Sanskrit natak । असत्यं न वदेत् । संस्कृत नाटक
संस्कृत नाटक । असत्यं न वदेत् । sanskrit natak
Sanskrit drama written script
-: प्रथम दृश्यम् :-
गोपालः - वत्स रघो,
रघुः - किम् तात?
गोपालः -अहम् अन्यस्मिन् कार्ये व्यग्रः अस्मि । अद्य धेनूः गृहित्वा त्वमेव वनं गच्छ ।
रघुः - अहम् ? अस्तु गच्छामि ।
गोपालः - तत्र वने सावधानतया वर्तस्व । तत्र वृकाः, व्याघ्राः आगच्छन्ति । सम्यक् परिपक्ष धेनूः ।
रघुः - चिन्ता मास्तु तात । अहं सर्वम् समीचीनं करोमि ।
-: द्वितीयं दृश्यम् :-
(रघुः वनं गच्छति , तत्र तरोः अधः उपविशति)
रघुः - (आतमगतम्) धेनवः सुखेन चरन्ति । अहमपि विश्रांतिसुखम् अनुभवामि । (किंचित् कालं विश्रम्य ) आहाहा! रम्यं वनम् । किन्तु न कोपि सखा । अतः सर्वं नीरसं भासते । किं करणीयम् ? (विचार्य) आम् । (कृषकान् दृष्ट्वा ) एते जनाः तिष्ठन्ति। तान् परिहसामि । आत्मानं च विनोदयामि । (किंचित् चिन्तयित्वा) एवं वदामि । ( प्रकाशम् ) (उच्चैः ) भोः , भोः , व्याघ्रः समागच्छति धेनूः भक्षयति । त्वरत , रक्षत ।
अमोलः - अरे कः अयम् आह्वयति ? एष रघुः ।
विशालः - व्याघ्रः आगतः ईति वदति । चलन्तु साहाय्यार्थम् ।
राहुलः - चलतु, चलतु, सः एकाकी अस्ति । ( सर्वे आगच्छन्ति इतस्ततः दृष्ट्वा )
विशालः - अरे धेनवः तु स्वस्थाः । व्याघ्रः नास्ति।
राहुलः - कुतः व्याघ्रः ? कुत्र अस्ति ?
अमोलः - असत्यं वदसि ।
विशालः - रे मूर्ख, सत्यं भाषेत् ।
राहुलः - चलन्तु स्वकार्यम् अवरुध्यते ( सर्वे गच्छन्ति ।
-: तृतीयं दृश्यम् :-
( द्वितीय दिने )
रघुः - अरे तत्र जनाः कार्यरताः । पुनरपि आत्मानं विनोदयामि । भो: जनाः ... व्याघ्रः समागच्छति । धेनूः भक्षयति । त्वरध्वम् ...। धावत । रक्षत धेनूः ।... आगच्छत । आगच्छत ।
विशालः - अरे सः आह्वयति ।
राहुलः - सत्यम् अस्ति वा ?
अमोलः - न एषः समयः विचारयितुम् । ( सर्वे आगच्छन्ति )
विशालः - एताः धेनवः । रे कुत्र अस्ति व्याघ्रः ?
राहुलः - दर्शय । नास्ति ?
रघुः - (हसन् ) नास्ति । अहं तु केवलं परिहसामि । अहो सौख्यम् ! गच्छत ।
अमोलः - पुनरपि वंचना !
