स्तोत्र साहित्यम्
यत्र ग्रन्ये देवतां काञ्चिदुद्दिश्य नतिनिबध्यते तत्स्तोत्रम् । स्तोत्रप्रसङ्गे भावस्य प्रकाशनाय कविभिः प्रयासः क्रियतेऽतोऽस्यापि काव्यभेदरूपता पर्य वसिता । अस्य काव्यभेदस्यादिमं रूपं रुद्राध्यायादौ वेदे दृश्यते तत्र हि नतिनि बढेव , प्रार्थना अपि स्फुटाः , ' नमस्ते रुद्रमन्यवे ' , ' मानस्तोके तनये मान आयुषिमानो गोषु मानोऽश्वेषु रोरिषः ' इत्यादिस्तोत्ररूपं वैदिकं साहित्यं सुप्रकाशम् ।
वेदतः परतः पुराणेषु इतिहासेषु च स्तोत्राणि प्राप्यन्ते । महाभारते रामा यणे श्रीमद्भागवते च स्तुतिसाहित्यस्य उत्तमानि निदर्शनानि दृश्यन्ते । मार्कण्डेय पुराणस्थं भगवतीस्तोत्रमपि प्रशंसनीयम् ।
ततः परमपि कुमारसम्भवे स्तोत्रमुपनिबद्ध ' यन्महाकाव्याङ्गम् इति पृथक् स्तोत्रसाहित्यरूपेण नाङ्गाक्रियते ।
पौराणिकस्तोत्राणि विहाय लौकिकस्तोत्राणां क्रमनिर्धारणे प्रक्रम्यमाणे सर्वाधिकप्राचीनं महिम्नः स्तोत्र स्यादिति सम्भाव्यते । यद्यपि तस्य कर्ता पुष्पदन्तः कुत्र कदा चाभवदिति न स्मयतेऽयापि कश्मीरेषु यदा शैवागमशास्त्रस्य महान् प्रचार आसीत्तदा कोऽपि कविः काल्पनिकेन वास्तविकेन वा पुष्पदन्त इति नाम्ना ग्रन्थमिमं चकारेति बाढं विश्वसिमि । दशमशतकात् पूर्वमेव शेवा गमशास्त्रं पूर्णप्रचारवदासीदिति महिम्नः स्त्रोत्रस्यापि दशमे ततः पूर्वतने वा शतके निर्माण सम्भाव्यते । अष्टमशतकमस्य समय इति केचित् ।
स्तोत्रस्यास्य प्रसङ्गे कथा प्रसिद्धा यत्पुष्पदन्तो हरस्य पाश्वचरो गणः स हि शिवशापवशात् गन्धर्वभावं गतः , स्त्रोत्रेणानेन शिवं प्रसाद्य च स्वं प्राचीनं गणस्थान प्राप्तवान् । कथासरित्सागरे तु पुष्पदन्त एव कात्यायनरूपेणावतीणः स्तोत्रमिदमकृतेति कथा प्रथते । ततश्चास्य ईशवीयपूर्वचतुर्थशतके समुत्पन्न ताऽऽपतति ।
भरद्वाजमहोदवास्तु भाषाक्रमेणास्य प्रणयनकालम् अष्टमशतकम् आमनन्ति ।
महिम्नः स्तोत्रम्
स्वीयया पाण्डित्यपूर्णया मनोहरया भावप्रवणया च शेल्या स्तोत्रमिदमतीव ख्यातम् । अत्र लघुकायेऽपि स्तोत्रे विशतिष्टीकाः प्रणीता येनास्य प्रकर्षः प्रतिभाति । मधुसूदनसरस्वतीकृता शिवविष्णूभयपक्षीया टीका शास्त्रीयार्थ प्रकाशिका प्रोढा च ।
अत्रत्याः श्लोकाः गाढवन्धतायां कस्यापि काव्यग्रन्थस्य तुलामारोदु क्षमाः ।
मधुस्फीता वाचः परममृतं निर्मितवत
स्तव ब्रह्मन् कि बागपि सुरगुरोविस्मयपदम् ।
मम वेतां वाणी गुणकथनपुण्येन भवतः
पुनामीत्यर्थेऽस्मिन्पुरमथन बुद्धिव्यवसिता । '
कतिचन पद्यानि शास्त्रीयपद्धतिव्यजकतया व्याख्यामन्तरा दुर्बोधानि ।
' त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो श्रीनपि सुरा
नकारावर्गस्त्रिभिरभिदधत्तीर्ण विकृतिः ।
तुरीयं ते धाम ध्वनिभिरनुरुन्धानमणुभिः
समस्तं व्यस्तं त्वां शरणद गुणात्योमिति पदम् ।। '
एवं सत्यपि काव्यदृशाऽपि स्तोत्रस्यास्य कापि नवेव विच्छित्तिजनकता यथा
' हरिस्ते साहस्र कमलबलिमाधाय पदयो
यदिकोनेतस्मिग्निजमुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेकः परिणतिमसो चक्रवाषा
त्रयाणां रक्षायां त्रिपुरहर जागत्ति जगताम् ॥ '
शङ्कराचार्यस्य स्तोत्राणि
कुलशेखरः
जगद्धरस्य स्तुतिकुसुमाञ्जलिः
जैन स्तोत्राणि
बौद्ध स्तोत्राणि