अन्ये चम्पूग्रन्थाः
कतिपय भागवताधाराश्चम्पू ग्रन्थाः
भागवतचम्पूरिति नाम्ना अनेके चम्पूग्रन्थाः प्रथन्ते । चिदम्बरविरचितः एकः , रामभद्रविरचितोऽपरः , राजनाथरचितश्चैकोऽन्यः । सर्वेऽपीमे चम्पूग्रन्था भागवत आधारीकृत्य कृताः ।
प्रह्लादचरितं नाम भक्तविवरणं नितान्तलोकप्रियमासीत् , अत एव ' नृसिंहः | चम्पू संशया कतिपये चम्पूग्रन्थाः धूयन्ते । केशवभट्टकृतः नृसिंहचम्पूगन्थः , षभिः स्तबकैः पूर्णः । देवज्ञसूर्य कृतः नृसिंह चम्पग्रन्थः पञ्चभिरुच्छ्वासैः समापितः । सङ्कर्षणकृतः नृसिंहचम्पूग्रन्थः चतुभिरेवोल्लासैः पूर्णः । शेषश्रीकृष्णेन षोडशस्त्रीष्टशतके पारिजातहरणचम्पू ग्रन्थः प्रणीतः ।
महाभारताश्रयश्चम्पूग्रन्थः
महाभारती कथामाश्रित्य अनन्तभट्टेन भारत चम्पूनामको विशालकायो ग्रन्थो विरचितो यत्र द्वादशस्तबकेषु महाभारतकथोपनिवद्धा ।
'दिगन्तरलुठत्कोतिरनन्तकविकुञ्जरः
प्राणः समं सरस्वत्याः प्राणेषोच्चम्पुभारतम् ।।'
इतीयदेवानन्तभट्टेन स्वीय चरितादिप्रसङ्गे कथितमिति न ततः कोऽपि चरिते प्रकाश आधीयते ।
खीष्टीयषोडशशतकभवो मानवेदनामको दाक्षिणात्यो भारतचम्मूग्रन्थस्य व्याख्यां प्रणीतवान् । एतेनास्य , षोडशशतक पूर्ववत्तित्वमायातम् । भागवतचम्पू नामकः सम्प्रत्यप्राप्यश्चम्पूग्रन्थोऽनेनानन्तभट्टेन खीष्टोयकादशशतके प्रसिद्धेन अभिनवफालिदासेन सह स्पायां लिखित इति दन्तकथा , ततोऽस्य खोष्टीय कादशशतकवतित्वं प्रतीयते । तदित्यमय स्रोष्टंकादशशतकषोडशशतकयोरन्त राले जायतति वक्तव्यं भवति ।
अत्र ग्रन्ये प्रयुक्ताया भाषाया विचारेण शैल्याश्च परिशीलनेनास्य षोडश शताब्दीतः किञ्चित्पूर्वकालिकत्वमिव प्रतिपन्नं भवति ।
भारतचम्पूग्रन्थे द्वादश स्तबकाः सन्ति । अत्र संहत्य उपसहस्र श्लोकाः सन्ति । परिमाणे ततः किञ्चिदेव न्यूनं गद्यमपि विद्यते ।
भारतचम्पुः काव्यदृष्ट्या श्लाघनीया विद्यते । अत्र पद्यानां बन्धो यथैव दृढो गद्यानां माधुर्यं स्फुटश्लेषपूर्णत्वञ्च तथैव हृदयावर्जकम् । पद्यमेक दृश्यताम् -
'जाग्रत्सोमककोत्तिसोमनिमिषत्पद्मावकाशात्ययात्
प्राप्तेन्दीवरनित्यवासघटितश्यामप्रभा श्रीरिव ।
पाञ्चालस्य सुता ततः परिजनेः सार्ध पुरः पश्यतां
राज्ञां बुद्धिमिवाधिरुह्य शिविका रङ्गस्थली प्राविशत् ।। '
न केवलं गाढबन्धोत्प्रेक्षयोरेव प्रयोगः , अतिशयोक्तिप्रयोगोऽपि सारल्यसह कृतोऽस्य नितान्तहृद्यः । दृश्यताम् -