सर्वे :- धिङ् मूर्ख ।
-: चतुर्थं दृश्यम् :-
( तृतीय दिने )(कृषकाः कार्यमग्नाः । रघुः आक्रोशति )
रघुः - व्याघ्रः आगच्छति , धेनूः भक्षयति । त्वरध्वम् । रक्षत ।
विशालः - न गच्छामः । तस्य तु सर्वम् असत्यमेव ।
रघुः - आगच्छन्तु । त्वरध्वम् । रक्षन्तु मम धेनूः । (पुनः पुनः वदति )
राहुलः - कदाचित् सत्यं भवेत् । आगच्छन्तु तस्य साहाय्यार्थं गच्छामः ।
अमोलः - अस्तु । एकवारं गच्छामः ।
राहुलः - भवान् एव वदति अतः अहम् आगच्छामि । अन्यथा न ।
विशालः - अहम् अपि ।
( सर्वे आगच्छन्ति )
रघुः - (उच्चैः हसन् ) हा , हा । अहो मनोरंजनम् ! भोः नास्ति व्याघ्रः । गच्छन्तु यथा आगताः ।
राहुलः - चलतु , चलतु ।
विशालः - एषः न विश्वासार्हः ।
अमोलः - एषः महावंचकः । (सर्वे निर्गच्छन्ति )
-: पंचमं दृश्यम् :-
(चतुर्थे दिने व्याघ्रः सत्यम् आगच्छति )
रघुः - (उच्चैः ) भोः व्याघ्रः आगच्छति । समागच्छति व्याघ्रः ! सत्यम् , सत्यम् व्याघ्रः आगच्छति । धेनूः भक्षयति । त्वरया आगच्छतु । रक्षन्तु मम धेनूः । आगच्छन्तु शीघ्रम् ... ( पुनः पुनः आक्रोशति ।)
विशालः - अरे एषः निर्लज्जः , पुनः आह्वयति। मा शृणोतु । वारंवारं वंचयति।
रघुः - आगच्छत ... (पुनः पुनः आह्वयति )
राहुलः - अत्र एव तिष्ठन्तु सर्वे ।
अमोलः - नित्य सः अस्मान् उपहसति ।
राहुलः - अतः न गच्छामः । न गच्छामः ।
सर्वे - न गच्छामः ।
रघुः - त्वर्यताम् । धावन्तु । व्याघ्रः भक्षयति मम धेनूः ।
जनाः - न गच्छामः ।
रघुः - धावत आगच्छत। त्वरया आगच्छत । हा ! हा हन्त! मम पुष्टाः धेनवः खादिताः अनेन दुष्टेन व्याघ्रेण। मम दुष्कर्मणः एव एतादृशं फलम् । इतः परम् अहं कदापि असत्यं न वदामि । कदापि वंचना न करोमि ।।
हिंदी नाटक । झूठ न बोले । hindi natak ।
-: पहला दृश्य :-
गोपाल :- पुत्र रघु ,
रघु :- क्या पिताजी ?
गोपाल :- आज में अन्य कर्यो में व्यस्त हु । आज तुम गायों को वन में चराने जाओ ।
रघु :- मैं ? ठीक है जाता हूं ।
गोपाल :- वहाँ वन मैं सावधानी रखना । वहाँ बाघ आदि हिंसक पशु आते है । ठीकसे गायों की रक्षा करना ।
रघु :- चिंता मत कीजिये पिताजी । मैं सब संभाल लूंगा ।
-: दूसरा दृश्य :-
(रघु वन में जाता है। वृक्ष के निचे बैठता है )
रघु :- (आत्मगत) गायें तो सुखसे चर रही है । मैं भी आराम कर लेता हूं । (थोडी देर आराम करने के बाद) आहाहा! रमणीय वन है , किंतु कोई मित्र नही है । इसलिये सब नीरस लगता है । क्या करूँ?? (सोचता है ) हा.. (कृषकोको देखकर)
यह लोग यहां पर है । इनका परिहास करता हु । स्वयं को आनंदित करता हु । (थोडा विचार करके) यह बोलता हूं ।
(प्रकाश) (जोरसे) अरे! , अरे! , बाघ आ रहा है , गायों को खा रहा है । जल्दी करो , बचाओ ।
अमोल :- अरे यह कौन पुकार रहा है ? यह तो रघु है ।
विशाल :- बाघ आया एसा बोल रहा है । चलो सहायता के लिये ।
राहुल :- चलो , चलो , वो अकेला है । ( सब वहा आते है , यहाँ-वहाँ देखकर)
विशाल :- गाये तो ठीक है , बाघ भी नही है ।
राहुल :- कहा है बाघ , कहा है ।
अमोल :- अरे कही भी नही दिख रहा , केवल गाये है ।
रघु :- (हँसते हुए) आहाहा ! कैसे बेवकूफ बनाया! अरे बाघ नही है , जाओ सब लोग ।
अमोल :- जूठ बोलते हो ।
विशाल :- अरे मूर्ख , सच बोलो ।
राहुल :- चलो हमारा काम रुका हुआ है ।( सब वहा से जाते है)
-: तीसरा दृश्य :-
(दूसरे दिन )
रघु :- अरे वहा लोग काम कर रहे है । फिरसे मजाक करता हु । अरे! , अरे! , बाघ आ रहा है , गायों को खा रहा है । जल्दी करो , बचाओ । जल्दी आओ ।
विशाल :- अरे वो पुकार रहा है ।
राहुल :- सच बोल रहा होगा ??
