च द्वादशसाहस्रं ब्रह्माण्डं द्विशताधिकम् । १२२००,,
८. पुराणं दशसाहस्र वामनं परिकीर्तितम् । १००००,,
 ९ . चतुर्विशत्सहस्राणि तद् वाराहमिहोच्यते ।२४०००,,
 १०. आग्नेयं तच्च योडशसाहस्रम् ।१५०००,,
 ११. चतुर्विशत्सहस्राणि वायवीयम् ।२४०००,,
 १२. त्रयोविंशतिसाहन वैष्णवं परिकीयते । २३०००,,
१३. पञ्चविंशत्सहस्राणि नारदीयं तदुच्यते । २५०००,,
१४. पाद्यं तु पञ्चपञ्चाशत्सहस्राणीह कथ्यते । ५५०००,,
१५. तदेकादशसाहरू लेङ्गिक परिकोत्तितम् ।११०००,,
 १६. अष्टादशसहस्राणि गारुडं तदिहोच्यते ।१८०००,,
 १७. कूर्मरूपी जनार्दनः , अष्टादशसहस्राणि ।१८०००,,
 १८. स्कन्दं नाम पुराणच ह्ये काशीतिनिगद्यते । 
सहस्राणि शतञ्चेकम् " " " " " "।।  ८११००,,
   परं संख्येयं सम्प्रति प्राप्यमाणे पुराणषु बहुत्र भिद्यतेऽपि । एवंविधसंख्या भेदे प्रक्षेपलेनाप्रकमादापहारादिकानां मध्ये किमप्येक कारणं स्यात् ।

 एतत्पुराणातिरिक्तानि अष्टादश उपपुराणान्यप्याख्यायन्ते- 


१  सनत्कुमार- २ - नारसिंह ३ - स्कान्द ४ - शिवधर्म ५ - आश्चर्य ६ - नारदीय ७ - कापिल ८ वामन ९ - औशनस १० - ब्रह्माण्ड ११ - वारुण १२ - कालिका १३ - माहेश्वर १४ - साम्ब १५ -सौर १६ - पराशर १७ - मारीच १८ - भार्गवेतिनामभेदोऽत्र बोध्यः ।

      देवीभागवते तु स्कान्द - वामन - ब्रह्माण्ड - मारीच - भार्गवेति प्रागुक्तपुराणपञ्च कस्य स्थाने शिव - मानव - आदित्य - भागवत - वासिष्ठेति नामपञ्चकमाख्यायते । एतदनुसारेण श्रीमद्भागवतमुपपुराणकोटी गणितं भवतीति ।