संस्कृतसाहित्यस्यान्यान्याङ्गेषु यथा जैनबौद्धैश्च स्वसहयोगो दत्तस्तथैव स्तोत्रसाहित्येऽपि तेषां योगः स्तुत्यः । जैनस्तोत्राणां संख्यापि भूयसी । केवलं काव्यमालायामेव त्रयोविंशतिजैनस्तोत्राणामेका सङ्कलनं प्राप्यते । तेषु जैन स्तोत्रेषु मानतुङ्गाचार्यस्य ' भक्तामरस्तोत्रम् ' , सिद्धसेनस्य ' कल्याणमन्दिरस्तो त्रम् ' अतितरां प्रसिद्ध । अनयोर्मानतुङ्गाचार्यों बाणभट्टस्य समकालिकः कथ्यते । सिद्धसेनस्तु ततोऽपि शताब्दद्वयपूर्ववर्ती समाख्यायते
' अल्पश्रुतं श्रुतवतां परिहासघाम
त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् ।
यत्कोकिलः किल मधौ मधुरं विरौति
तच्चारुचूतकलिकानिकरैकहेतुः ।। '
' आस्तामचिन्यमहिमा जिन , संस्तवस्ते
नामापि पाति भवतो भवतो जगन्ति ।
तीवातपोपहतपान्थजनान् निदाचे
प्रीणाति पद्मसरसः सरसोऽनिलोऽपि । '
इत्थं वयं पश्यामो यदेषु स्तोत्रेषु प्रकृष्टं साहित्यं लभ्यते । वादिराजस्य एकीभावस्तोत्रम् , जम्बूगुरोः जिनशतकम् , सोमप्रभाचार्यस्य सूक्तिमुक्तावली , हेमचन्द्रस्य अन्ययोगव्यवच्छेदिका इत्यादयो ग्रन्था अप्यत्र प्रकरणे स्मयन्ते ।