कालिदासः नाटककार
संस्कृतसाहित्ये यावन्तो नाटककाराः प्रथन्ते तेषु कालिदासस्य स्थान सर्वोच्चमिति निश्चयेन वक्तुं पार्यते । कालिदासस्य तिस्रः नाटककृतयः प्रसिद्धास्तत्रापि शाकुन्तलमप्रतिस्पद्धिभावेनावस्थितम् –'काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला । पाश्चात्त्या विद्वांसोऽपि शाकुन्तल मुक्तकण्ठं प्रशंसन्ति ।
कालिदासो महाभारतीयों कथामाश्रित्य शाकुन्तलं नाम नाटक प्रणीतवान् । महाभारतीया शकुन्तलाकथा निम्नलिखितस्वरूपा - मृगया - गतो दुष्यन्त आश्रम प्रविशति , शकुन्तला प्रत्यक्षयति , द्वयोर्हदययोः प्रेमाङ्कुर उत्पद्यते , शकुन्तला प्रौढस्त्रीव दुष्यन्तेन सह विवाहं तदेव कत्तु तत्परा भवति यदा दुष्यन्तस्तत्पुत्र राज्येऽभिषेक्तुमनुमनुते , द्वयोः परिणयपूर्वकः सङ्गमः प्रवर्तते , कियत्कालानन्तर राजा स्वां राजधानीमागच्छति , राज्यकार्यासक्तश्च स शकुन्तला विस्मरति ।
प्रसूतपुत्रां शकुन्तलां कण्वो राजान्तिकं प्रेषयति , राजा तयोग्रहणं नानुमन्यते , अत्रैव समये जातायाम् ' तवेवायं पुत्र ' इत्याकाशवाण्यां राजा तद्ग्रहणं प्रति पद्यते । इयमीदृशी कथा नितान्तनिष्प्राणा । यदि राजा कामाततॊ यत्किञ्चित् प्रतिज्ञाय वाकुन्तलामङ्खशायिनों करोति , परतश्च स्वजनभयात्तदपलपति , जातायां पुनराकाशवाण्यां प्राप्तबल इव ता पुनरादत्ते , तदात्र कि रामणीयकम् ?
कालिदासस्तु तामेव कथा क्वचिल्लघूकरोति , यथा- शकुन्तला स्वपुत्र राज्यं न प्रतिज्ञापयति , राजा स्वयं न विस्मरति । कविरष दुर्वाससः शापं मध्येकृत्य तस्यास्मृति रचयति । जाते च शापापगमे राजा तां स्मृल्योन्मनोभवति ।
शकुन्तलायाः शीलस्य रक्षार्थ कालिदासेन प्रियंवदानुसूये नाम सख्यौ कल्पिते , ये राजानं शकुन्तलामनोभावं कथयतः । शकुन्तलाप्रत्याख्यानतत्तपश्चरणपुनर्मि लनानि कालिदासकल्पितानि नाटक चमत्कारि कुर्वन्ति । चरित्रचित्रणं कालि दासस्य शिल्पम् ।
महाभारतकथायां या शकुन्तला रूक्षप्राया स्वपुत्रस्य भाविना राज्याभिषेकेणात्मानं विक्रीतवती ; सैव शकुन्तला कालिदासेन केवलप्रणय भूतिश्चित्रिता । महाभारतस्य दुष्यन्तः प्रियामपि शकुन्तला लोकभयाद्विस्मृता प्रत्याययति , जातायां चाकाशवाण्यां तां स्वीकरोति , पर कालिदासस्य दुष्यन्तः शापवशात्तां विस्मरति , शापापगमे च तदर्य खिन्नमनास्तप.पूत इव तो पुनरा पोति , दुष्यन्तस्य प्राथमिकः प्रणयो भावोद्रेकोदितो राजसः शापकृतविस्मरण बशाच्छोधित इवावसाने सात्त्विकत्वं प्राप्य चरममुत्कर्ष भजत इत्येव कालिदासन निदर्शितम् ।
कालिदासः स्वीये शाकुन्तले सौन्दर्य भावनायां रससिद्धौ च परा सिद्धि प्राप्तवान् । प्रकृतिकोडे व्यतिगतबाल्यायाः शकुन्तलायाः स्वरूपे वयंमाने
' अधरः किसलयेरागः कोमलविटपानुकारिणी बाहू ।
कुसुममिव लोभनीय यौवनमङ्गेषु सन्नद्धम् ॥ '
पद्यमिदं पठन् सहृदयः बाह्यप्रकृतेरन्त प्रकृत्या सामन्जस्य प्रतियन शकुन्तला कमनीयलतारूपां प्रत्यक्षीकुरुते । सौन्दर्यभावनाया सौकुमार्यमावेदयितुं कविरयं यत्र तत्र कृतप्रयासः
' पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् । '
रससिद्धौ पुनरयमाचार्य एव । यथावसर भावानां बोधनेन रसः पुष्यत इत्यस्य कवित्वे प्रत्यक्षदृश्यम् । शकुन्तलायाः प्रतिगृहप्रयाणावसरे
' यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया ,
कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् । '
अत्रोक्तो कीदृशं हृदयद्रावकं स्वाभाविकं च वर्णनम् । श
कुन्तलाया प्रस्थानकाले कम्बस्य रोदनं सर्ववेद्यम् , सखीनां बाष्पोदयः सर्वानुमेयः , परमचेतनायाः प्रकृतेः शोकावेगस्तु कालिदासेनैवावेक्षितः
' उद्गीणंदर्भकवला मृगी परित्यक्तनतना मयूरी ।
अपसृतपाण्डुपत्रा मुञ्चन्त्यधूणीव लताः ।
यत्र कालिदासीयनाटकेषु पात्राणि जीवनशक्तिसम्पन्नानि ; उपमाः स्थानीय शोभावर्धनायेव विन्यस्ताश्च भवन्ति , तत्रैव हृदयपक्षोऽपि नानादरभाजनता नोयते ।
कालिदासस्य नोणि रूपकाणि प्रसिद्धानि –
१ . अभिज्ञानशाकुन्तलम्,
२. मालविकाग्निमित्रम्,
३. विक्रमोर्वशीयञ्च ।
१. अभिज्ञानशाकुन्तलम्
अस्य कथानकमतिप्रथितम् । राजा दुष्यन्तो मृगयार्थ वनं गतो यावत्कण्या श्रममादरादवलोकयितुमुपैति , तावत्तत्र बालपादपान सिञ्चन्ती शकुन्तलामालोक्य तस्यै स्निायति , तदीयं जन्म मनसा जिज्ञासते , जाते परिचये गान्धर्वेण विवाहेन तामुपयच्छति , कार्यानुरोधाच्च राजधानी प्रति परावर्तते ।
राजपरिणीता तद्वियोगखिन्ना च पाकुन्तला आश्रमागतस्य दुर्वाससः समुचितमातिथ्यमविधाय तच्छापभाजनं भवति , कण्वेन यथाऽवसर पत्युः समीपं प्रेषिताऽपि शकुन्तला शापव्यवहितस्मृतिना पल्या दुष्यन्तेनापरिगृहीता मरीचेराश्रमे सुतमसूत तत्रैव चातिष्छन् । अथ जातेऽङ्गुलीयकदर्शने सञ्जातशकुन्तलास्मृतिदेवकार्यानुरोधेन दिवं गत्वा ततः परावृत्तश्च राजा मुनिगौरवादाश्रमं गतो यावच्छकुन्तला पश्यति तावदेव सा सपुत्रा राज्ञास्वीकृताऽविराममानन्दमाससादेति ।
इयमियती कथा कालिदासस्य नाटकरचनाप्रावीण्येन तां मनोहरतामा पादिता यया शाकुन्तलस्य मनोहरत्वं परां कोटिमभजत । उत्तमनाटकेऽपेक्षितानां कथोपकथनचरित्रचित्रणप्रकृतिवर्णनरससृष्टीनां प्रागुण्येन नाटकमिदमतिप्रशंसा भाजनमजनि । तत्र जमनविदुषा गेटेमहाशयेन कृतस्य शाकुन्तलस्तवस्य संस्कृतरूपं बलदेवोपाध्यायेनोवृतं मया ततः प्रत्युद्भियते -
' वासन्तं कुसुमं फलच युगपद्ग्रीष्मस्य सर्व च यत्
यच्चान्यन्मनसो रसायनमतः सन्तर्पणं मोहनम् ।
एकीभूतमभूतपूर्वमववा स्वर्लोकभूलोकयो
रेश्वयं यदि वाञ्छसि प्रियसखे शाकुन्तलं सेव्यताम् ।। "
२. मालविकाग्निमित्रम्
लघुकायेऽस्मिन्नाटके विदर्भराजदुहितुर्मालविकायाः मालवेन्द्रेण सह प्रणयस्य कथामनोहरया शैल्योपनिबद्धा । नाट्य कलाप्रदर्शनाय रङ्गमवतीर्णाया माल , विकया वर्णने कविना नाट्यशास्त्ररहस्यज्ञानमपि प्रकटीकृतम् । इदं नाटक कालिदासस्याथा कृतिरिति ग्रन्थान्तरखदत्र प्रौढि वाप्यते । अत्र रूपके भूम्ना लौकिकी कथोपनिबद्धा ।
३. विक्रमोर्वशीयम्
कुबेरमाराध्य प्रतिनिवृत्तोर्वशी मध्येमार्ग केशिनाम्ना राक्षसेन वलादाहि यमाणा श्रुतरमणीरुदितोपस्थितेन राज्ञा पुरुरवसा राक्षसत्रासाग्मोचयित्वा स्वरयेऽवस्थाप्याप्सरोनिकेतं नीयमाना जातप्रबोधमात्रैव तस्मिन्नासक्तिमभजतेति कथाबीजम् ।
अत्र नाटके प्रायशो दिव्यानि पात्राणि , उर्वशी स्ववेश्या तत्सहचर्योप्सरसः , पुरूरवा अपि दिव्यादिव्य इति भूयसा दिव्यपात्राण्यत्रावतारितानि । तदेवं त्रिष्वपि रूपकेषु कालिदासेन स्वीयपाण्डित्यप्रकर्षो दर्शितः । ग्रन्थानां प्रातिस्विकं विशदञ्चालोचन ग्रन्थगौरवभयान्मुच्यते ।