' सकलमपि वपुर्विभूष्य तन्व्याः
सपदि सखी विपुलेक्षणाम्बुजाऽपि ।
चिरतरमनवेक्ष्य मध्ययष्टि
करघृतकाञ्चनकाञ्चिरेव तस्यो । '
गद्यमाधुर्यमपि दृश्यताम् , व्यासादेशेन पाण्डवा एकचक्रायां पुर्या स्थिताः , तस्या एव नगर्या वर्णनमिदम् प्रावृषमिव बकबलाक्रान्ताम् , पातालनगरीमिव प्रत्यहं वर्धमानवलि . शोकाम , अङ्गराज्यसीमामिव सूर्यंतनयानुकूलप्रतिष्ठाम् रबिरथाक्षघुरमिक
' कोदृशी सरसा सरला च शैली ! '
अन्य चम्पूग्रन्थाः
दक्षिणभारतीयाश्चम्पूग्रन्थान् अधिकसंख्यायां रचितवन्तः । तत्र -
यात्राप्रबन्धः
समुद्रपुङ्गवदीक्षितः षोडशशतकोद्भवः स्वज्येष्ठमात्रा सह कृतां स्वीयां तीर्थयात्रामेव वर्णयन् यात्राप्रबन्धनामकं चम्पूग्रन्थं लिखितवान् । अत्र दक्षिण भारतगततीर्थानां वर्णनं कृतं यद्विषयदृष्टया नवीनं व्यापकञ्च सदपि प्रकृति वर्णने प्राचीनां परम्परामनुहरति ।
वरदाम्बिकापरिणयचम्पू :
अयं चम्पूग्रन्थः ऐतिहासिकदृष्ट्या महत्त्वपूर्णः , तिरुमलाम्बाकृतश्च ।
नीलकण्ठविजयचम्पूः
नीलकण्ठकविना कृतोऽयं ग्रन्थः समुद्रमन्थन विषयीकरोति । स चार्य नीलकण्ठः शिवलीलार्णवकर्तुरभिन्न एवेति ख्रीष्टसप्तदशशतकपूर्वार्द्धभागोऽस्य निश्चितः समयः ।
विश्वगुणादर्शचन्पू :
पौराणिकीभिः कथाभिरुद्वेजिताः कवयो नूतनानि वस्तून्याधारीकृत्यापि चम्पूग्रन्थप्रणयनं कृतवन्तः । विश्वगुणादर्शचम्पूरेतादृशस्यैव प्रयासस्य फलम् । विश्वगुणादर्श नामकस्यास्य ग्रन्थस्य रचयिता वेङ्कटाध्वरी । स हि काञ्ची वासी आत्रेयगोत्रोद्भवः रघुनाथसीतयोः पुत्रश्च । अस्य समयः स्रोष्टसप्तदशश तकम् । अयं ग्रन्थः सर्वथा नूतनया शैल्या निबद्धः । अत्र विश्वावसुः कृशानुश्चेति द्वो गन्धर्वो विमानमारूढी भारतीयानि तानि तानि तीर्थानि पश्यतः , तेषां तीर्थानां गुणान् दोश्च वर्णयतः । तदेवमत्र भारतस्य भौगोलिकं वर्णनं तीर्थानां गुणदोषविमर्शश्च कृतो बोध्यः ।
वैष्णवमतपोषकाश्चम्पू ग्रन्थाः
यथा जनमतावलम्बिनो निजमतपरिपुष्टये तत्प्रचाराय च तांस्तश्चिम्पू ग्रन्थान् वशस्तिलकजीवन्धरचरितादीन् विरचितबन्तस्तवैव माध्वगौडीयशाखाया वैष्णवा विद्वांसः स्वमतप्रचारपुष्टिभ्यां तांस्तान् चम्पूग्रन्थान् निवबन्धुः । तत्र महाप्रभुचैतन्यस्य शिष्यो रघुनाथदासः मुक्ताचरित्र नामकमेकं चारु चम्पूपुस्तक कृतवान् । अन्न कृष्णद्वारा मुक्ताया वपनं तस्य क्षीरेण सेचनश्च वर्णितम् । अस्यापि समयः षोडाशताब्दी एव सम्भाव्यते ।
