रुद्रट का काव्यालङ्कारः
6/14/2022 09:56:18 am
रुद्रट का काव्यालङ्कारः
रुद्रटः काश्मीरवासी सामवेदी शतानन्दापरनामा वामुकनामस्य विदुषः , पुत्रश्चासीत् । अनेन प्रणीतस्य काव्यालङ्कारस्य उद्धरणानि राजशेखरेण भोज राजेन प्रतिहारेन्दुराजेन च स्वीयग्रन्थेषु दत्तानि , अतोऽयं नवमशतकोत्तरभागे अवर्ततेति कल्पना कतुं शक्यते । जेकोबीमहाशयो रुद्रटं शहकरवर्म नाम्नोऽवन्तिवर्मपुत्रस्य समसामयिकं मन्यते । अतोऽपि पूर्वोक्त एव समयः सिद्धयति ।
रुद्रटकृतयस्तित्रः -
१ . काव्यालङ्कारः ,
२. शृङ्गारतिलकम् ,
३ . त्रिपुरवधकाव्यञ्च ।
तत्र रुद्रटस्य काव्यालङ्कारो विषयविवेचनदृष्टयाऽतीवव्यापकः । काव्य प्रयोजनम , तदुद्देश्यम् , कवितासामग्री , अलङ्कार , भाषा , रोतिः , रसाः , वृत्तयः सर्वेधीमे विषया अत्र ग्रन्थे विवेचिताः , परमस्य विदुषोऽलङ्कारसम्प्रदाय प्रवर्त्तमान्यतमत्वेनालङ्कारा एवं मुख्यतां गमिताः । अत्र अन्थे षोडशाध्यायाः पद्यानि च ७३४ मितानि सन्ति । अलङ्काराणां विभाजन वर्गीकरणञ्च सर्व प्रथममनेनेव कृतम् । अलङ्काराणां चत्वारि मूलतत्त्वानि - वास्तवम् , औपम्यम्, अतिशयः , श्लेषश्चातोऽलङ्कारश्चतुति तदीयस्तकः । प्राचीनरुक्ताः कतिपये : लङ्कारास्त्यक्ताः कतिचन नवा उक्ताः , कतीनाञ्च संशा परिवत्तिता । तदेवं सर्वथा परिष्कृतोऽलङ्कारमार्गः । अलङ्कारशास्त्र प्रथमोऽयमस्योपक्रमः ।