अमोल :- यह सोचने का समय नही है , चलो । ( सब आते है)
विशाल :- ये तो गाये है , अरे कहा है बाघ ??
राहुल :- दिखाओ । नही है ?
रघु :- (हसते हुए) नही है । मै तो केवल मजाक कर रहा था । मजा आ गया ! जाओ ।
अमोल :- फिर से बेवकूफ बनाया ।
सब :- धिङ् मूर्ख ।
-: चौथा दृश्य :-
(तीसरे दिन )(कृषक काम मे मग्न थे । रघु व्यग्र था।)
रघु :- बाघ आ रहा है , गायों को खा रहा है । बचाओ ।
विशाल :- नही जाएंगे । उसका तो सब जुठ है ।
रघु :- जल्दी करो , बचाओ । मेरी गयो को बचाओ ।
राहुल :- कदाचित् सच हो सकता है । चलो उसकी मदद के लिए चलते है ।
आमोल :- ठीक है एक बार चलते ।
राहुल :- तुम बोल रहे हो इस लिए आ रहा हु । वर्ना नही ।
विशाल :- मैं भी । (सब आते है )
रघु :- (जोरसे हसता है ) हा! हा! । अहो मनोरंजक । अरे बाघ नही है , जाओ सब जैसे आये थे वैसे ।
राहुल :- चलो , चलो ।
विशाल :- यह विश्वास के लायक नहीं है।
आमोल :- यह माह धूर्त है । ( सब चले जाते है ।)
-: पांचवा दृश्य :-
(चौथे दिन सहिमे बाघ आता है )
रघु :- (जोरोसे ) अरे! , अरे! , बाघ आ रहा है , सहिमे, आ रहा है । गायों को खा रहा है । जल्दी करो , बचाओ । मेरी गाओ को बचाओ । जल्दी आओ । (बार , बार चिल्लाता है )
विशाल :- अरे यह निर्लज्ज , फिर पुकार रहा है । मत सुनो । बार बार बेवकूफ बनाता है ।
रघु :- आओ ... (बार बार पुकारता है )
राहुल :- यही पर रहना सब ।
अमोल :- नित्य वो हमारी हसी उड़ाता है ।
राहुल :- इसीलिए नहीं जाएंगे । नहीं जाएंगे ।
सब :- नहीं जाएंगे।
रघु :- जल्दी करो । भागो । बाघ मेरी गाओ को खा रहा है ।
लोग :- नहीं जाएंगे ।
रघु :- दौड़ो आओ । जल्दी आओ । हा ! हा हन्त ! इस दुष्ट बाघने मेरी पुष्ट गाओ को खा गया । मेरे दुष्कर्म के कारण ही ऐसा फल मिला । आज के बाद में कभी जूठ नहीं बोलूंगा । कभीभी किसिको मूर्ख नही बनाऊंगा ।