चम्यूकाव्यम् कविकर्णपूरकृता आनन्दवृन्दावनचम्पू : विशालतनुरतिहृद्या च । अयं कर्ण पूरः षोडशशतकावसानभागवतौ ।
खोष्टसप्तदशशतकोत्पन्नो जीवगोस्वामी गोपालचम्पू - नाम्ना प्रथमानं ग्रन्य कृतवान् , यत्र कृष्णचन्द्रस्य समस्तमपि चरित्रम् आलङ्कारिक्या मार्मिक्या च पद्धत्या वर्णितम् । अत्र चम्पूग्रन्थे गौडीयशाखासम्मतभक्तिप्रकारस्य विवेचनमपि साधूदाहरणादिप्रदर्शनविधया कृतमिव । काव्यग्रन्येन सहवायं धर्मग्रन्थोऽपि वक्तुं शक्यते ।
सप्तदशशताब्द्याः परतोऽपि चम्पूकाव्यानां प्रणयनं प्रक्रान्तमेवावर्तत ।
वीरमित्रोदय - नाम्ना प्रसिद्धस्य नानाभागविभक्तस्य धर्मशास्त्रग्रन्थस्य कर्ता मित्रमिथनामा विद्वान् आनन्दकन्दचम्मूनामकं चम्यूग्रन्थमेकं प्रणीतवान् । अत्र ग्रन्थे कविपण्डितमित्रमित्रेण भगवतः श्रीकृष्णचन्द्रस्य बाललीलानां रुचिरं वर्णन भवसानभागे स्वाश्रयदातुः १६०५ खीष्टीयतः १६२७ खोटोयवर्षपर्यन्तम् ओरछा नामके स्थाने राज्यं कृतवतो वीरसिंहदेवस्य वंशानुकीर्तनमपि कृतम् ।
मित्रमिश्र ग्वालियरवासी शाण्डिल्यगोत्रो हंसमिश्रस्य पौत्रः परशुराममि वस्य च पुत्रः सनायब्राह्मणवंशोभूवश्चासीत् । अस्य वीरसिंहदेवाश्रितत्वात् समयः खीष्टसप्तदशशतकपूर्वार्द्धभागः सिद्ध एव ।
वङ्गदेशोद्भवो बाणेश्वरभट्टाचार्यः अष्टादशशतकोत्पन्नेषु वङ्गीयपण्डितषु प्रथितकोतिरासीत् । अयमेव बाणेश्वरभट्टाचार्यः वारनहेरिटग्स - नाम केन बङ्गाल राज्यपालेन नियुक्तो विवादार्णवसेतुं नाम विधिग्रन्थं कृतवान् । अनेन बाणेश्वर भट्टाचार्यस्य समयः १७७५ स्त्रीष्टीयवमितो निर्धारितो भवति ।
अयं बाणेश्वरः चित्रचम्पू - नामानमेकं वैष्णवभावनायास्तत्त्वस्य च प्रकाशकं गन्यं निर्मितवान् । प्रेमभक्तिद्वारा भगवत्प्राप्तेरुपायोऽत्र कान्यवर्मना प्रकाशितः । एतावत्पर्यन्तं येषां चम्पूकाव्यानां चर्चा कृता तदन्येऽपि कतिपये चम्पूग्रन्थाः अयन्ते । यथा
१. सोड्ढल : -कायस्थवंशोत्पन्नः कोङ्कणराजस्य मुम्मणिराजनामकस्या वित आसीत् , अतोऽस्य समयः १०६० ख्रीष्टीयमितः कथ्यते । अनेन अवन्ति सुन्दरोकथाचम्पूः विरचिता ।
२. अनन्तभट्टस्य भागवतचम्पूः । ( एकादशशतकम् ) ।
३. समरपुङ्गवदीक्षितस्य तीर्थयात्राप्रबन्धचम्पूः ( सप्तदशशतकम् ) । .